[स] तस्मिञ शब्दे मृदौ जाते पाण्डवैर निहते बले अश्वैः सप्तशतैः शिष्टैर उपावर्तत सौबलः ॥ 1 ॥
स यात्वा वाहिनीं तूर्णम अब्रवीत तवरयन युधि युध्यध्वम इति संहृष्टाः पुनः पुनर अरिंदमः अपृच्छत कषत्रियांस तत्र कव नु राजा महारथः ॥ 2 ॥
शकुनेस तु वचः शरुत्वा त ऊचुर भरतर्षभ असौ तिष्ठति कौरव्यॊ रणमध्ये महारथः ॥ 3 ॥
यत्रैतत सुमहच छस्त्रं पूर्णचन्द्र समप्रभम यत्रैते सतल तराणा रथास तिष्ठन्ति दंशिताः ॥ 4 ॥
यत्रैष शब्दस तुमुलः पर्जन्यनिनदॊपमः तत्र गच्छ दरुतं राजंस ततॊ दरक्ष्यसि कौरवम ॥ 5 ॥
एवम उक्तस तु तैः शूरैः शकुनिः सौबलस तदा परययौ तत्र यत्रासौ पुत्रस तव नराधिप सर्वतः संवृतॊ वीरैः समरेष्व अनिवर्तिभिः ॥ 6 ॥
ततॊ दुर्यॊधनं दृष्ट्वा रथानीके वयवस्थितम सरथांस तावकान सर्वान हर्षयञ शकुनिस ततः ॥ 7 ॥
दुर्यॊधनम इदं वाक्यं हृष्टरूपॊ विशां पते कृतकार्यम इवात्मानं मन्यमानॊ ऽबरवीन नृपम ॥ 8 ॥
जहि राजन रथानीकम अश्वाः सर्वे जिता मया नात्यक्त्वा जीवितं संख्ये शक्यॊ जेतुं युधिष्ठिरः ॥ 9 ॥
हते तस्मिन रथानीके पाण्डवेनाभिपालिते गजान एतान हनिष्यामः पदातींश चेतरांस तथा ॥ 10 ॥
शरुत्वा तु वचनं तस्य तावका जयगृद्धिनः जवेनाभ्यपतन हृष्टाः पाणड्वानाम अनीकिनीम ॥ 11 ॥
सर्वे विवृततूणीराः परगृहीतशरासनाः शरासनानि धुन्वानाः सिंहनादं परचक्रिरे ॥ 12 ॥
ततॊ जयातलनिर्घॊषः पुनर आसीद विशां पते परादुरासीच छराणां च सुमुक्तानां सुदारुणः ॥ 13 ॥
तान समीपगतान दृष्ट्वा जवेनॊद्यत कार्मुकान उवाच देवकीपुत्रं कुन्तीपुत्रॊ धनंजयः ॥ 14 ॥
चॊदयाश्वान असंभ्रान्तः परविशैतद बलार्णवम अन्तम अद्य गमिष्यामि शत्रूणां निशितैः शरैः ॥ 15 ॥
अष्टादश दिनान्य अद्य युद्धस्यास्य जनार्दन वर्तमानस्य महतः समासद्य परस्परम ॥ 16 ॥
अनन्त कल्पा धवजिनी भूत्वा हय एषां महात्मनाम कषयम अद्य गता युद्धे पश्य दैवं यथाविधम ॥ 17 ॥
समुद्रकल्पं तु बलं धार्तराष्ट्रस्य माधव अस्मान आसाद्य संजात्म गॊष्पदॊपमम अच्युत ॥ 18 ॥
हते भीष्मे च संदध्याच छिवं सयाद इह माधव न च तत कृतवान मूढॊ धार्तराष्ट्रः सुबालिशः ॥ 19 ॥
उक्तं भीष्मेण यद वाक्यं हितं पथ्यं च माधव तच चापि नासौ कृतवान वीतबुद्धिः सुयॊधनः ॥ 20 ॥
तस्मिंस तु पतिते भीष्मे परच्युते पृथिवीतले न जाने कारणं किं नु येन युद्धम अवर्तत ॥ 21 ॥
मूढांस तु सर्वथा मन्ये धार्तराष्ट्रान सुबालिशान पतिते शंतनॊः पुत्रे ये ऽकार्षुः संयुगं पुनः ॥ 22 ॥
अनन्तरं च निहते दरॊणे बरह्म विदां वरे राधेये च विकर्णे च नैवाशाम्यत वैशसम ॥ 23 ॥
अल्पावशिष्टे सैन्ये ऽसमिन सूतपुत्रे च पातिते सपुत्रे वै नरव्याघ्रे नैवाशाम्यत वैशसम ॥ 24 ॥
शरुतायुषि हते शूरे जलसंधे च पौरवे शरुतायुधे च नृपतौ नैवाशाम्यत वैशसम ॥ 25 ॥
भूरिश्रवसि शल्ये च शाल्वे चैव जनार्दन आवन्त्येषु च वीरेषु नैवाशाम्यत वैशसम ॥ 26 ॥
जयद्रथे च निहते राक्षसे चाप्य अलायुधे बाह्लिके सॊमदत्ते च नैवाशाम्यत वैशसम ॥ 27 ॥
भगदत्ते हते शूरे काम्बॊजे च सुदक्षिणे दुःशासने च निहते नैवाशाम्यत वैशसम ॥ 28 ॥
दृष्ट्वा च निहताञ शूरान पृथन माण्डलिकान नृपान बलिनश च रणे कृष्ण नैवाशाम्यत वैशसम ॥ 29 ॥
अक्षौहिणीपतीन दृष्ट्वा भीमसेनेन पातितान मॊहाद वा यदि वा लॊभान नैवाशाम्यत वैशसम ॥ 30 ॥
कॊ नु राजकुले जातः कौरवेयॊ विशेषतः निरर्थकं महद वैरं कुर्याद अन्यः सुयॊधनात ॥ 31 ॥
गुणतॊ ऽभयधिकं जञत्वा बलतः शौर्यतॊ ऽपि वा अमूढः कॊ नु युध्येत जनान पराज्ञॊ हिताहितम ॥ 32 ॥
यन न तस्य मनॊ हय आसीत तवयॊक्तस्य हितं वचः परशमे पाण्डवैः सार्धं सॊ ऽनयस्य शृणुयात कथम ॥ 33 ॥
येन शांतनवॊ भीष्मॊ दरॊणॊ विदुर एव च परत्याख्याताः शमस्यार्थे किं नु तस्याद्य भेषजम ॥ 34 ॥
मौर्ख्याद्येन पिता वृद्धः परत्याख्यातॊ जनार्दन तथा माता हितं वाक्यं भाषमाणा हितैषिणी परत्याख्याता हय असत्कृत्य स कस्मै रॊचयेद वचः ॥ 35 ॥
कुलान्तक रणॊ वयक्तं जात एष जनार्दन तथास्य दृश्यते चेष्टा नीतिश चैव विशां पते नैष दास्यति नॊ राज्यम इति मे मतिर अच्युत ॥ 36 ॥
उक्तॊ ऽहं बहुशस तात विदुरेण महात्मना न जीवन दास्यते भागं धार्तराष्ट्रः कथं चन ॥ 37 ॥
यावत पराणा धमिष्यन्ति धार्तराष्ट्रस्य मानद तावद युष्मास्व अपापेषु परचरिष्यति पातकम ॥ 38 ॥
न स युक्तॊ ऽनयथा जेतुम ऋते वृद्धेन माधव इत्य अब्रवीत सदा मां हि विदुरः सत्यदर्शनः ॥ 39 ॥
तत सर्वम अद्य जानामि वयवसायं दुरात्मनः यद उक्तं वचनं तेन विदुरेण महात्मना ॥ 40 ॥
यॊ हि शरुत्वा वचः पथ्यं जामदग्न्याद यथातथम अवामन्यत दुर्बुद्धिर धरुवं नाश मुखे सथितः ॥ 41 ॥
उक्तं हि बहुभिः सिद्धैर जातमात्रे सुयॊधने एनं पराप्य दुरात्मानं कषयं कषत्रं गमिष्यति ॥ 42 ॥
तद इदं वचनं तेषां निरुक्तं वै जनार्दन कषयं याता हि राजानॊ दुर्यॊधनकृते भृशम ॥ 43 ॥
सॊ ऽदय सर्वान रणे यॊधान निहनिष्यामि माधव कषत्रियेषु हतेष्व आशु शून्ये च शिबिरे कृते ॥ 44 ॥
वधाय चात्मनॊ ऽसमाभिः संयुगं रॊचयिष्यति तद अन्तं हि भवेद वैरम अनुमानेन माधव ॥ 45 ॥
एवं पश्यामि वार्ष्णेय चिन्तयन परज्ञया सवया विदुरस्य च वाक्येन चेष्टया च दुरात्मनः ॥ 46 ॥
संयाहि भरतीं वीर यावद्धन्मि शितैः शरैः दुर्यॊधनं दुरात्मानं वाहिनीं चास्य संयुगे ॥ 47 ॥
कषेमम अद्य करिष्यामि धर्मराजस्य माधव हत्वैतद दुर्बलं सैन्यं धार्तराष्ट्रस्य पश्यतः ॥ 48 ॥
[स] अभीशु हस्तॊ दाशार्हस तथॊक्तः सव्यसाचिना तद बलौघम अमित्राणाम अभीतः पराविशद रणे ॥ 49 ॥
शरासनवरं घॊरं शक्तिकण्टक संवृतम गदापरिघपन्थानं रथनागमहाद्रुमम ॥ 50 ॥
हयपत्तिलताकीर्णं गाहमानॊ महायशाः वयच्चरत तत्र गॊविन्दॊ रथेनातिपताकिना ॥ 51 ॥
ते हयाः पाण्डुरा राजन वहन्तॊ ऽरजुनम आहवे दिष्कु सर्वास्व अदृश्यन्त दाशार्हेण परचॊदिताः ॥ 52 ॥
ततः परायाद रथेनाजौ सव्यसाची परंतपः किरञ शरशतांस तीक्ष्णान वारिधारा इवाम्बुदः ॥ 53 ॥
परादुरासीन महाञ शब्दः शराणां नतपर्वणाम इषुभिश छाद्यमानानां समरे सव्यसाचिना ॥ 54 ॥
असज्जन्तस तनुत्रेषु शरौघाः परापतन भुवि इन्द्राशनिसमस्पर्शा गाण्डीवप्रेषिताः शराः ॥ 55 ॥
नरान नागान समाहत्य हयांश चापि विशां पते अपतन्त रणे बाणाः पतंगा इव घॊषिणः ॥ 56 ॥
आसीत सर्वम अवच्छन्नं गाण्डीवप्रेषितैः शरैः न पराज्ञायन्त समरे दिशॊ वा परदिशॊ ऽपि वा ॥ 57 ॥
सर्वम आसीज जगत पूर्णं पार्थ नामाङ्कितैः शरैः रुक्मपुङ्खैस तैलधौतैः कर्मार परिमार्जितैः ॥ 58 ॥
ते दह्यमानाः पार्थेन पावकेनेव कुञ्जराः समासीदन्त कौरव्या वध्यमानाः शितैः शरैः ॥ 59 ॥
शरचाप धरः पार्थः परज्वजन्न इव भारत ददाह समरे यॊधान कक्षम अग्निर इव जवलन ॥ 60 ॥
यथा वनान्ते वनपैर विसृष्टः; कक्षं दहेत कृष्ण गतिः सघॊषः भूरि दरुमं शुष्कलता वितानं; भृशं समृद्धॊ जवलनः परतापी ॥ 61 ॥
एवं स नाराचगणप्रतापी; शरार्चिर उच्चावचतिग्मतेजाः ददाह सर्वां तव पुत्र सेनाम; अमृष्यमाणस तरसा तरस्वी ॥ 62 ॥
तस्येषवः पराणहराः सुमुक्ता; नासज्जन वै वर्मसु रुक्मपुङ्खाः न च दवितीयं परमुमॊच बाणं; नरे हये वा परमद्विपे वा ॥ 63 ॥
अनेकरूपाकृतिभिर हि बाणैर; महारथानीकम अनुप्रविश्य स एव एकस तव पुत्र सेनां; जघान दैत्यान इव वज्रपाणिः ॥ 64 ॥
शल्यपर्व · Shalya Parva
अध्याय 23
Reach this point to mark the section finished.
Continue to अध्याय 24