[स] गजानीके हते तस्मिन पाण्डुपुत्रेण भारत वध्यमाने बले चैव भीमसेनेन संयुगे ॥ 1 ॥
चरन्तं च तथा दृष्ट्वा भीमसेनम अरिंदमम दण्डहस्तं यथा करुद्द्धम अन्तकं पराणहारिणम ॥ 2 ॥
समेत्य समरे राजन हतशेषाः सुतास तव अदृश्यमाने कौरव्ये पुत्रे दुर्यॊधने तव सॊदर्याः सहिता भूत्वा भीमसेनम उपाद्रवन ॥ 3 ॥
दुर्मर्षणॊ महाराज जैत्रॊ भूरि बलॊ रविः इत्य एते सहिता भूत्वा तत्र पुत्राः समन्ततः भीमसेनम अभिद्रुत्य रुरुधुः सवतॊ दिशम ॥ 4 ॥
ततॊ भीमॊ महाराज सवरथं पुनर आस्थितः मुमॊच निशितान बाणान पुत्राणां तव मर्मसु ॥ 5 ॥
ते कीर्यमाणा भीमेन पुत्रास तव महारणे भीमसेनम अपासेधन परवणाद इव कुञ्जरम ॥ 6 ॥
ततः करुद्धॊ रणे भीमः शिरॊ दुर्मर्षणस्य ह कषुरप्रेण परमथ्याशु पातयाम आस भूतले ॥ 7 ॥
ततॊ ऽपरेण भल्लेन सर्वावरणभेदिना शरुतान्तम अवधीद भीमस तव पुत्रं महारथः ॥ 8 ॥
जयत्सेनं ततॊ विद्ध्वा नाराचेन हसन्न इव पातयाम आस कौरव्यं रथॊपस्थाद अरिंदमः स पपात रथाद राजन भूमौ तूर्णं ममार च ॥ 9 ॥
शरुतर्वा तु ततॊ भीमं करुद्धॊ विव्याध मारिष शतेन गृध्रवाजानां शराणां नतपर्वणाम ॥ 10 ॥
ततः करुद्धॊ रणे भीमॊ जैत्रं भूरि बलं रविम तरीन एतांस तरिभिर आनर्छद दविषाग्निप्रतिमैः शरैः ॥ 11 ॥
ते हता नयपतन भूमौ सयन्दनेभ्यॊ महारथः वसन्ते पुष्पशबला निकृत्ता इव किंशुकाः ॥ 12 ॥
ततॊ ऽपरेण तीक्ष्णेन नाराच्चेन परंतपः दुर्विमॊचनम आहत्य परेषयाम आस मृत्यवे ॥ 13 ॥
स हतः परापतद भूमौ सवरथाद रथिनां वरः गिरेस तु कूटजॊ भग्नॊ मारुतेनेव पादपः ॥ 14 ॥
दुष्प्रधर्षं ततश चैव सुजातं च सुतौ तव एकैकं नयवधीत संख्ये दवाभ्यां दवाभ्यां चमूमुखे तौ शिलीमुखविद्धाङ्गौ पेततू रथसत्तमौ ॥ 15 ॥
ततॊ यतन्तम अपरम अभिवीक्ष्य सुतं तव भल्लेन युधि विव्याध भीमॊ दुर्विषहं रणे स पपात हतॊ वाहात पश्यतां सर्वधन्विनाम ॥ 16 ॥
दृष्ट्वा तु निहतान भरातॄन बहून एकेन संयुगे अमर्षवशम आपन्नः शरुतर्वा भीमम अभ्ययात ॥ 17 ॥
विक्षिपन सुमहच चापं कार्तस्वरविभूषितम विसृजन सायकांश चैव विषाग्निप्रतिमान बहून ॥ 18 ॥
स तु राजन धनुश छित्त्वा पाण्डवस्य महामृधे अथैनं छिन्नधन्वानं विंशत्या समवाकिरत ॥ 19 ॥
ततॊ ऽनयद धनुर आदाय भीमसेनॊ महारथः अवाकिरत तव सुतं तिष्ठ तिष्ठेति चाब्रवीत ॥ 20 ॥
महद आसीत तयॊर युद्धं चित्ररूपं भयानकम यादृशं समरे पूर्वं जम्भ वासवयॊर अभूत ॥ 21 ॥
तयॊस तत्र शरैर मुक्तैर यमदण्डनिभैः शुभैः समाच्छन्ना धरा सर्वा खं च सर्वा दिशस तथा ॥ 22 ॥
ततः शरुतर्वा संक्रुद्धॊ धनुर आयम्य सायकैः भीमसेनं रणे राजन बाह्वॊर उरसि चार्पयत ॥ 23 ॥
सॊ ऽतिविद्धॊ महाराज तव पुत्रेण धन्विना भीमः संचुक्षुभे करुद्धः पर्वणीव महॊदधिः ॥ 24 ॥
ततॊ भीमॊ रुषाविष्टः पुत्रस्य तव मारिष सारथिं चतुरश चाश्वान बाणैर निन्ये यमक्षयम ॥ 25 ॥
विरथं तं समालक्ष्य विशिखैर लॊमवाहिभिः अवाकिरद अमेयात्मा दर्शयन पाणिलाघवम ॥ 26 ॥
शरुतर्वा विरथॊ राजन्न आददे खड्ग चर्मणी अथास्याददतः खड्गं शतचन्द्रं च भानुमत कषुरप्रेण शिरः कायात पातयाम आस पाण्डवः ॥ 27 ॥
छिन्नॊत्तमाङ्गस्य ततः कषुरप्रेण महात्मनः पपात कायः स रथाद वसुधाम अनुनादयन ॥ 28 ॥
तस्मिन नीपतिते वीरे तावका भयमॊहिताः अभ्यद्रवन्त संग्रामे भीमसेनं युयुत्सवः ॥ 29 ॥
तान आपतत एवाशु हतशेषाद बलार्णवात दंशितः परतिजग्राह भीमसेनः परतापवान ते तु तं वै समासाद्य परिवव्रुः समन्ततः ॥ 30 ॥
ततस तु संवृतॊ भीमस तावाकैर निशितैः शरैः पीडयाम आस तान सर्वान सहस्राक्ष इवासुरान ॥ 31 ॥
ततः पञ्च शतान हत्वा सवरूथान महारथान जघान कुञ्जरानीकं पुनः सप्तशतं युधि ॥ 32 ॥
हत्वा दशसहस्राणि पत्तीनां परमेषुभिः वाजिनां च शतान्य अष्टौ पाण्डवः सम विराजते ॥ 33 ॥
भीमसेनस तु कौन्तेयॊ हत्वा युद्धे सुतांस तव मेने कृतार्तह्म आत्मानं सफलं जन्म च परभॊ ॥ 34 ॥
तं तथा युध्यमानं च विनिघ्नन्तं च तावकान ईक्षितुं नॊत्सहन्ते सम तव सैन्यानि भारत ॥ 35 ॥
विद्राव्य तु कुरून सर्वांस तांश च हत्वा पदानुगान दॊर्भ्यां शब्दां ततश चक्रे तरासयानॊ महाद्विपान ॥ 36 ॥
हतभूयिष्ठ यॊधा तु तव सेना विशां पते किं चिच छेषा महाराज कृपणा समपद्यत ॥ 37 ॥
शल्यपर्व · Shalya Parva
अध्याय 25
Reach this point to mark the section finished.
Continue to अध्याय 26