[स] तस्मिंस तु निहते शूरे शाल्वे समितिशॊभने तवाभज्यद बलं वेगाद वातेनेव महाद्रुमः ॥ 1 ॥
तत परभग्नं बलं दृष्ट्वा कृतवर्मा महारथः दधार समरे शूरः शत्रुसैन्यं महाबलः ॥ 2 ॥
संनिवृत्तास तु ते शूरा ऋष्ट्वा सात्वतम आहवे शौलॊपमं सथितं राजन कीर्यमाणं शरैर युधि ॥ 3 ॥
तथ परववृते युद्धं कुरूणां पाण्डवैः सह निवृत्तानां महाराज मृत्युं कृत्वा निवर्तनम ॥ 4 ॥
तत्राश्चर्यम अभूद युद्धां सात्वतस्य परैः सह यद एकॊ वारयाम आस पाण्डुसेनां दुरासदाम ॥ 5 ॥
तेषाम अन्यॊन्यसुहृदां कृते कर्मणि दुष्करे सिंहनादः परहृष्टानां दिवः सपृक सुमहान अभूत ॥ 6 ॥
तेन शब्देन वित्रस्तान पाञ्चालान भरतर्षभ शिनेर नप्ता महाबाहुर अन्वपद्यत सात्यकिः ॥ 7 ॥
स समासाद्य राजानं कषेमधूर्तिं महाबलम सप्तभिर निशितैर बाणैर अनयद यमसादनम ॥ 8 ॥
तम आयान्तं महाबाहुं परवपन्तं शिताञ शरान जवेनाभ्यपतद धीमान हार्दिक्यः शिनिपुंगवम ॥ 9 ॥
तौ सिंहाव इव नर्दन्तौ धन्विनौ रथिनां वरौ अन्यॊन्यम अभ्यधावेतां शस्त्रप्रवर धारिणौ ॥ 10 ॥
पाण्डवाः सह पाञ्चालैर यॊधाश चान्ये नृपॊत्तमाः परेक्षकाः समपद्यन्त तयॊः पुरुषसिंहयॊः ॥ 11 ॥
नाराचैर वत्सदन्तैश च वृष्ण्यन्धकमहारथौ अभिजघ्नतुर अन्यॊन्यं परहृष्टाव इव कुञ्जरौ ॥ 12 ॥
चरन्तौ विविधान मार्गान हार्दिक्य शिनिपुंगवौ मुहुर अन्तर्दधाते तौ बाणवृष्ट्या परस्परम ॥ 13 ॥
चापवेगबलॊद्धूतान मार्गणान वृष्णिसिंहयॊः आकाशे समपश्याम पतंगान इव शीघ्रगान ॥ 14 ॥
तम एकं सत्यकर्माणम आसाद्य हृदिकात्मजः अविध्यन निशितैर बाणैश चतुर्भिश अतुरॊ हयान ॥ 15 ॥
स दीर्घबाहुः संक्रुद्धस तॊत्त्रार्दित इव दविपः अष्टाभिः कृतवर्माणम अविध्यत परमेषुभिः ॥ 16 ॥
ततः पूर्णायतॊत्सृष्टैः कृतवर्मा शिलाशितैः सात्यकिं तरिभिर आहत्य धनुर एकन चिच्छिदे ॥ 17 ॥
निकृत्तं तद धनुःश्रेष्ठम अपास्य शिनिपुंगवः अन्यद आदत्त वेगेन शैनेयः सशरं धनुः ॥ 18 ॥
तद आदाय धनुःश्रेष्ठं वरिष्ठः सर्वधन्विनाम आरॊप्य च महावीर्यॊ महाबुद्धिर महाबलः ॥ 19 ॥
अमृष्यमाणॊ धनुषश छेदनं कृतवर्मणा कुपितॊ ऽतिरथः शीघ्रं कृतवर्माणम अभ्ययात ॥ 20 ॥
ततः सुनिशितैर बाणैर दशभिः शिनिपुंगवः जघान सूतम अश्वांश च धवजं च कृतवर्मणः ॥ 21 ॥
ततॊ राजन महेष्वासः कृतवर्मा महारथः हताश्वसूतं संप्रेक्ष्य रथं हेमपरिष्कृतम ॥ 22 ॥
रॊषेण महताविष्टः शूलम उद्यम्य मारिष चिक्षेप भुजवेगेन जिघांसुः शिनिपुंगवम ॥ 23 ॥
तच छूलं सात्वतॊ हय आजौ निर्भिद्य निशितैः शरैः चूर्णितं पातयाम आस मॊहयन्न इव माधवम ततॊ ऽपरेण भल्लेन हृद्य एनं समताडयत ॥ 24 ॥
स युद्धे युयुधानेन हताश्वॊ हतसारथिः कृतवर्मा कृतास्त्रेण धरणीम अन्वपद्यत ॥ 25 ॥
तस्मिन सात्यकिना वीरे दवैरथे विरथी कृते समपद्यत सर्वेप्षां सैन्यानां सुमहद भयम ॥ 26 ॥
पुत्रस्य तव चात्यर्थं विषादः समपद्यत हतसूते हताश्वे च विरथे कृतवर्मणि ॥ 27 ॥
हताश्वं च समालक्ष्य हतसूतम अरिंदमम अभ्यधावत कृपॊ राजञ जिघांसुः शिनिपुंगवम ॥ 28 ॥
तम आरॊप्य रथॊपस्थे मिषतां सर्वधन्विनाम अपॊवाह महाबाहुस तूर्णम आयॊधनाद अपि ॥ 29 ॥
शैनेये ऽधिष्ठिते राजन विरथे कृतवर्मणि दुर्यॊधन बलं सर्वं पुनर आसीत पराङ्मुखम ॥ 30 ॥
तत्परे नावबुध्यन्त सैन्येन रजसावृते तावकाः परद्रुता राजन दुर्यॊधनम ऋते नृपम ॥ 31 ॥
दुर्यॊधनस तु संप्रेक्ष्य भग्नं सवबलम अन्तिकात जवेनाभ्यपतत तूर्णं सर्वांश चैकॊ नयवारयत ॥ 32 ॥
पाण्डूंश च सर्वान संक्रुद्धॊ धृष्टद्युम्नं च पार्षतम शिखण्डिनं दरौपदेयान पाञ्चालानां च ये गणाः ॥ 33 ॥
केकयान सॊमकांश चैव पाञ्चालांश चैव मारिष असंभ्रमं दुराधर्षः शितैर अस्त्रैर अवारयत ॥ 34 ॥
अतिष्ठद आहवे यत्तः पुत्रस तव महाबलः यथा यज्ञे महान अग्निर मत्र पूतः परकाशयन ॥ 35 ॥
तं परे नाभ्यवर्तन्त मर्त्या मृत्युम इवाहवे अथान्यं रथम आस्थाय हार्दिक्यः समपद्यत ॥ 36 ॥
शल्यपर्व · Shalya Parva
अध्याय 20
Reach this point to mark the section finished.
Continue to अध्याय 21