धर्मDharmic Data

शल्यपर्व · Shalya Parva

अध्याय 24

  1. [स] अस्यतां यतमानानां शूराणाम अनिवर्तिनाम संकल्पम अकरॊन मॊघं गाण्डीवेन धनंजयः ॥ 1 ॥

  2. इन्द्राशनिसमस्पर्शान अविषह्यान महौजसः विसृजन दृश्यते बाणान धारा मुञ्चन्न इवाम्बुदः ॥ 2 ॥

  3. तत सैन्यं भरतश्रेष्ठ वध्यमानं किरीत्टिना संप्रदुद्राव संग्रामात तव पुत्रस्य पश्यतः ॥ 3 ॥

  4. हतधुर्या रथाः केचिद धतसूतास तथापरे भग्नाक्षयुगचक्रेषाः के चिद आसन विशां पते ॥ 4 ॥

  5. अन्येषां सायकाः कषीणास तथान्ये शरपीडिताः अक्षता युगपत के चित पराद्रवन भयपीडिताः ॥ 5 ॥

  6. के चित पुत्रान उपादाय हतभूयिष्ठ वाहनाः विचुक्रुशुः पितॄन अन्ये सहायान अपरे पुनः ॥ 6 ॥

  7. बान्धवांश च नरव्याघ्र भरातॄन संबन्धिनस तथा दुद्रुवुः के चिद उत्सृज्य तत्र तत्र विशां पते ॥ 7 ॥

  8. बहवॊ ऽतर भृशं विद्धा मुह्यमाना महारथाः निष्टनन्तः सम दृश्यन्ते पार्थ बाणहता नराः ॥ 8 ॥

  9. तान अन्ये रथम आरॊप्य समाश्वास्य मुहूर्तकम विश्रान्ताश च वितृष्णाश च पुनर युद्धाय जग्मिरे ॥ 9 ॥

  10. तान अपास्य गताः के चित पुनर एव युयुत्सवः कुर्वन्तस तव पुत्रस्य शासनं युद्धदुर्मदाः ॥ 10 ॥

  11. पानीयम अपरे पीत्वा पर्याश्वास्य च वाहनम वर्माणि च समारॊप्य के चिद भरतसत्तम ॥ 11 ॥

  12. समाश्वास्यापरे भरातॄन निक्षिप्य शिबिरे ऽपि च पुत्रान अन्ये पितॄन अन्ये पुनर युद्धम अरॊचयन ॥ 12 ॥

  13. सज्जयित्वा रथान के चिद यथामुख्यं विशां पते आप्लुत्य पाण्डवानीकं पुनर युद्धम अरॊचयन ॥ 13 ॥

  14. ते शूराः किङ्किणीजालैः समाच्छन्ना बभासिरे तरैलॊक्यविजये युक्ता यथा दैतेय दानवाः ॥ 14 ॥

  15. आगम्य सहसा के चिद रथैः सवर्णविभूषितैः पाण्डवानाम अनीकेषु धृष्टद्युम्नम अयॊधयन ॥ 15 ॥

  16. धृष्टद्युम्नॊ ऽपि पाञ्चाल्यः शिखण्डी च महारथः नाकुलिश च शतानीकॊ रथानीकम अयॊधयन ॥ 16 ॥

  17. पाञ्चाल्यस तु ततः करुद्धः सैन्येन महता वृतः अभ्यद्रवत सुसंरब्धस तावकान हन्तुम उद्यतः ॥ 17 ॥

  18. ततस तव आपततस तस्य तव पुत्रॊ जनाधिप बाणसंघान अनेकान वै परेषयाम आस भारत ॥ 18 ॥

  19. धृष्टद्युम्नस ततॊ राजंस तव पुत्रेण धन्विना नाराचैर बहुभिः कषिप्रं बाह्वॊर उरसि चार्पितः ॥ 19 ॥

  20. सॊ ऽतिविद्धॊ महेष्वासस तॊत्त्रार्दित इव दविपः तस्याश्वांश चतुरॊ बाणैः परेषयाम आस मृत्यवे सारथेश चास्य भल्लेन शिरः कायाद अपाहरत ॥ 20 ॥

  21. ततॊ दुर्यॊधनॊ राजा पृष्ठाम आरुध्य वाजिनः अपाक्रामद धतरथॊ नातिदूरम अरिंदमः ॥ 21 ॥

  22. दृष्ट्वा तु हतविक्रान्तं सवम अनीकं महाबलः तव पुत्रॊ महाराज परययौ यत्र सौबलः ॥ 22 ॥

  23. ततॊ रथेषु भग्नेषु तरिसाहस्रा महाद्विपाः पाण्डवान रथिनः पञ्च समन्तत पर्यवारयन ॥ 23 ॥

  24. ते वृताः समरे पञ्च गजानीकेन भारत अशॊभन्त नरव्याघ्रा गरहा वयाप्ता घनैर इव ॥ 24 ॥

  25. ततॊ ऽरजुनॊ महाराज लब्धलक्षॊ महाभुजः विनिर ययौ रथेनैव शवेताश्वः कृष्णसारथिः ॥ 25 ॥

  26. तैः समन्तात परिवृतः कुञ्जरैः पर्वतॊपमैः नाराचैर विमलैस तीक्ष्णैर गजानीकम अपॊथयत ॥ 26 ॥

  27. तत्रैकबाणनिहतान अपश्याम महागजान पतितान पात्यमानांश च विभिन्नान सव्यसाच्चिना ॥ 27 ॥

  28. भीमसेनस तु तान दृष्ट्वा नागान मत्तगजॊपमः करेण गृह्य महतीं गदाम अभ्यपतद बली अवप्लुत्य रथात तूर्णं दण्डपाणिर इवान्तकः ॥ 28 ॥

  29. तम उद्यतगदं दृष्ट्वा पाण्डवानां महारथम वित्रेसुस तावकाः सैन्याः शकृन मूत्रं परसुस्रुवुः आविग्नं च बलं सर्वं गदाहस्ते वृकॊदरे ॥ 29 ॥

  30. गदया भीमसेनेन भिन्नकुम्भान रजस्वलान धावमानान अपश्याम कुन्रजान पर्वतॊपमान ॥ 30 ॥

  31. परधाव्य कुञ्जरास ते तु भीमसेनगदा हताः पेतुर आर्तस्वरं कृत्वा छिन्नपक्षा इवाद्रयः ॥ 31 ॥

  32. तान भिन्नकुम्भान सुबहून दरवमाणान इतस ततः पतमानांश च संप्रेक्ष्य वित्रेसुस तव सैनिकाः ॥ 32 ॥

  33. युधिष्ठिरॊ ऽपि संक्रुद्धॊ माद्रीपुत्रौ च पाण्डवौ गृध्रपक्षैः शितैर बाणैर जघ्नुर वै गजयॊधिनः ॥ 33 ॥

  34. धृष्टद्युम्नस तु समरे पराजित्य नराधिपम अपक्रान्ते तव सुते हयपृष्ठं समाश्रिते ॥ 34 ॥

  35. दृष्ट्वा च पाण्डवान सर्वान कुञ्जरैः परिवारितान धृष्टद्युम्नॊ महाराज सह सर्वैः परभद्रकैः पुत्रः पाञ्चालराजस्य जिघांसुः कुञ्जरान ययौ ॥ 35 ॥

  36. अदृष्ट्वा तु रथानीके दुर्यॊधनम अरिंदमम अश्वत्थामा कृपश चैव कृतवर्मा च सात्वतः अपृच्छन कषत्रियांस तत्र कव नु दुर्यॊधनॊ गतः ॥ 36 ॥

  37. अपश्यमाना राजानं वर्तमाने जनक्षये मन्वाना निहतं तत्र तव पुत्रं महारथाः विषण्णवदना भूत्वा पर्यपृच्छन्त ते सुतम ॥ 37 ॥

  38. आहुः केच्चिद धते सूते परयातॊ यत्र सौबलः अपरे तव अब्रुवंस तत्र कषत्रिया भृशविक्षिताः ॥ 38 ॥

  39. दुर्यॊधनेन किं कार्यं दरक्ष्यध्वं यदि जीवति युध्यध्वां सहिताः सर्वे किं वॊ राजा करिष्यति ॥ 39 ॥

  40. ते कषत्रियाः कषतैर गात्रैर हतभूयुष्ठ वाहनाः शरैः संपीड्यमानाश च नातिव्यक्तम इवाब्रुवन ॥ 40 ॥

  41. इदं सर्वं बलं हन्मॊ येन सम परिवारिताः एते सर्वे गजान हत्वा उपयान्ति सम पाण्डवाः ॥ 41 ॥

  42. शरुत्वा तु वचनं तेषाम अश्वत्थामा महाबलः हित्वा पाञ्चालराजस्य तद अनीकं दुरुत्सहम ॥ 42 ॥

  43. कृपश च कृतवर्मा च परययुर यत्त्र सौबलः रथानीकं परित्यज्य शूराः सुदृढ धन्विनः ॥ 43 ॥

  44. ततस तेषु परयातेषु धृष्टद्युम्नपुरॊगमाः आययुः पाण्डवा राजन विनिघ्नान्तः सम तावकान ॥ 44 ॥

  45. दृष्ट्वा तु तान आपततः संप्रहृष्टान महारथान पराक्रान्तांस ततॊ वीरान निराशाञ जीविते तदा विवर्णमुख भूयिष्ठम अभवत तावकं बलम ॥ 45 ॥

  46. परिक्षीणायुधान दृष्ट्वा तान अहं परिवारितान राजन बलेन दव्यङ्गेन तयक्त्वा जीवितम आत्मनः ॥ 46 ॥

  47. आत्मना पञ्चमॊ ऽयुध्यं पाञ्चालस्य बलेन ह तस्मिन देशे वयवस्थाप्य यत्र शारद्वतः सथितः ॥ 47 ॥

  48. संप्रयुद्धा वयं पञ्च किरीटिशरपीडिताः धृष्टाद्युम्नं महानीकं तत्र नॊ ऽभूद रणॊ महान जितास तेन वयं सर्वे वयपयाम रणात ततः ॥ 48 ॥

  49. अथापश्यां सत्यकिं तम उपायान्तं महारथम रथैश चतुःशतैर वीरॊ मां चाभ्यद्रवद आहवे ॥ 49 ॥

  50. धृष्टद्युम्नाद अहं मुक्तः कथं चिच छान्त वाहनः पतितॊ माधवानीकं दुष्कृती नरकं यथा तत्र युद्धम अभूद घॊरं मुहूर्तम अतिदारुणम ॥ 50 ॥

  51. सात्यकिस तु महाबाहुर मम हत्वा परिच्छदम जीवग्राहम अगृह्णान मां मूर्छितं पतितं भुवि ॥ 51 ॥

  52. ततॊ मुहूर्ताद इव तद गजानीकम अवध्यत गदया भीमसेनेन नाराचैर अर्जुनेन च ॥ 52 ॥

  53. परतिपिष्टैर महानागैः समन्तात पर्वतॊपमैः नातिप्रसिद्धेव गतिः पाण्डवानाम अजायत ॥ 53 ॥

  54. रथमार्गांस ततश चक्रे भीमसेनॊ महाबलः पाण्डवानां महाराज वयपकर्षन महागजान ॥ 54 ॥

  55. अश्वत्थामा कृपश चैव कृतवर्मा च सात्वतः अपश्यन्तॊ रथानीके दुर्यॊधनम अरिंदमम राजानं मृगयाम आसुस तव पुत्रं महारथम ॥ 55 ॥

  56. परित्यज्य च पाञ्चालं परयाता यत्र सौबलः राज्ञॊ ऽदर्शन संविग्ना वर्तमाने जनक्षये ॥ 56 ॥

Reach this point to mark the section finished.

Continue to अध्याय 25

Previous: अध्याय 23