[स] दुर्यॊधनॊ महाराज सुदर्शश चापि ते सुतः हात शेषौ तदा संख्ये वाजिमध्ये वयवस्थितौ ॥ 1 ॥
ततॊ दुर्यॊधनं दृष्ट्वा वाजिमध्ये वयवस्थितम उवाच देवकीपुत्रः कुन्तीपुत्रं धनंजयम ॥ 2 ॥
शत्रवॊ हतभूयिष्ठा जञातयः परिपालिताः गृहीत्वा संजयं चासौ निवृत्तः शिनिपुंगवः ॥ 3 ॥
परिश्रान्तश च नकुलः सहदेवश च भारत यॊधयित्वा रणे पापान धार्तराष्ट्र पदानुगान ॥ 4 ॥
सुयॊधनम अभित्यज्य तरय एते वयवस्थिताः कृपश च कृपवर्मा च दरौणिश चैव महारथः ॥ 5 ॥
असौ तिष्ठति पाञ्चाल्यः शरिया परमया युतः दुर्यॊधन बलं हत्वा सह सर्वैः परभद्रकैः ॥ 6 ॥
असौ दुर्यॊधनः पार्थ वाजिमध्ये वयवस्थितः छत्त्रेण धरियमाणेन परेक्षमाणॊ मुहुर मुहुः ॥ 7 ॥
परतिव्यूह्य बलं सर्वं रणमध्ये वयवस्थितः एनं हत्वा शितैर बाणैः कृतकृत्यॊ भविष्यसि ॥ 8 ॥
गजानीकं हतं दृष्ट्वा तवां च पराप्तम अरिंदम यावन न विद्रवन्त्य एते तावज जहि सुयॊधनम ॥ 9 ॥
यातु कश चित तु पाञ्चाल्यं कषिप्रम आगम्यताम इति परिश्रान्त बलस तात नैष मुच्येत किल्बिषी ॥ 10 ॥
तव हत्वा बलं सर्वं संग्रामे धृतराष्ट्रजः जितान पाण्डुसुतान मत्वा रूपं धारयते महत ॥ 11 ॥
निहतं सवबलं दृष्ट्वा पीडितं चापि पाण्डवैः धरुवम एष्यति संग्रामे वधायैवात्मनॊ नृपः ॥ 12 ॥
एवम उक्तः फल्गुनस तु कृष्णं वचनम अब्रवीत धृतराष्ट्र सुताः सर्वे हता भीमेन मानद याव एताव आस्थितौ कृष्ण ताव अद्य न भविष्यतः ॥ 13 ॥
हतॊ भीष्मॊ हतॊ दरॊणः कर्णॊ वैकर्तनॊ हतः मद्रराजॊ हतः शल्यॊ हतः कृष्ण जयद्रथः ॥ 14 ॥
हयाः पञ्चशताः शिष्टाः शकुनेः सौबलस्य च रथानां तु शते शिष्टे दवे एव तु जनार्दन दन्तिनां च शतं साग्रं तरिसाहस्राः पदातयः ॥ 15 ॥
अश्वत्थामा कृपश चैव तरिगर्ताधिपतिस तथा उलूकः शकुनिश चैव कृतवर्मा च सात्वतः ॥ 16 ॥
एतद बलम अभूच छेषं धार्तराष्ट्रस्य माधव मॊक्षॊ न नूनं कालाद धि विद्यते भुवि कस्य चित ॥ 17 ॥
तथा विनिहते सैन्ये पश्य दुर्यॊधनं सथितम अद्याह्ना हि महाराजॊ हतामित्रॊ भविष्यति ॥ 18 ॥
न हि मे मॊक्ष्यते कश चित परेषाम इति चिन्तये ये तव अद्य समरं कृष्ण न हास्यन्ति रणॊत्कटाः तान वै सर्वान हनिष्यामि यद्य अपि सयुर अमानुषाः ॥ 19 ॥
अद्य युद्धे सुसंक्रुद्धॊ दीर्घं राज्ञः परजागरम अपनेष्यामि गान्धारं पातयित्वा शितैः शरैः ॥ 20 ॥
निकृत्या वै दुराचारॊ यानि रत्नानि सौबलः सभायाम अहरद दयूते पुनस तान्य अहराम्य अहम ॥ 21 ॥
अद्या ता अपि वेत्स्यन्ति सर्वा नागपुरस्त्रियः शरुत्वा पतींश च पुत्रांश च पाण्डवैर निहतान युधि ॥ 22 ॥
समाप्तम अद्य वै कर्ण सर्वं कृष्ण भविष्यति अद्य दुर्यॊधनॊ दीप्तां शरियं पराणांश च तयक्ष्यति ॥ 23 ॥
नापयाति भयात कृष्ण संग्रामाद यदि चेन मम निहतं विद्धि वार्ष्णेय धार्तराष्ट्रं सुबालिशम ॥ 24 ॥
मम हय एतद अशक्तं वै वाजिवृन्दम अरिंदम सॊढुं जयातलनिर्घॊषां याहि यावन निहन्म्य अहम ॥ 25 ॥
एवम उक्तस तु दाशार्हः पाण्डवेन यशस्विना अचॊदयद धयान राजन दुर्यॊधन बलं परति ॥ 26 ॥
तद अनीकम अभिप्रेक्ष्य तरयः सज्जा महारथाः भीमसेनॊ ऽरजुनश चैव सहदेवश च मारिष परययुः सिंहनादेन दुर्यॊधन जिघांसया ॥ 27 ॥
तान परेक्ष्य सहितान सर्वाञ जवेनॊद्यत कार्मुकान सौबलॊ ऽभयद्रवद युद्धे पाण्डवान आततायिनः ॥ 28 ॥
सुदर्शनस तव सुतॊ भीमसेनं समभ्ययात सुशर्मा शकुनिश चैव युयुधाते किरीटिना सहदेवं तव सुतॊ हयपृष्ठ गतॊ ऽभययात ॥ 29 ॥
ततॊ हय अयत्नतः कषिप्रं तव पुत्रॊ जनाधिप परासेन सहदेवस्य शिरसि पराहरद भृशम ॥ 30 ॥
सॊपाविशद रथॊपस्थे तव पुत्रेण ताडितः रुधिराप्लुत सर्वाङ्ग आशीविष इव शवसन ॥ 31 ॥
परतिलभ्य ततः संज्ञां सहदेवॊ विशां पते दुर्यॊधनं शरैस तीक्ष्णैः संक्रुद्धः समवाकिरत ॥ 32 ॥
पार्थॊ ऽपि युधि विक्रम्य कुन्तीपुत्रॊ धनंजयः शूराणाम अश्वपृष्ठेभ्यः शिरांसि निचकर्त ह ॥ 33 ॥
तद अनीकं तदा पार्थॊ वयधमद बहुभिः शरैः पातयित्वा हयान सर्वांस तरिगर्तानां रथान ययौ ॥ 34 ॥
ततस ते सहिता भूत्वा तरिगर्तानां महारथाः अर्जुनं वासुदेवं च शरवर्षैर अवाकिरन ॥ 35 ॥
सत्यकर्माणम आक्षिप्य कषुरप्रेण महायशाः ततॊ ऽसय सयन्दनस्येषां चिच्छिदे पाण्डुनन्दनः ॥ 36 ॥
शिलाशितेन च विभॊ कषुरप्रेण महायशाः शिरश चिच्छेद परहसंस तप्तकुण्डलभूषणम ॥ 37 ॥
सत्येषुम अथ चादत्त यॊधानां मिषतां ततः यथा सिंहॊ वने राजन मृगं परिबुभुक्षितः ॥ 38 ॥
तं निहत्य ततः पार्थः सुशर्माणं तरिभिः शरैः विद्ध्वा तान अहनत सर्वान रथान रुक्मविभूषितान ॥ 39 ॥
ततस तु परत्वरन पार्थॊ दीर्घकालं सुसंभृतम मुञ्चन करॊधविषं तीक्ष्णं परस्थलाधिपतिं परति ॥ 40 ॥
तम अर्जुनः पृषात्कानां शतेन भरतर्षभ पूरयित्वा ततॊ वाहान नयहनत तस्य धन्विनः ॥ 41 ॥
ततः शरं समादाय यमदण्डॊपमं शितम सुशर्माणं समुद्दिश्य चिक्षेपाशु हसन्न इव ॥ 42 ॥
स शरः परेषितस तेन करॊधदीप्तेन धन्विना सुशर्माणं समासाद्य विभेद हृदयं रणे ॥ 43 ॥
स गतासुर महाराज पपात धरणीतले नन्दयन पाण्डवान सर्वान वयथयंश चापि तावकान ॥ 44 ॥
सुशर्माणं रणे हत्वा पुत्रान अस्य महारथान सप्त चाष्टौ च तरिंशच च सायकैर अनयत कषयम ॥ 45 ॥
ततॊ ऽसय निशितैर बाणैः सर्वान हत्वा पदानुगान अभ्यगाद भारतीं सेनां हतशेषां महारथः ॥ 46 ॥
भीमस तु समरे करुद्धः पुत्रं तव जनाधिप सुदर्शनम अदृश्यन्तं शरैश चक्रे हसन्न इव ॥ 47 ॥
ततॊ ऽसया परहसन करुद्धः शिरः कायाद अपाहरत कषुरप्रेण सुतीक्ष्णेन स हातः परापतद भुवि ॥ 48 ॥
तस्मिंस तु निहते वीरे ततस तस्य पदानुगाः परिवव्रू रणे भीमं किरन्तॊ विशिखाञ शितान ॥ 49 ॥
ततस तु निशितैर बाणैस तद अनीकं वृकॊदरः इन्द्राशनिसमस्पर्शैः समन्तात पर्यवाकिरत ततः कषणेन तद भीमॊ नयहनद भरतर्षभ ॥ 50 ॥
तेषु तूत्साद्यमानेषु सेनाध्यक्षा महाबलाः भीमसेनं समासाद्य ततॊ ऽयुध्यन्त भारत तांस तु सर्वाञ शरैर घॊरैर अवाकिरत पाण्डवः ॥ 51 ॥
तथैव तावका राजन पाण्डवेयान महारथान शरवर्षेण महता समन्तात पर्यवारयन ॥ 52 ॥
वयाकुलं तद अभूत सर्वं पाण्डवानां परैः सह तावकानां च समरे पाण्डवेयैर युयुत्सताम ॥ 53 ॥
तत्र यॊधास तदा पेतुः परस्परसमाहताः उभयॊः सेनयॊ राजन संशॊचन्तः सम बान्धवान ॥ 54 ॥
शल्यपर्व · Shalya Parva
अध्याय 26
Reach this point to mark the section finished.
Continue to अध्याय 27