[स] वर्तमाने तथा युद्धे घॊररूपे भयानके अभज्यत बलं तत्र तव पुत्रस्य पाण्डवैः ॥ 1 ॥
तांस तु यत्नेन महता संनिवार्य महारथान पुत्रस ते यॊधयाम आस पाण्डवानाम अनीकिनीम ॥ 2 ॥
निवृत्ताः सहसा यॊधास तव पुत्र परियैषिणः संनिवृत्तेषु तेष्व एवं युद्धम आसीत सुदारुणम ॥ 3 ॥
तावकानां परेषां च देवासुररणॊपमम परेषां तव सैन्ये च नासीत कश चित पराङ्मुखः ॥ 4 ॥
अनुमानेन युध्यन्ते संज्ञाभिश च परस्परम तेषां कषयॊ महान आसीद युध्यताम इतरेतरम ॥ 5 ॥
ततॊ युधिष्ठिरॊ राजा करॊधेन महता युतः जिगीषमाणः संग्रामे धार्तराष्ट्रान सराजकान ॥ 6 ॥
तरिभिः शारद्वतं विद्ध्वा रुक्मपुङ्खैः शिलाशितैः चतुर्भिर निजघानाश्वान कल्याणान कृतवर्मणः ॥ 7 ॥
अश्वत्थामा तु हार्दिक्यम अपॊवाह यशस्विनम अथ शारद्वतॊ ऽषटाभिः परत्यविध्यद युधिष्ठिरम ॥ 8 ॥
ततॊ दुर्यॊधनॊ राजा रथान सप्तशतान रणे परेषयद यत्र राजासौ धर्मपुत्रॊ युधिष्ठिरः ॥ 9 ॥
ते रथा रथिभिर युक्ता मनॊमारुतरंहसः अभ्यद्रवन्त संग्रामे कौन्तेयस्य रथं परति ॥ 10 ॥
ते समन्तान महाराज परिवार्य युधिष्ठिरम अदृश्यं सायकैश चक्रुर मेघा इव दिवाकरम ॥ 11 ॥
नामृष्यन्त सुसंरब्धाः शिखण्डिप्रमुखा रथाः रथैर अग्र्यजवैर युक्तैः किङ्किणीजालसंवृतैः आजग्मुर अभिरक्षन्तः कुन्तीपुत्रं युधिष्ठिरम ॥ 12 ॥
तथा परववृते रौद्रः संग्रामः शॊणितॊदकः पाण्डवानां कुरूणां च यम राष्ट्रविवर्धनः ॥ 13 ॥
रथान सप्तशतान हत्वा कुरूणाम आततायिनाम पाण्डवाः सह पाञ्चालैः पुनर एवाभ्यवारयन ॥ 14 ॥
तत्र युद्धं महच चासीत तव पुत्रस्य पाण्डवैः न च नस तादृशं दृष्टं नैव चापि परिश्रुतम ॥ 15 ॥
वर्तमाने तथा युद्धे निर्मर्यादे समन्ततः वध्यमानेषु यॊधेषु तावकेष्व इतरेषु च ॥ 16 ॥
निनदत्सु च यॊधेषु शङ्खवर्यैश च पूरितैः उत्कृष्टैः सिंहनादैश च गर्जितेन च धन्विनाम ॥ 17 ॥
अतिप्रवृद्धे युद्धे च छिद्यमानेषु मर्मसु धावमानेषु यॊधेषु जय गृद्धिषु मारिष ॥ 18 ॥
संहारे सर्वतॊ जाते पृथिव्यां शॊकसंभवे बह्वीनाम उत्तमस्त्रीणां सीमन्तॊद्धरणे तथा ॥ 19 ॥
निर्मर्यादे तथा युद्धे वर्तमाने सुदारुणे परादुरासन विनाशाय तदॊत्पाताः सुदारुणाः चचाल शब्दं कुर्वाणा सपर्वतवना मही ॥ 20 ॥
सदण्डाः सॊल्मुका राजञ शीर्यमाणाः समन्ततः उल्काः पेतुर दिवॊ भूमाव आहत्य रविमण्डलम ॥ 21 ॥
विष्वग वाताः परादुरासन नीचैः शर्कर वर्षिणः अश्रूणि मुमुचुर नागा वेपथुश चास्पृशद भृशम ॥ 22 ॥
एतान घॊरान अनादृत्य समुत्पातान सुदारुणान पुनर युद्धाय संमन्त्र्य कषत्रियास तस्थुर अव्यथाः रमणीये कुरुक्षेत्रे पुण्ये सवर्गं यियासवः ॥ 23 ॥
ततॊ गान्धारराजस्य पुत्रः शकुनिर अब्रवीत युध्यध्वम अग्रतॊ यावत पृष्ठतॊ हन्मि पाण्डवान ॥ 24 ॥
ततॊ नः संप्रयातानां मद्रयॊधास तरस्विनः हृष्टाः किलकिला शब्दम अकुर्वन्तापरे तथा ॥ 25 ॥
अस्मांस तु पुनर आसाद्य लब्धलक्षा दुरासदाः शरासनानि धुन्वन्तः शरवर्षैर अवाकिरन ॥ 26 ॥
ततॊ हतं परैस तत्र मद्रराजबलं तदा दुर्यॊधन बलं दृष्ट्वा पुनर आसीत पराङ्मुखम ॥ 27 ॥
गान्धारराजस तु पुनर वाक्यम आह ततॊ बली निवर्तध्वम अधर्मज्ञा युध्यध्वं किं सृतेन वः ॥ 28 ॥
अनीकं दशसाहस्रम अश्वानां भरतर्षभ आसीद गान्धारराजस्य विमलप्रासयॊधिनाम ॥ 29 ॥
बलेन तेन विक्रम्य वर्तमाने जनक्षये पृष्ठतः पाण्डवानीकम अभ्यघ्नन निशितैः शरैः ॥ 30 ॥
तद अभ्रम इव वातेन कषिप्यमाणं समन्ततः अभज्यत महाराज पाण्डूनां सुमहद बलम ॥ 31 ॥
ततॊ युधिष्ठिरः परेक्ष्य भग्नं सवबलम अन्तिकात अभ्यचॊदयद अव्यग्रः सहदेवं महाबलम ॥ 32 ॥
असौ सुबल पुत्रॊ नॊ जघनं पीड्य दंशितः सेनां निसूदयन्त्य एष पश्य पाण्डव दुर्मतिम ॥ 33 ॥
गच्छ तवं दरौपदेयाश च शकुनिं सौबलं जहि रथानीकम अहं रक्ष्ये पाञ्चाल सहितॊ ऽनघ ॥ 34 ॥
गच्छन्तु कुञ्जराः सर्वे वाजिनश च सह तवया पादाताश च तरिसाहस्राः शकुनिं सौबलं जहि ॥ 35 ॥
ततॊ गजाः सप्तशताश चापपाणिभिर आस्थिताः पञ्च चाश्वसहस्राणि सहदेवश च वीर्यवान ॥ 36 ॥
पादाताश च तरिसाहस्रा दरौपदेयाश च सर्वशः रणे हय अभ्यद्रवंस ते तु शकुनिं युद्धदुर्मदम ॥ 37 ॥
ततस तु सौबलॊ राजन्न अब्भ्यतिक्रम्य पाण्डवान जघान पृष्ठतः सेनां जय घृध्रः परतापवान ॥ 38 ॥
अश्वारॊहास तु संरब्धाः पाण्डवानां तरस्विनाम पराविशन सौबलानीकम अभ्यतिक्रम्य तान रथान ॥ 39 ॥
ते तत्र सदिनः शूराः सौबलस्य महद बलम गममध्ये ऽवतिष्ठन्तः शरवर्षैर अवाकिरन ॥ 40 ॥
तद उद्यतगदा परासम अकापुरुष सेवितम परावर्तत महद युद्धं राजन दुर्मन्त्रिते तव ॥ 41 ॥
उपारमन्त जयाशब्दाः परेक्षका रथिनॊ ऽभवन न हि सवेषां परेषां वा विशेषः परत्यदृश्यत ॥ 42 ॥
शूर बाहुविसृष्टानां शक्तीनां भरतर्षभ जयॊतिषाम इव संपातम अपश्यन कुरुपाण्डवाः ॥ 43 ॥
ऋष्टिभिर विमलाहिश च तत्र तत्र विशां पते संपतन्तीभिर आकाशम आवृतं बह्व अशॊभत ॥ 44 ॥
परासानाम्पततां राजन रूपम आसीत समन्ततः शलभानाम इवाकाशे तदा भरतसत्तम ॥ 45 ॥
रुधिरॊक्षितसर्वाङ्गा विप्रविद्धैर नियन्तृभिः हयाः परिपतन्ति सम शतशॊ ऽथ सहस्रशः ॥ 46 ॥
अन्यॊन्यपरिपिष्टाश च समासाद्य परस्परम अविक्षताः सम दृश्यन्ते वमन्तॊ रुधिरं मुखैः ॥ 47 ॥
ततॊ ऽभवत तमॊ घॊरं सैन्येन रजसा वृते तान अपाक्रमतॊ ऽदराक्षं तस्माद देशाद अरिंदमान अश्वान राजन मनुष्यांश च रजसा संवृते सति ॥ 48 ॥
भूमौ निपतिताश चान्ये वमन्तॊ रुधिरं बहु केशा केशि समालग्ना न शेकुश चेष्टितुं जनाः ॥ 49 ॥
अन्यॊन्यम अश्वपृष्ठेभ्यॊ विकर्षन्तॊ महाबलाः मल्ला इव समासाद्य निजघ्नुर इतरेतरम अश्वैश च वयपकृष्यन्त वहवॊ ऽतर गतासवः ॥ 50 ॥
भूमौ निपतितश चान्ये बहवॊ विजयैषिणः तत्र तत्र वयदृश्यन्त पुरुषाः शूरमानिनः ॥ 51 ॥
रक्तॊक्षितैश छिन्नभुजैर अपकृष्ट शिरॊरुहैः वयदृश्यत मही कीर्णा शतशॊ ऽथ सहस्रशः ॥ 52 ॥
दूरं न शक्यं तत्रासीद गन्तुम अश्वेन केन चित साश्वारॊहैर हतैर अश्वैर आवृते वसुधातले ॥ 53 ॥
रुधिरॊक्षित संनाहैर आत्तशस्त्रैर उदायुधैः नानाप्रहरणैर घॊरैः परस्परवधैषिभिः सुसंनिकृष्टैः संग्रामे हतभूयिष्ठ सैनिकैः ॥ 54 ॥
स मुहूर्तं ततॊ युद्ध्वा सौबलॊ ऽथ विशां पते षट सहस्रैर हयैः शिष्टैर अपायाच छकुनिस ततः ॥ 55 ॥
तथैव पाण्डवानीकं रुधिरेण समुक्षितम षट सहस्रैर हयैः शिष्टैर अपायाच छरान्तवाहनम ॥ 56 ॥
अश्वारॊहास तु पाण्डूनाम अब्रुवन रुधिरॊक्षिताः सुसंनिकृष्टाः संग्रामे भूयिष्ठं तयक्तजीविताः ॥ 57 ॥
नेह शक्यं रथैर यॊद्धुं कुत एव महागजैः रथनैव रथा यान्तु कुञ्जराः कुञ्जरान अपि ॥ 58 ॥
परतियातॊ हि शकुनिः सवम अनीकम अवस्थितः न पुनः सौबलॊ राजा युद्धम अभ्यागमिष्यति ॥ 59 ॥
ततस तु दरौपदेयाश च ते च मत्ता महाद्विपाः परययुर यत्र पाञ्चाल्यॊ धृष्टद्युम्नॊ महारथः ॥ 60 ॥
सहदेवॊ ऽपि कौरव्य रजॊमेघे समुत्थिते एकाकी परययौ तत्र यत्र राजा युधिष्ठिरः ॥ 61 ॥
ततस तेषु परयातेषु शकुनिः सौबलः पुनः पार्श्वतॊ ऽभयहनत करुद्धॊ धृष्टद्युम्नस्य वाहिनीम ॥ 62 ॥
तत पुनस तुमुलं युद्धं पराणांस तयक्त्वाभ्यवर्तत तावकानां परेषां च परस्परवधैषिणाम ॥ 63 ॥
ते हय अन्यॊन्यम अवेक्षन्त तस्मिन वीर समागमे यॊधाः पर्यपतन राजञ शतशॊ ऽथ सहस्रशः ॥ 64 ॥
असिभिश छिद्यमानानां शिरसां लॊकसंक्षये परादुरासीन महाशब्दस तालानां पतताम इव ॥ 65 ॥
विमुक्तानां शरीराणां भिन्नानां पततां भुवि सायुधानां च बाहूनाम उरूणां च विशां पते आसीत कटकटा शब्दः सुमहाँल लॊमहर्षणः ॥ 66 ॥
निघ्नन्तॊ निशितैः शस्त्रैर भरातॄन पुत्रान सखीन अपि यॊधाः परिपतन्ति सम यथामिष कृते खगाः ॥ 67 ॥
अन्यॊन्यं परतिसंरब्धाः समासाद्य परस्परम अहं पूर्वम अहं पूर्वम इति नयघ्नन सहस्रशः ॥ 68 ॥
संघातैर आसनभ्रष्टैर अश्वारॊहैर गतासुभिः हयाः परिपतन्ति सम शतशॊ ऽथ सहस्रशः ॥ 69 ॥
सफुरतां परतिपिष्टानाम अश्वानां शीघ्रसारिणाम सतनतां च मनुष्याणां संनद्धानां विशां पते ॥ 70 ॥
शक्त्यृष्टि परासशब्दश च तुमुलः समजायत भिन्दतां परमर्माणि राजन दुर्मन्त्रिते तव ॥ 71 ॥
शरमाभिभूताः संरब्धाः शरान्तवाहाः पिपासिताः विक्षताश च शितैः शस्त्रैर अभ्यवर्तन्त तावकाः ॥ 72 ॥
मत्ता रुधिरगन्धेन बहवॊ ऽतर विचेतसः जघ्नुः परान सवकांश चैव पराप्तान पराप्तान अनन्तरान ॥ 73 ॥
बहवश च गतप्राणाः कषत्रिया जय गृद्धिनः भूमाव अभ्यपतन राजञ शरवृष्टिभिर आवृताः ॥ 74 ॥
वृकगृध्रशृगालानां तुमुले मॊदने ऽहनि आसीद बलक्षयॊ घॊरस तव पुत्रस्य पश्यतः ॥ 75 ॥
नर अश्वकायसंछन्ना भूमिर आसीद विशां पते रुधिरौदक चित्रा च भीरूणां भयवर्धिनी ॥ 76 ॥
असिभिः पट्टिशैः शूरैस तक्षमाणाः पुनः पुनः तावकाः पाण्डवाश चैव नाभ्यवर्तन्त भारत ॥ 77 ॥
परहरन्तॊ यथाशक्ति यावत पराणस्य धारणम यॊधाः परिपतन्ति सम वमन्तॊ रुधिरं वरणैः ॥ 78 ॥
शिरॊ गृहीत्वा केशेषु कबन्धः समदृश्यत उद्यम्य निशितं खड्गं रुधिरेण समुक्षितम ॥ 79 ॥
अथॊत्थितेषु बहुषु कबन्धेषु जनाधिप तथा रुधिरगन्धेन यॊधाः कश्मलम आविशन ॥ 80 ॥
मन्दी भूते ततः शब्दे पाण्डवानां महद बलम अल्पावशिष्टैस तुरगैर अभ्यवर्तत सौबलः ॥ 81 ॥
ततॊ ऽभयधावंस तवरिताः पाण्डवा जय गृद्धिनः पदातयश च नागाश च सादिनश चॊद्यतायुधाः ॥ 82 ॥
कॊष्टकी कृत्यचाप्य एनं परिक्षिप्य च सर्वशः शस्त्रैर नानाविधैर जघ्नुर युद्धपारं तितीर्षवः ॥ 83 ॥
तवदीयास तांस तु संप्रेक्ष्य सर्वतः समभिद्रुतान साश्वपत्तिद्विपरथाः पाण्डवान अभिदुद्रुवुः ॥ 84 ॥
के चित पदातयः पद्भिर मुष्टिभिश च परस्परम निजघ्नुः समरे शूराः कषीणशस्त्रास ततॊ ऽपतन ॥ 85 ॥
रथेभ्यॊ रथिनः पेतुर दविपेभ्यॊ हस्तिसादिनः विमानेभ्य इव भरष्टाः सिद्धाः पुण्यक्षयाद यथा ॥ 86 ॥
एवम अन्यॊन्यम आयस्ता यॊधा जघ्नुर महामृधे पितॄन भरातॄन वयस्यांश च पुत्रान अपि तथापरे ॥ 87 ॥
एवम आसीद अमर्यादं युद्धं भरतसत्तम परासासिबाणकलिले वर्तमाने सुदारुणे ॥ 88 ॥
शल्यपर्व · Shalya Parva
अध्याय 22
Reach this point to mark the section finished.
Continue to अध्याय 23