धर्मDharmic Data

शल्यपर्व · Shalya Parva

अध्याय 28

  1. [स] ततः करुद्धा महाराज सौबलस्या पदानुगाः तयक्त्वा जीवितम आक्रन्दे पाण्डवान पर्यवारयन ॥ 1 ॥

  2. तान अर्जुनः परत्यगृह्णात सहदेव जये धृतः भीमसेनश च तेजस्वी करुद्धाशीविषदर्शनः ॥ 2 ॥

  3. शक्त्यृष्टि परासहस्तानां सहसेवं जिघांसताम संकल्पम अकरॊन मॊघं गाण्डीवेन धनंजयः ॥ 3 ॥

  4. परगृहीतायुधान बाहून यॊधानाम अभिधावताम भल्लैश चिच्च्छेद बीभत्सुः शिरांस्य अपि हयान अपि ॥ 4 ॥

  5. ते हता रप्त्यपद्यन्त वसुधां विगतासवः तवरिता लॊकवीरेण परहताः सव्यसाचिना ॥ 5 ॥

  6. ततॊ दुर्यॊधनॊ राजा दृष्ट्वा सवबलसंक्षयम हतशेषान समानीय करॊद्धॊ रथशतान विभॊ ॥ 6 ॥

  7. कुञ्जरांश च हयांश चैव पादातंश च परंतप उवाच सहितान सर्वान धार्तराष्ट्र इदं वचः ॥ 7 ॥

  8. समासाद्य रणे सर्वान पाण्डवान ससुहृद गणान पाञ्चाल्यं चापि सबलं हत्वा शीघ्रं निवर्तत ॥ 8 ॥

  9. तस्य ते शिरसा गृह्य वचनं युद्धदुर्मदाः परत्युद्ययू रणे पार्थांस तव पुत्रस्य शासनात ॥ 9 ॥

  10. तान अभ्यापततः शीघ्रं हतशेषान महारणे शरैर आशीविषाकारैः पाण्डवाः समवाकिरन ॥ 10 ॥

  11. तत सैन्यं भरतश्रेष्ठ मुहूर्तेन महात्मभिः अवध्यत रणं पराप्य तरातारं नाभ्यविन्दत परतिष्ठमानं तु भयान नावतिष्ठत दंशितम ॥ 11 ॥

  12. अश्वैर विपरिधावद्भिः सैन्येन रजसा वृते न पराज्ञायन्त समरे दिशश च परदिशस तथा ॥ 12 ॥

  13. ततस तु पाण्डवानीकान निःसृत्य बहवॊ जनाः अभ्यघ्नंस तावकान युद्धे मुहूर्ताद इव भारत ततॊ निःशेषम अभवत तत सैन्यं तव भारत ॥ 13 ॥

  14. अक्षौहिण्यः समेतास तु तव पुत्रस्य भारत एकादश हता युद्धे ताः परभॊ पाण्डुसृञ्जयैः ॥ 14 ॥

  15. तेषु राजसहस्रेषु तावकेषु महात्मसु एकॊ दुर्यॊधनॊ राजन्न अदृश्यत भृशं कषतः ॥ 15 ॥

  16. ततॊ वीक्ष्य दिशः सर्वा दृष्ट्वा शून्यां च मेदिनीम विहीनः सर्वयॊधैश च पाण्डवान वीक्ष्य संयुगे ॥ 16 ॥

  17. मुदितान सर्वसिद्धार्थान नर्दमानान समन्ततः बाणशब्दरवांश चैव शरुत्वा तेषां महात्मनाम ॥ 17 ॥

  18. दुर्यॊधनॊ महाराज कश्मलेनाभिसंवृतः अपयाने मनश चक्रे विहीनबलवाहनः ॥ 18 ॥

  19. [धृ] निहते मामके सैन्ये निःशेषे शिबिरे कृते पाण्डवानां बलं सूत किं नु शेषम अभूत तदा एतन मे पृच्छतॊ बरूहि कुशलॊ हय असि संजय ॥ 19 ॥

  20. यच च दुर्यॊधनॊ मन्दः कृतवांस तनयॊ मम बलक्षयं तथा दृष्ट्वा स एकः पृथिवीपतिः ॥ 20 ॥

  21. [स] रथानां दवे सहस्रे तु सप्त नागशतानि च पञ्च चाश्वसहस्राणि पत्तीनां च शतं शताः ॥ 21 ॥

  22. एतच छेषम अभूद राजन पाण्डवानां महद बलम परिगृह्य हि यद युद्धे धृष्टद्युम्नॊ वयवस्थितः ॥ 22 ॥

  23. एकाकी भरतश्रेष्ठ ततॊ दुर्यॊधनॊ नृपः नापश्यत समरे कं चित सहायं रथिनां वरः ॥ 23 ॥

  24. नर्दमानान परांश चैव सवबलस्य च संक्षयम हतं सवहयम उत्सृज्य पराङ्मुखः पराद्रवद भयात ॥ 24 ॥

  25. एकादश चमू भर्ता पुत्रॊ दुर्यॊधनस तव गदाम आदाय तेजस्वी पदातिः परथितॊ हरदम ॥ 25 ॥

  26. नातिदूरं ततॊ गत्वा पद्भ्याम एव नराधिपः सस्मार वचनं कषत्तुर धर्मशीलस्य धीमतः ॥ 26 ॥

  27. इदं नूनं महाप्राज्ञॊ विदुरॊ दृष्टवान पुरा महद वैशसम अस्माकं कषत्रियाणां च संयुगे ॥ 27 ॥

  28. एवं विचिन्तयानस तु परविविक्षुर हरदं नृपः दुःखसंतप्त हृदयॊ दृष्ट्वा राजन बलक्षयम ॥ 28 ॥

  29. पाण्डवाश च महाराज धृष्टद्युम्नपुरॊगमाः अभ्यधावन्त संक्रुद्धास तव राजन बलं परति ॥ 29 ॥

  30. शक्त्यृष्टि परासहस्तानां बलानाम अभिगर्जताम संकल्पम अकरॊन मॊघं गाण्डीवेन धनंजयः ॥ 30 ॥

  31. तान हत्व निशितैर बाणैः सामात्यान सह बन्धुभिः रथे शवेतहये तिष्ठन्न अर्जुनॊ बह्व अशॊभत ॥ 31 ॥

  32. सुबलस्या हते पुत्रे सवाजिरथकुञ्जरे महावनम इव छिन्नम अभवत तावकं बलम ॥ 32 ॥

  33. अनेकशतसाहस्रे बले दुर्यॊधनस्य ह नान्यॊ महारथॊ राजञ जीवमानॊ वयदृश्यत ॥ 33 ॥

  34. दरॊणपुत्राद ऋते वीरात तथैव कृतवर्मणः कृपाच च गौतमाद राजन पार्थिवाच च तवात्मजात ॥ 34 ॥

  35. धृष्टद्युम्नस तु मां दृष्ट्वा हसन सात्यकिम अब्रवीत किम अनेन गृहीतेन नानेनार्थॊ ऽसति जीवता ॥ 35 ॥

  36. धृष्टद्युम्न वचः शरुत्वा शिनेर नप्ता महारथः उद्यम्य निशितं खड्गं हन्तुं मामुद्यतस तदा ॥ 36 ॥

  37. तम आगम्य महाप्राज्ञः कृष्णद्वैपायनॊ ऽबरवीत मुच्यतां संजयॊ जीवन न हन्तव्यः कथं चन ॥ 37 ॥

  38. दवैपायन वचः शरुत्वा शिनेर नप्ता कृताञ्जलिः ततॊ माम अब्रवीन मुक्त्वा सवस्ति संजय साधय ॥ 38 ॥

  39. अनुज्ञातस तव अहं तेन नयस्तवर्मा निरायुधः परातिष्ठं येन नगरं सायाह्ने रुधिरॊक्षितः ॥ 39 ॥

  40. करॊशमात्रम अपक्रान्तं गदापाणिम अवस्थितम एकं दुर्यॊधनं राजन्न अपश्यं भृशविक्षतम ॥ 40 ॥

  41. स तु माम अश्रुपूर्णाक्षॊ नाशक्नॊद अभिवीक्षितुम उपप्रैक्षत मां दृष्ट्वा तदा दीनम अवस्थितम ॥ 41 ॥

  42. तं चाहम अपि शॊचन्तं दृष्ट्वैकाकिनम आहवे मुहूर्तं नाशकं वक्तुं किं चिद दुःखपरिप्लुतः ॥ 42 ॥

  43. ततॊ ऽसमै तद अहं सर्वम उक्तवान गरहणं तदा दवैपायन परसादाच च जीवतॊ मॊक्षम आहवे ॥ 43 ॥

  44. मुहूर्तम इव च धयात्वा परतिलभ्य च चेतनाम भरातॄंश च सर्वसैन्यानि पर्यपृच्छत मां ततः ॥ 44 ॥

  45. तस्मै तद अहम आचक्षं सर्वं परत्यक्षदर्शिवान भरातॄंश च निहतान सर्वान सैन्यं च विनिपातितम ॥ 45 ॥

  46. तरयः किल रथाः शिष्टास तावकानां नराधिप इति परस्थान काले मां कृष्णद्वैपायनॊ ऽबरवीत ॥ 46 ॥

  47. स दीर्घम इव निःश्वस्य विप्रेक्ष्य च पुनः पुनः अंसे मां पाणिना सपृष्ट्वा पुत्रस ते पर्यभाषत ॥ 47 ॥

  48. तवदन्यॊ नेह संग्रामे कश चिज जीवति संजय दवितीयं नेह पश्यामि ससहायाश च पाण्डवाः ॥ 48 ॥

  49. बरूयाः संजय राजानं परज्ञा चक्षुषम ईश्वरम दुर्यॊधनस तव सुतः परविष्टॊ हरदम इत्य उत ॥ 49 ॥

  50. सुहृद्भिस तादृशैर हीनः पुत्रैर भरातृभिर एव च पाण्डवैश च हृते राज्ये कॊ नु जीवति मादृशः ॥ 50 ॥

  51. आचक्षेथाः सर्वम इदं मां च मुक्तं महाहवात अस्मिंस तॊयह्रदे सुप्तं जीवन्तं भृशविक्षतम ॥ 51 ॥

  52. एवम उक्त्वा महाराज पराविशत तं हरदं नृपः अस्तम्भयत तॊयं च मायया मनुजाधिपः ॥ 52 ॥

  53. तस्मिन हरदं परविष्टे तु तरीन रथाञ शरान्तवाहनान अपश्यं सहितान एकस तं देशं समुपेयुषः ॥ 53 ॥

  54. कृपं शारद्वतं वीरं दरौणिं च रथिनां वरम भॊजं च कृतवर्माणं सहिताञ शरविक्षतान ॥ 54 ॥

  55. ते सर्वे माम अभिप्रेक्ष्य तूर्णम अश्वान अचॊदयन उपयाय च माम ऊचुर दिष्ट्या जीवसि संजय ॥ 55 ॥

  56. अपृच्छंश चैव मां सर्वे पुत्रं तव जनाधिपम कच चिद दुर्यॊधनॊ राजा स नॊ जीवति संजय ॥ 56 ॥

  57. आख्यातवान अहं तेभ्यस तदा कुशलिनं नृपम तच चैव सर्वम आचक्षं यन मां दुर्यॊधनॊ ऽबरवीत हरदं चैवाहम आचष्ट यं परविष्टॊ नराधिपः ॥ 57 ॥

  58. अश्वत्तामा तु तद राजन निशम्य वचनं मम तं हरदं विपुलं परेक्ष्य करुणं पर्यदेवयत ॥ 58 ॥

  59. अहॊ धिन न स जानाति जीवतॊ ऽसमान नराधिपः पर्याप्ता हि वयं तेन सह यॊधयितुं परान ॥ 59 ॥

  60. ते तु तत्र चिरं कालं विलप्य च महारथाः पराद्रवन रथिनां शरेष्ठा दृष्ट्वा पाण्डुसुतान रणे ॥ 60 ॥

  61. ते तु मां रथम आरॊप्य कृपस्य सुपरिष्कृतम सेनानिवेशम आजग्मुर हतशेषास तरयॊ रथाः ॥ 61 ॥

  62. तत्र गुल्माः परित्रस्ताः सूर्ये चास्तम इते सति सर्वे विचुक्रुशुः शरुत्वा पुत्राणां तव संक्षयम ॥ 62 ॥

  63. ततॊ वृद्धा महाराज यॊषितां रक्षणॊ नराः राजदारान उपादाय परययुर नगरं परति ॥ 63 ॥

  64. तत्र विक्रॊशतीनां च रुदतीनां च सर्वशः परादुरासीन महाञ शब्दः शरुत्वा तद बलसंक्षयम ॥ 64 ॥

  65. ततस ता यॊषितॊ राजन करन्दन्त्यॊ वै मुहुर मुहुः कुरर्य इव शब्देन नादयन्त्यॊ महीतलम ॥ 65 ॥

  66. आजघ्नुः करजैश चापि पाणिभिश च शिरांस्य उत लुलुवुश च तदा केशान करॊशन्त्यस तत्र तत्र ह ॥ 66 ॥

  67. हाहाकारविनादिन्यॊ विनिघ्नन्त्य उरांसि च करॊशन्त्यस तत्र रुरुदुः करन्दमाना विशां पते ॥ 67 ॥

  68. ततॊ दुर्यॊधनामात्याः साश्रुकण्ठा हृशातुराः राजदारान उपादाय परययुर नगरं परति ॥ 68 ॥

  69. वेत्रजर्झर हस्ताश च दवाराध्यक्षा विशां पते शयनीयानि शुभ्राणि सपर्ध्यास्तरणवन्ति च समादाय ययुस तूर्णं नगरं दाररक्षिणः ॥ 69 ॥

  70. आस्थायाश्वतरी युक्तान सयन्दनान अपरे जनाः सवान सवान दारान उपादाय परययुर नगरं परति ॥ 70 ॥

  71. अदृष्टपूर्वा या नार्यॊ भास्करेणापि वेश्मसु दादृशुस ता महाराज जना यान्तीः पुरं परति ॥ 71 ॥

  72. ताः सत्रियॊ भरतश्रेष्ठ सौकुमार्य समन्विताः परययुर नगरं तूर्णं हतस्वजनबान्धवाः ॥ 72 ॥

  73. आ गॊपालावि पालेभ्यॊ दरवन्तॊ नगरं परति ययुर मनुष्याः संभ्रान्ता भीमसेनभयार्दिताः ॥ 73 ॥

  74. अपि चैषां भयं तीव्रं पार्थेभ्यॊ ऽभूत सुदारुणम परेक्षमाणास तदान्यॊन्यम आधावन नगरं परति ॥ 74 ॥

  75. तस्मिंस तदा वर्तमाने विद्रवे भृशदारुणे युयुत्सुः शॊकसंमूढः पराप्तकालम अचिन्तयत ॥ 75 ॥

  76. जितॊ दुर्यॊधनः संख्ये पाण्डवैर भीमविक्रमैः एकादश चमू भर्ता भरातरश चास्य सूदिताः हताश च कुरवः सर्वे भीष्मद्रॊणपुरः सराः ॥ 76 ॥

  77. अहम एकॊ विमुक्तस तु भाग्ययॊगाद यदृच्छया विद्रुतानि च सर्वाणि शिबिराणि समन्ततः ॥ 77 ॥

  78. दुर्यॊधनस्य सचिवा ये के चिद अवशेषिताः राजदारान उपादाय वयधावन नगरं परति ॥ 78 ॥

  79. पराप्तकालम अहं मन्ये परवेशं तैः सहाभिभॊ युधिष्ठिरम अनुज्ञाप्य भीमसेनं तथैव च ॥ 79 ॥

  80. एतम अर्थं महाबाहुर उभयॊः स नयवेदयत तस्य परीतॊ ऽभवद राजा नित्यं करुणवेदिता परिष्वज्य महाबाहुर वैश्यापुत्रं वयसर्जयत ॥ 80 ॥

  81. ततः स रथम आस्थाय दरुतम अश्वान अचॊदयत असंभावितवांश चापि राजदारान पुरं परति ॥ 81 ॥

  82. तैश चैव सहितः कषिप्रम अस्तं गच्छति भास्करे परविष्टॊ हास्तिनपुरं बाष्प कण्ठॊ ऽशरुलॊचनः ॥ 82 ॥

  83. अपश्यत महाप्राज्ञं विदुरं साश्रुलॊचनम राज्ञः समीपान निष्क्रान्तं शॊकॊपहतचेतसम ॥ 83 ॥

  84. तम अब्रवीत सत्यधृतिः परणतं तव अग्रतः सथितम अस्मिन कुरु कषये वृत्ते दिष्ट्या तवं पुत्र जीवसि ॥ 84 ॥

  85. विना राज्ञः परवेशाद वै किम असि तवम इहागतः एतन मे कारणं सर्वं विस्तरेण निवेदय ॥ 85 ॥

  86. [यु] निहते शकुनौ तात सज्ञाति सुतबान्धवे हतशेष परीवारॊ राजा दुर्यॊधनस ततः सवकं सहयम उत्सृज्य पराङ्मुखः पराद्रवद भयात ॥ 86 ॥

  87. अपक्रान्ते तु नृपतौ सकन्धावारनिवेशनात भयव्याकुलितं सर्वं पराद्रवन नगरं परति ॥ 87 ॥

  88. ततॊ राज्ञः कलत्राणि भरातॄणां चास्य सर्वशः वाहनेषु समारॊप्य सत्र्यध्यक्षाः पराद्रवन भयात ॥ 88 ॥

  89. ततॊ ऽहं समनुज्ञाप्य राजानं सहकेशवम परविष्टॊ हास्तिनपुरं रक्षँल लॊकाद धि वाच्यताम ॥ 89 ॥

  90. एतच छरुत्वा तु वचनं वैश्यापुत्रेण भाषितम पराप्तकालम इति जञात्वा विदुरः सर्वधर्मवित अपूजयद अमेयात्मा युयुत्सुं वाक्यकॊविदम ॥ 90 ॥

  91. पराप्तकालम इदं सर्वं भवतॊ भरतक्षये अद्य तवम इह विश्रान्तः शवॊ ऽभिगन्ता युधिष्ठिरम ॥ 91 ॥

  92. एतावद उक्त्वा वचनं विदुरः सर्वधर्मवित युयुत्सुं समनुज्ञाप्य परविवेश नृप कषयम युयुत्सुर अपि तां रात्रिं सवगृहे नयवसत तदा ॥ 92 ॥

Reach this point to mark the section finished.

Continue to अध्याय 29

Previous: अध्याय 27