धर्मDharmic Data

शल्यपर्व · Shalya Parva

अध्याय 19

  1. [स] संनिवृत्ते बलौघे तु शाल्वॊ मलेच्छ गणाधिपः अभ्यवर्तत संक्रुद्धः पाण्डूनां सुमहद बलम ॥ 1 ॥

  2. आस्थाय सुमहानागं परभिन्नं पर्वतॊपमम दृप्तम ऐरावत परख्यम अमित्रगणमर्दनम ॥ 2 ॥

  3. यॊ ऽसौ महाभद्र कुलप्रसूतः; सुपूजितॊ धार्तराष्ट्रेण नित्यम सुकल्पितः शास्त्रविनिश्चयज्ञैः; सदॊपवाह्यः समरेषु राजन ॥ 3 ॥

  4. तम आस्थितॊ राजवरॊ बभूव; यथॊदयस्थः सविता कषपान्ते स तेन नागप्रवरेण राजन्न; अभ्युद्ययौ पाण्डुसुतान समन्तात शितैः पृषात्कैर विददार चापि; महेन्द्रवज्रप्रतिमैः सुघॊरैः ॥ 4 ॥

  5. ततः शरान वै सृजतॊ महारणे; यॊधांश च राजन नयतॊ यमाय नास्यान्तरं ददृशुः सवे परे वा; यथा पुरा वज्रधरस्य दैत्याः ॥ 5 ॥

  6. ते पाण्डवाः सॊमकाः सृञ्जयाश च; तम एव नागं ददृशुः समन्तात सहस्रशॊ वै विचरन्तम एकं; यथा महेन्द्रस्य गजं समीपे ॥ 6 ॥

  7. संद्राव्यमाणं तु बलं परेषां; परीतकल्पं विबभौ समन्तात नैवावतस्थे समरे भृशं भयाद; विमर्दमानं तु परस्परं तदा ॥ 7 ॥

  8. ततः परभग्ना सहसा महाचमूः; सा पाण्डवी तेन नराधिपेन दिशश चतस्रः सहसा परधाविता; गजेन्द्र वेगं तम अपारयन्ती ॥ 8 ॥

  9. दृष्ट्वा च तां वेगवता परभग्नां; सर्वे तवदीया युधि यॊधमुख्याः अपूजयंस तत्र नराधिपं तं; दध्मुश च शङ्खाञ शशिसंनिकाशान ॥ 9 ॥

  10. शरुत्वा निनादं तव अथ कौरवाणां; हर्षाद विमुक्तं सह शङ्खशब्दैः सेनापतिः पाण्डव सृञ्जयानां; पाञ्चाल पुत्रॊ न ममर्ष रॊषात ॥ 10 ॥

  11. ततस तु तं वै दविरदं महात्मा; परत्युद्ययौ तवरमाणौ जयाय जम्भॊ यथा शक्रसमागमे वै; नागेन्द्रम ऐरावणम इन्द्र वाह्यम ॥ 11 ॥

  12. तम आपतन्तं सहसा तु दृष्ट्वा; पाञ्चालराजं युधि राजसिंहः तं वै दविपं परेषयाम आस तूर्णं; वधाय राजन दरुपदात्मजस्य ॥ 12 ॥

  13. स तं दविपं सहसाभ्यापतन्तम; अविध्यद अर्कप्रतिमैः पृषत्कैः कर्मार धौतैर निशितैर जवलद्भिर; नाराचमुख्यैस तरिभिर उग्रवेगैः ॥ 13 ॥

  14. ततॊ ऽपरान पञ्च शितान महात्मा; नाराचमुख्यान विससर्ज कुम्भे स तैस तु विद्धः परमद्विपॊ रणे; तदा परावृत्य भृशं परदुद्रुवे ॥ 14 ॥

  15. तं नागराजं सहसा परणुन्नं; विद्राव्यमाणं च निगृह्य शाल्वः तॊत्त्राङ्कुशैः परेषयाम आस तूर्णं; पाञ्चालराजस्य रथं परदिश्य ॥ 15 ॥

  16. दृष्ट्वापतन्तं सहसा तु नागं; धृष्टद्युम्नः सवरथाच छीघ्रम एव गदां परगृह्याशु जवेन वीरॊ; भूमिं परपन्नॊ भयविह्वलाङ्गः ॥ 16 ॥

  17. स तं रथं हेमविभूषिताङ्गं; साश्वं ससूतं सहसा विमृद्य उत्क्षिप्य हस्तेन तदा महाद्विपॊ; विपॊथयाम आस वसुंधरा तले ॥ 17 ॥

  18. पाञ्चालराजस्य सुतं स दृष्ट्वा; तदार्दितं नागवरेण तेन तम अभ्यधावत सहसा जवेन; भीमः शिखण्डी च शिनेश च नप्ता ॥ 18 ॥

  19. शरैश च वेगं सहसा निगृह्य; तस्याभितॊ ऽभयापततॊ गजस्य स संगृहीतॊ रथिभिर गजॊ वै; चचाल तैर वार्यमाणश च संख्ये ॥ 19 ॥

  20. ततः पृषत्कान परववर्ष राजा; सूर्यॊ यथा रश्मिजालं समन्तात तेनाशुगैर वध्यमाना रथौघाः; परदुद्रुवुस तत्र ततस तु सर्वे ॥ 20 ॥

  21. तत कर्मशाल्वस्य समीक्ष्य सर्वे; पाञ्चाल मत्स्या नृप सृञ्जयाश च हाहाकारैर नादयन्तः सम युद्धे; दविपं समन्ताद रुरुधुर नराग्र्याः ॥ 21 ॥

  22. पाञ्चालराजस तवरितस तु शूरॊ; गदां परगृह्याचलशृङ्गकल्पाम असंभ्रमं भारत शत्रुघाती; जवेन विरॊ ऽनुससार नागम ॥ 22 ॥

  23. ततॊ ऽथ नागं धरणीधराभं; मदं सरवन्तं जलदप्रकाशम गदां समाविध्य भृशं जघान; पाञ्चालराजस्य सुतस तरस्वी ॥ 23 ॥

  24. स भिन्नकुन्भः सहसा विनद्य; मुखात परभूतं कषतजं विमुञ्चन पपात नागॊ धरणीधराभः; कषितिप्रकम्पाच चलितॊ यथाद्रिः ॥ 24 ॥

  25. निपात्यमाने तु तदा गजेन्द्रे; हाहाकृते तव पुत्रस्य सैन्ये स शाल्वराजस्य शिनिप्रवीरॊ; जहार भल्लेन शिरः शितेन ॥ 25 ॥

  26. हृतॊत्तमाङ्गॊ युधि सात्वतेन; पपात भूमौ सह नागरज्ञा यथाद्रिशृङ्गं सुमहत परणुन्नं; वज्रेण देवाधिप चॊदितेन ॥ 26 ॥

Reach this point to mark the section finished.

Continue to अध्याय 20

Previous: अध्याय 18