[स] तस्मिन परवृत्ते संग्रामे नरवाजि गजक्षये शकुनिः सौबलॊ राजन सहदेवं समभ्ययात ॥ 1 ॥
ततॊ ऽसयापततस तूर्णं सहदेवः परतापवान शरौघान परेषयाम आस पतङ्गान इव शीघ्रगान उलूकश च रणे भीमं विव्याध दशभिः शरैः ॥ 2 ॥
शकुनिस तु महाराज भीमं विद्ध्वा तरिभिः शरैः सायकानां नवत्या वै सहदेवम अवाकिरत ॥ 3 ॥
ते शूराः समरे राजन समासाद्य परस्परम विव्यधुर निशितैर बाणैः कङ्कबर्हिण वाजितैः सवर्णपुङ्खैः शिला धौतैर आ कर्णात परहितैः शरैः ॥ 4 ॥
तेषां चापा भुजॊत्सृष्टा शरवृष्टिर विशां पते आच्छादयद दिशः सर्वा धाराभिर इव तॊयदः ॥ 5 ॥
ततः करुद्धॊ रणे भीमः सहदेवश च भारत चेरतुः कदनं संख्ये कुर्वन्तौ सुमहाबलौ ॥ 6 ॥
ताभ्यां शरशतैश छन्नं तद बलं तव भारत अन्धकारम इवाकाशम अभवत तत्र तत्र ह ॥ 7 ॥
अश्वैर विपरिधावद्भिः शरच छन्नैर विशां पते तत्र तत्र कृतॊ मार्गॊ विकर्षद्भिर हतान बहून ॥ 8 ॥
निहतानां हयानां च सहैव हययॊधिभिः वर्मभिर विनिकृत्तैश च परासैश छिन्नैश च मारिष संछन्ना पृथिवी जज्ञे कुसुमैः शबला इव ॥ 9 ॥
यॊधास तत्र महाराज समासाद्य परस्परम वयचरन्त रणे करुद्धा विनिघ्नन्तः परस्परम ॥ 10 ॥
उद्वृत्तनयनै रॊषात संदष्टौष्ठ पुटैर मुखैः सकुण्डलैर मही छन्ना पद्मकिञ्जल्क संनिभैः ॥ 11 ॥
भुजैश छिनैर महाराज नागराजकरॊपमैः साङ्गदैः सतनुत्रैश च सासि परासपरश्वधैः ॥ 12 ॥
कबन्धैर उत्थितैश छिन्नैर नृत्यद्भिश चापरैर युधि करव्यादगणसंकीर्णा घॊराभुत पृथिवी विभॊ ॥ 13 ॥
अल्पावशिष्टे सैन्ये तु कौरवेयान महाहवे परहृष्टाः पाण्डवा भूत्वा निन्यिरे यमसादनम ॥ 14 ॥
एतस्मिन्न अन्तरे शूरः सौबलेयः परतापवान परासेन साहदेवस्य शिरसि पराहरद भृशम स विह्वलॊ महाराज रथॊपस्थ उपाविशत ॥ 15 ॥
सहदेवं तथा दृष्ट्वा भीमसेनः परतापवान सर्वसैन्यानि संक्रुद्धॊ वारयाम आस भारत ॥ 16 ॥
निर्बिभेद च नाराचैः शतशॊ ऽथ सहस्रशः विनिर्भिद्याकरॊच चैव सिंहनादम अरिंदम ॥ 17 ॥
तेन शब्देन वित्रस्ताः सर्वे सहयवारणाः पराद्रवन सहसा भीताः शकुनेश च पदानुगाः ॥ 18 ॥
परभग्नान अथ तान दृष्ट्वा राजा दुर्यॊधनॊ ऽबरवीत निवर्तध्वम अधर्मज्ञा युध्यध्वं किं सृतेन वः ॥ 19 ॥
इह कीर्तिं समाधाय परेत्य लॊकान समश्नुते पराणाञ जहाति यॊ वीरॊ युधि पृष्ठम अदर्शयन ॥ 20 ॥
एवम उक्तास तु ते राज्ञा सौबलस्य पदानुगाः पाण्डवान अभ्यवर्तन्त मृत्युं कृत्वा निवर्तनम ॥ 21 ॥
दरवद्भिस तत्र राजेन्द्र कृतः शब्दॊ ऽतिदारुणः कषुब्धसागरसंकाशः कषुभितः सर्वतॊ ऽभवत ॥ 22 ॥
तांस तदापततॊ दृष्ट्वा सौबलस्य पदानुगान परत्युद्ययुर महाराज पाण्डवा विजये वृताः ॥ 23 ॥
परत्याश्वस्य च दुर्धर्षः सहदेवॊ विशां पते शकुनिं दशभिर विद्ध्वा हयांश चास्य तरिभिः शरैः धनुश चिच्छेद च शरैः सौबलस्य हसन्न इव ॥ 24 ॥
अथान्यद धनुर आदाय शकुनिर युद्धदुर्मदः विव्याध नकुलं षष्ट्या भीमसेनं च सप्तभिः ॥ 25 ॥
उलूकॊ ऽपि महाराज भीमं विव्याध सप्तभिः सहदेवं च सप्तत्या परीप्सन पितरं रणे ॥ 26 ॥
तं भीमसेनः समरे विव्याध निशितैः शरैः शकुनिं च चतुःषष्ट्या पार्श्वस्थांश च तरिभिस तरिभिः ॥ 27 ॥
ते हन्यमाना भीमेन नाराचैस तैलपायितैः सहदेवं रणे करुद्धाश छादयञ शरवृष्टिभिः पर्वतं वारिधाराभिः सविद्युत इवाम्बुदाः ॥ 28 ॥
ततॊ ऽसयापततः शूरः सहदेवः परतापवान उलूकस्य महाराज भल्लेनापाहरच छिरः ॥ 29 ॥
स जगाम रथाद भूमिं सहदेवेन पातितः रुधिराप्लुत सर्वाङ्गॊ नन्दयन पाण्डवान युधि ॥ 30 ॥
पुत्रं तु निहतं दृष्ट्वा शकुनिस तत्र भारत साश्रुकण्ठॊ विनिःश्वस्य कषत्तुर वाक्यम अनुस्मरन ॥ 31 ॥
चिन्तयित्वा मुहूर्तं सबाष्पपूर्णेक्षणः शवसन सहदेवं समासाद्य तरिभिर विव्याध सायकैः ॥ 32 ॥
तान अपास्य शरान मुक्ताञ शरसंघैः परतापवान सहदेवॊ महाराज धनुश चिच्छेद संयुगे ॥ 33 ॥
छिन्ने धनुषि राजेन्द्र शकुनिः सौबलस तदा परगृह्य विपुलं खड्गं सहदेवाय पराहिणॊत ॥ 34 ॥
तम आपतन्तं सहसा घॊररूपं विशां पते दविधा चिच्छेद समरे सौबलस्य हसन्न इव ॥ 35 ॥
असिं दृष्ट्वा दविधा छिन्नं परगृह्य महतीं गदाम पराहिणॊत सहसेवाय सा मॊघा नयपतद भुवि ॥ 36 ॥
ततः शक्तिं महाघॊरां कालरात्रिम इवॊद्यताम परेषयाम आस संक्रुद्धः पाण्डवं परति सौबलः ॥ 37 ॥
ताम आपतन्तीं सहसा शरैः काञ्चनभूषणैः तरिधा चिच्छेद समरे सहदेवॊ हसन्न इव ॥ 38 ॥
सा पपात तरिधा छिन्ना भूमौ कनकभूषणा शीर्यमाणा यथा दीप्ता गगनाद वै शतह्रदा ॥ 39 ॥
शक्तिं विनिहतां दृष्ट्वा सौबलं च भयार्दितम दुद्रुवुस तावकाः सर्वे भये जाते ससौबलाः ॥ 40 ॥
अथॊत्क्रुष्टं महद धयासीत पाण्डवैर जितकाशिभिः धार्तराष्ट्रास ततः सर्वे परायशॊ विमुखाभवन ॥ 41 ॥
तान वै विमनसॊ दृष्ट्वा माद्रीपुत्रः परतापवान शरैर अनेकसाहस्रैर वारयाम आस संयुगे ॥ 42 ॥
ततॊ गान्धारकैर गुप्तं पृष्ठैर अश्वैर जये धृतम आससाद रणे यान्तं सहदेवॊ ऽथ सौबलम ॥ 43 ॥
सवम अंशम अवशिष्टं स संस्मृत्य शकुनिं नृप रथेन काञ्चनाङ्गेन सहदेवः समभ्ययात अधिज्यं बलवत कृत्वा वयाक्षिपन सुमहद धनुः ॥ 44 ॥
स सौबलम अभिद्रुत्य गृध्रपत्रैः शिलाशितैः भृशम अभ्यहनत करुद्धस तॊत्त्रैर इव महाद्विपम ॥ 45 ॥
उवाच चैनं मेधावी निगृह्य समारयन्न इव कषत्रधर्मे सथितॊ भूत्वा युध्यस्व पुरुषॊ भव ॥ 46 ॥
यत तदा हृष्यसे मूढ गलहन्न अक्षैः सभा तले फलम अद्य परपद्यस्व कर्मणस तस्य दुर्मते ॥ 47 ॥
निहतास ते दुरात्मानॊ ये ऽसमान अवहसन पुरा दुर्यॊधनः कुलाङ्गारः शिष्टस तवं तस्य मातुलः ॥ 48 ॥
अद्य ते विहनिष्यामि कषुरेणॊन्मथितं शिरः वृक्षात फलम इवॊद्धृत्य लगुडेन परमाथिना ॥ 49 ॥
एवम उक्त्वा महाराज सहदेवॊ महाबलः संक्रुद्धॊ नरशार्दूलॊ वेगेनाभिजगाम ह ॥ 50 ॥
अभिगम्य तु दुर्धर्षः सहदेवॊ युधां पतिः विकृष्य बलवच चापं करॊधेन परहसन्न इव ॥ 51 ॥
शकुनिं दशभिर विद्ध्वा चतुर्भिश चास्य वाजिनः छत्त्रं धवजं धनुश चास्य छित्त्वा सिंह इवानदत ॥ 52 ॥
छिन्नध्वजधनुश छत्त्रः सहदेवेन सौबलः ततॊ विद्धश च बहुभिः सर्वमर्मसु सायकैः ॥ 53 ॥
ततॊ भूयॊ महाराज सहदेवः परतापवान शकुनेः परेषयाम आस शरवृष्टिं दुरासदाम ॥ 54 ॥
ततस तु करुद्धः सुबलस्य पुत्रॊ; माद्री सुतं सहदेवं विमर्दे परासेन जाम्बूनदभूषणेन; जिघांसुर एकॊ ऽभिपपात शीघ्रम ॥ 55 ॥
माद्री सुतस तस्य समुद्यतं तं; परासं सुवृत्तौ च भुजौ रणाग्रे भल्लैस तरिभिर युगपत संचकर्त; ननाद चॊच्चैस तरसाजिमध्ये ॥ 56 ॥
तस्याशु कारी सुसमाहितेन; सुवर्णपुङ्खेन दृढायसेन भल्लेन सर्वावरणातिगेन; शिरः शरीरात परममाथ भूयः ॥ 57 ॥
शरेण कार्तस्वरभूषितेन; दिवाकराभेन सुसंशितेन हृतॊत्तमाङ्गॊ युधि पाण्डवेन; पपात भूमौ सुबलस्य पुत्रः ॥ 58 ॥
स तच्छिरॊ वेगवता शरेण; सुवर्णपुङ्खेन शिलाशितेन परावेरयत कुपितः पाण्डुपुत्रॊ; यत तत कुरूणाम अनयस्य मूलम ॥ 59 ॥
हृतॊत्तमाङ्गं शकुनिं समीक्ष्य; भूमौ शयानं रुधिरार्द्रगात्रम यॊधास तवदीया भयनष्ट सत्त्वा; दिशः परजग्मुः परगृहीतशस्त्राः ॥ 60 ॥
विप्रद्रुताः शुष्कमुखा विसंज्ञा; गाण्डीवघॊषेण समाहताश च भयार्दिता भग्नरथाश्वनागाः; पदातयश चैव सधार्तराष्ट्राः ॥ 61 ॥
ततॊ रथाच छकुनिं पातयित्वा; मुदान्विता भारत पाण्डवेयाः शङ्खान परदध्मुः समरे परहृष्टाः; सकेशवाः सैङ्किकान हर्षयन्तः ॥ 62 ॥
तं चापि सर्वे परतिपूजयन्तॊ; हृष्टा बरुवाणाः सहदेवम आजौ दिष्ट्या हतॊ नैकृतिकॊ दुरात्मा; सहात्मजॊ वीर रणे तवयेति ॥ 63 ॥
शल्यपर्व · Shalya Parva
अध्याय 27
Reach this point to mark the section finished.
Continue to अध्याय 28