धर्मDharmic Data

शल्यपर्व · Shalya Parva

अध्याय 2

  1. [वै] विसृष्टास्व अथ नारीषु धृतराष्ट्रॊ ऽमबिका सुतः विललाप महाराज दुःखाद दुःखतरं गतः ॥ 1 ॥

  2. सधूमम इव निःश्वस्य करौ धुन्वन पुनः पुनः विचिन्त्य च महाराज ततॊ वचनम अब्रवीत ॥ 2 ॥

  3. अहॊ बत महद दुःखं यद अहं पाण्डवान रणे कषेमिणश चाव्ययांश चैव तवत्तः सूत शृणॊमि वै ॥ 3 ॥

  4. वज्रसार मयं नूनं हृदयं सुदृढं मम यच छरुत्वा निहतान पुत्रान दीर्यते न सहस्रधा ॥ 4 ॥

  5. इन्तयित्वा वचस तेषां बाल करीडां च संजय अद्य शरुत्वा हतान पुत्रान भृशं मे दीर्यते मनः ॥ 5 ॥

  6. अन्धत्वाद यदि तेषां तु न मे रूपनिदर्शनम पुत्रस्नेह कृता परीतिर नित्यम एतेषु धारिता ॥ 6 ॥

  7. बालभावम अतिक्रान्तान यौवनस्थांश च तान अहम मध्यप्राप्तांस तथा शरुत्वा हृष्ट आसं तथानघ ॥ 7 ॥

  8. तान अद्य निहतन शरुत्वा हृतैश्वर्यान हृतौजसः न लभे वै कव चिच छान्तिं पुत्राधिभिर अभिप्लुतः ॥ 8 ॥

  9. एह्य एहि पुत्र राजेन्द्र ममानाथस्य सांप्रतम तवया हीनॊ महाबाहॊ कां नु यास्याम्य अहं गतिम ॥ 9 ॥

  10. गतिर भूत्वा महाराज जञातीनां सुहृदां तथा अन्धं वृद्धं च मां वीर विहाय कव नु गच्छसि ॥ 10 ॥

  11. सा कृपा सा च ते परीतिः सा च राजन सुमानिता कथं विनिहतः पार्थैः संयुगेष्व अपराजितः ॥ 11 ॥

  12. कथं तवं पृथिवीपालान भुक्त्वा ताथ समागतान शेषे विनिहतॊ भूमौ पराकृतः कुनृपॊ यथा ॥ 12 ॥

  13. कॊ नु माम उत्थितं काल्ये तात तातेति वक्ष्यति महाराजेति सततं लॊकनाथेति चासकृत ॥ 13 ॥

  14. परिष्वज्य च मां कण्ठे सनेहेनाक्लिन्न लॊचनः अनुशाधीति कौरव्य तत साधु वद मे वचः ॥ 14 ॥

  15. ननु नामाहम अश्रौषं वचनं तव पुत्रक भूयसी मम पृथ्वीयं यथा पार्थस्य नॊ तथा ॥ 15 ॥

  16. भगदत्तः कृपः शल्य आवन्त्यॊ ऽथ जयद्रथः भूरिश्रवाः सॊमदत्तॊ महाराजॊ ऽथ बाह्लिकः ॥ 16 ॥

  17. अश्वत्थामा च भॊजश च मागधश च महाबलः बृहद्बलश च काशीशः शकुनिश चापि सौबलः ॥ 17 ॥

  18. मलेच्छाश च बहुसाहस्राः शकाश च यवनैः सह सुदक्षिणश च काम्बॊजस तरिगर्ताधिपतिस तथा ॥ 18 ॥

  19. भीष्मः पितामहश चैव भारद्वाजॊ ऽथ गौतमः शरुतायुश चाच्युतायुश च शतायुश चापि वीर्यवान ॥ 19 ॥

  20. जलसंधॊ ऽथार्श्यशृङ्गी राक्षसश चाप्य अलायुधः अलम्बुसॊ महाबाहुः सुबाहुश च महारथः ॥ 20 ॥

  21. एते चान्ये च बहवॊ राजानॊ राजसत्तम मदर्थम उद्यताः सर्वे पराणांस तयक्त्वा रणे परभॊ ॥ 21 ॥

  22. येषां मध्ये सथितॊ युद्धे भरातृभिः परिवारितः यॊधयिष्याम्य अहं पार्थान पाञ्चालांश चैव सर्वशः ॥ 22 ॥

  23. चेदींश च नृपशार्दूल दरौपदेयांश च संयुगे सात्यकिं कुन्तिभॊजं च राक्षसं च घटॊत्कचम ॥ 23 ॥

  24. एकॊ ऽपय एषां महाराज समर्थः संनिवारणे समरे पाण्डवेयानां संक्रुद्धॊ हय अभिधावताम किं पुनः सहिता वीराः कृतवैराश च पाण्डवैः ॥ 24 ॥

  25. अथ वा सर्व एवैते पाण्डवस्यानुयायिभिः यॊत्स्यन्ति सह राजैन्द्र हनिष्यन्ति च तान मृधे ॥ 25 ॥

  26. कर्णस तव एकॊ मया सार्धं निहनिष्यति पाण्डवान ततॊ नृपतयॊ वीराः सथास्यन्ति मम शासने ॥ 26 ॥

  27. यश च तेषां परणेता वै वासुदेवॊ महाबलः न स संनह्यते राजन्न इति माम अब्रवीद वचः ॥ 27 ॥

  28. तस्याहं वदतः सूत बहुशॊ मम संनिधौ युक्तितॊ हय अनुपश्यामि निहतान पाण्डवान मृधे ॥ 28 ॥

  29. तेषां मध्ये सथिता यत्र हन्यन्ते मम पुत्रकाः वयायच्छमानाः समरे किम अन्यद भागधेयतः ॥ 29 ॥

  30. भीष्मश च निहतॊ यत्र लॊकनाथः परतापवान शिखण्डिनं समासाद्य मृगेन्द्र इव जम्बुकम ॥ 30 ॥

  31. दरॊणश च बराह्मणॊ यत्र सार्व शस्त्रास्त्रपारगः निहतः पाण्डवैः संख्ये किम अन्यद भागधेयतः ॥ 31 ॥

  32. भूरि शवरा हतॊ यत्र सॊमदत्तश च साम्युगे बाह्लीकश च महाराज किम अन्याद भग धेयतः ॥ 32 ॥

  33. सुदक्षिणॊ हतॊ यत्र जलसंधश च कौरवः शरुतायुश चाच्युतायुश च किम अन्यद भागधेयतः ॥ 33 ॥

  34. बृहद्बलॊ हतॊ यत्र मगधश च महाबलः आवन्त्यॊ निहतॊ यत्र तरिगर्तश च जनाधिपः संशप्तकाश च बहवः किम अन्यद भागधेयतः ॥ 34 ॥

  35. अलम्बुसस तथा राजन राक्षासश चाप्य अलायुधः आर्श्यशृङ्गश च निहतः किम अन्यद भागधेयतः ॥ 35 ॥

  36. नारायणा हता यत्र गॊपाला युद्धदुर्मदाः मलेच्छाश च बहुसाहस्राः किम अन्यद भागधेयतः ॥ 36 ॥

  37. शकुनिः सौबलॊ यत्र कैतव्यश च महाबलः निहतः सबलॊ वीरः किम अन्यद भागधेयतः ॥ 37 ॥

  38. राजानॊ राजपुत्राश च शूराः परिघबाहवः निहता बहवॊ यत्र किम अन्यद भागधेयतः ॥ 38 ॥

  39. नानादेशसमावृत्ताः कषत्रिया यत्र संजय निहताः समरे सर्वे किम अन्यद भागधेयतः ॥ 39 ॥

  40. पुत्राश च मे विनिहताः पौत्राश चैव महाबलाः वयस्या भरातरश चैव किम अन्यद भागधेयतः ॥ 40 ॥

  41. भागधेय समायुक्तॊ धरुवम उत्पद्यते नरः यश च भाग्यसमायुक्तः स शुभं पराप्नुयान नरः ॥ 41 ॥

  42. अहं वियुक्तः सवैर भाग्यैः पुत्रैश चैवेह संजय कथम अद्य भविष्यामि वृद्धः शत्रुवशं गतः ॥ 42 ॥

  43. नान्यद अत्र परं मन्ये वनवासाद ऋते परभॊ सॊ ऽहं वनं गमिष्यामि निर्बन्धुर जञातिसंक्षये ॥ 43 ॥

  44. न हि मे ऽनयद भवेच छरेयॊ वनाभ्युपगमाद ऋते इमाम अवस्थां पराप्तस्य लूनपक्षस्य संजय ॥ 44 ॥

  45. दुर्यॊधनॊ हतॊ यत्र शल्यश च निहतॊ युधि दुःशासनॊ विशस्तश च विकर्णश च महाबलः ॥ 45 ॥

  46. कथं हि भीमसेनस्य शरॊष्ये ऽहं शब्दम उत्तमम एकेन समरे येन हतं पुत्रशतं मम ॥ 46 ॥

  47. असकृद वदतस तस्य दुर्यॊधन वधेन च दुःखशॊकाभिसंतप्तॊ न शरॊष्ये परुषा गिरः ॥ 47 ॥

  48. एवं स शॊकसंतप्तः पार्थिवॊ हतबान्धवः मुहुर मुहुर मुह्यमानः पुत्राधिभिर अभिप्लुतः ॥ 48 ॥

  49. विलप्य सुचिरं कालं धृतराष्ट्रॊ ऽमबिका सुतः दीर्घम उष्णं च निःश्वस्य चिन्तयित्वा पराभवम ॥ 49 ॥

  50. दुःखेन महता राजा संतप्तॊ भरतर्षभ पुनर्गावल्गणिं सूतं पर्यपृच्छद यथातथम ॥ 50 ॥

  51. भीष्मद्रॊणौ हतौ शरुत्वा सूतपुत्रं च पातितम सेनापतिं परणेतारं किम अकुर्वत मामकाः ॥ 51 ॥

  52. यं यं सेना परणेतारं युधि कुर्वन्ति मामकाः अचिरेणैव कालेन तं तं निघ्नन्ति पाण्डवाः ॥ 52 ॥

  53. रणमूर्ध्नि हतॊ भीष्मः पश्यतां वः किरीटिना एवम एव हतॊ दरॊणः सर्वेषाम एव पश्यताम ॥ 53 ॥

  54. एवम एव हतः कर्णः सूतपुत्रः परतापवान सा राजकानां सर्वेषां पश्यतां वः किरीटिना ॥ 54 ॥

  55. पूर्वम एवाहम उक्तॊ वै विदुरेण महात्मना दुर्यॊधनापराधेन परजेयं विनशिष्यति ॥ 55 ॥

  56. के चिन न सम्यक पश्यन्ति मूढाः सम्यक तथापरे तद इदं मम मूढस्या तथा भूतं वचः सम ह ॥ 56 ॥

  57. यद अब्रवीन मे धर्मात्मा विदुरॊ दीर्घदर्शिवान तत तथा समनुप्राप्तं वचनं सत्यवादिनः ॥ 57 ॥

  58. दैवॊपहतचित्तेन यन मयापकृतं पुरा अनयस्य फलं तस्य बरूहि गावल्गणे पुनः ॥ 58 ॥

  59. कॊ वा मुखम अनीकानाम आसीत कर्णे निपातिते अर्जुनं वासुदेवं च कॊ वा परत्युद्ययौ रथी ॥ 59 ॥

  60. के ऽरक्षन दक्षिणं चक्रं मद्रराजस्य संयुगे वामं च यॊद्धुकामस्य के वा वीरस्य पृष्ठतः ॥ 60 ॥

  61. कथं च वः समेतानां मद्रराजॊ महाबलः निहतः पाण्डवैः संख्ये पुत्रॊ वा मम संजय ॥ 61 ॥

  62. बरूहि सर्वं यथातत्त्वं भरतानां महाक्षयम यथा च निहतः संख्ये पुत्रॊ दुर्यॊधनॊ मम ॥ 62 ॥

  63. पाञ्चालाश च यथा सर्वे निहताः सपदानुगाः धृष्टद्युम्नः शिखाण्डी च दरौपद्याः पञ्च चात्मजाः ॥ 63 ॥

  64. पाण्डवाश च यथा मुक्तास तथॊभौ सात्वतौ युधि कृपश च कृतवर्मा च भारद्वाजस्य चात्मजः ॥ 64 ॥

  65. यद यथा यादृशं चैव युद्धं वृत्तं च सांप्रतम अहिलं शरॊतुम इच्छामि कुशलॊ हय असि संजय ॥ 65 ॥

Reach this point to mark the section finished.

Continue to अध्याय 3

Previous: अध्याय 1