[ज] एवं निपतिते कर्णे समरे सव्यसाचिना अल्पावशिष्टाः कुरवः किमकुर्वत वै दविज ॥ 1 ॥
उदीर्यमाणं च बलं दृष्ट्वा राजा सुयॊधनः पाण्डवैः पराप्तकालं च किं परापद्यत कौरवः ॥ 2 ॥
एतद इच्छाम्य अहं शरॊतुं तद आचक्ष्व दविजॊत्तम न हि तृप्यामि पूर्वेषां शृण्वानश चरितं महत ॥ 3 ॥
[वै] ततः कर्णे हते राजन धार्तराष्ट्रः सुयॊधनः भृशं शॊकार्णवे मग्नॊ निराशः सर्वतॊ ऽभवत ॥ 4 ॥
हा कर्ण हा कर्ण इति शॊचमानः पुनः पुनः कृच्छ्रात सवशिबिरं परायाद धतशेषैर नृपैः सह ॥ 5 ॥
स समाश्वास्यमानॊ ऽपि हेतुभिः शास्त्रनिश्चितैः राजभिर नालभच छर्म सूतपुत्र वधं समरन ॥ 6 ॥
स दिवं बलवन मत्वा भवितव्यं च पार्थिवः संग्रामे निश्चयं कृत्वा पुनर युद्धाय निर्ययौ ॥ 7 ॥
शल्यं सेनापतिं कृत्वा विधिवद राजपुंगवः रणायनिर्ययौ राजा हतशेषैर नृपैः सह ॥ 8 ॥
ततः सुतुमुलं युद्धं कुरुपाण्डवसेनयॊः बभूव भरतश्रेष्ठ देवासुररणॊपमम ॥ 9 ॥
ततः शल्यॊ महाराज कृत्वा कदनम आहवे पाण्डुसैन्यस्य मध्याह्ने धर्मराजेन पातितः ॥ 10 ॥
ततॊ दुर्यॊधनॊ राजा हतबन्धू रणाजिरात अपसृत्य हरदं घॊरं विवेश रिपुजाद भयात ॥ 11 ॥
अथापराह्णे तस्याह्नः परिवार्य महारथैः हरदाद आहूय यॊगेन भीमसेनेन पातितः ॥ 12 ॥
तस्मिन हते महेष्वासे हतशिष्टास तरयॊ रथाः संरभान निशि राजेन्द्र जघ्नुः पाञ्चाल सैनिकान ॥ 13 ॥
ततः पूर्वाह्णसमये शिबिराद एत्य संजयः परविवेश पुरीं दीनॊ दुःखशॊकसमन्वितः ॥ 14 ॥
परविश्य च पुरं तूर्णं भुजाव उच्छ्रित्य दुःखितः वेपमानस ततॊ राज्ञः परविवेश निवेशनम ॥ 15 ॥
रुरॊद च नरव्याघ्र हा राजन्न इति दुःखितः अहॊ बत विविग्नाः सम निधनेन महात्मनः ॥ 16 ॥
अहॊ सुबलवान कालॊ गतिश च परमा तथा शक्रतुल्यबलाः सर्वे यत्रावध्यन्त पार्थिवाः ॥ 17 ॥
दृष्ट्वैव च पुरॊ राजञ जनः सार्वः स संजयम पररुरॊद भृशॊद्विग्नॊ हा राजन्न इति सस्वरम ॥ 18 ॥
आकुमारं नरव्याघ्र तत पुरं वै समन्ततः आर्तनादं महच चक्रे शरुत्वा विनिहतं नृपम ॥ 19 ॥
धावतश चाप्य अपश्यच च तत्र तरीन पुरुषर्षभान नष्टचित्तान इवॊन्मत्ताञ शॊकेन भृशपीडितान ॥ 20 ॥
तथा स विह्वलः सूतः परविश्य नृपतिक्षयम ददर्श नृपतिश्रेष्ठं परज्ञा चक्षुषम ईश्वरम ॥ 21 ॥
दृष्ट्वा चासीनम अनघं समन्तात परिवारितम सनुषाभिर भरतश्रेष्ठ गान्धार्या विदुरेण च ॥ 22 ॥
तथान्यैश च सुहृद्भिश च जञातिभिश च हितैषिभिः तम एव चार्थं धयायन्तं कर्णस्य निधनं परति ॥ 23 ॥
रुदन्न एवाब्रवीद वाक्यं राजानं जनमेजय नातिहृष्टमनाः सूतॊ बाष्पसंदिग्धया गिरा ॥ 24 ॥
संजयॊ ऽयं नरव्याघ्र नमस ते भरतर्षभ अद्राधिपॊ हतः शल्यः शकुनिः सौबलस तथा उलूकः पुरुषव्याघ्र कैतव्यॊ दृढविक्रमः ॥ 25 ॥
संशप्तका हताः सर्वे काम्बॊजाश च शकैः सह मलेच्छाश च पार्वतीयाश च यवनाश च निपातिताः ॥ 26 ॥
पराच्या हता महाराज दाक्षिणात्याश च सर्वशः उदीच्या निहताः सर्वे परतीच्याश च नराधिप राजानॊ राजपुत्राश च सर्वतॊ निहता नृप ॥ 27 ॥
दुर्यॊधनॊ हतॊ राजन यथॊक्तं पाण्डवेन च भग्नसक्थॊ महाराज शेते पांसुषु रूषितः ॥ 28 ॥
धृष्टद्द्युम्नॊ हतॊ राजञ शिखाण्डी चापराजितः उत्तमौजा युधामन्युस तथा राजन परभद्रकाः ॥ 29 ॥
पाञ्चालाश च नरव्याघ्राश चेदयश च निषूदिताः तव पुत्रा हताः सर्वे दरौपदेयाश च भारत कर्ण पुत्रॊ हतः शूरॊ वृषा सेनॊ महाबलः ॥ 30 ॥
नरा विनिहताः सर्वे गजाश च विनिपातिताः रथिनश च नरव्याघ्र हयाश च निहता युधि ॥ 31 ॥
किं चिच छेषं च शिबिरं तावकानां कृतं विभॊ पाण्डवानां च शूराणां समासाद्य परस्परम ॥ 32 ॥
परायः सत्री शेषम अभवज जगत कालेन मॊहितम साप्त पाण्डवतः शेषा धार्तराष्ट्रास तथा तरयः ॥ 33 ॥
ते चैव भरातरः पञ्च वासुदेवॊ ऽथ सात्यकिः कृपश च कृतवर्मा च दरौणिश च जयतां वरः ॥ 34 ॥
तवाप्य एते महाराज रथिनॊ नृपसत्तम अक्षौहिणीनां सर्वासां समेतानां जनेश्वर एते शेषा महाराज सर्वे ऽनये निधनं गताः ॥ 35 ॥
कालेन निहतं सर्वं जगद वै भरतर्षभ दुर्यॊधनं वै पुरतः कृत्वा वैरस्य भारत ॥ 36 ॥
एतच छरुत्वा वचः करूरं धृतराष्ट्रॊ जनेश्वरः निपपात महाराज गतसत्त्वॊ महीतले ॥ 37 ॥
तस्मिन निपतिते भूमौ विदुरॊ ऽपि महायशाः निपपात महाराज राजव्यसनकर्शितः ॥ 38 ॥
गान्धारी च नृपश्रेष्ठ सर्वाश च कुरु यॊषितः पतिताः सहसा भूमौ शरुत्वा करूरं वचश च ताः ॥ 39 ॥
निःसंज्ञं पतितं भूमौ तदासीद राजमण्डलम परलाप युक्ता महती कथा नयस्ता पटे यथा ॥ 40 ॥
कृच्छ्रेण तु ततॊ राजा धृतराष्ट्रॊ महीपतिः शनैर अलभत पराणान पुत्रव्यसनकर्शितः ॥ 41 ॥
लब्ध्वा तु स नृपः संज्ञां वेपमानः सुदुःखितः उदीक्ष्य च दिशः सर्वाः कषत्तारं वाक्यम अब्रवीत ॥ 42 ॥
विद्वन कषत्तर महाप्राज्ञ तवं गतिर भरतर्षभ ममानाथस्य सुभृशं पुत्रैर हीनस्य सर्वशः एवम उक्त्वा ततॊ भूयॊ विसंज्ञॊ निपपात ह ॥ 43 ॥
तं तथा पतितं दृष्ट्वा बान्धवा ये ऽसय के चन शीतैस तु सिषिचुस तॊयैर विव्यजुर वयजनैर अपि ॥ 44 ॥
स तु दीर्घेण कालेन परत्याश्वस्तॊ महीपतिः तूष्णीं दध्यौ महीपालः पुत्रव्यसनकर्शितः निःश्वसञ जिह्मग इव कुम्भक्षिप्तॊ विशां पते ॥ 45 ॥
संजयॊ ऽपय अरुदत तत्र दृष्ट्वा राजानम आतुरम तथा सर्वाः सत्रियश चैव गान्धारी च यशस्विनी ॥ 46 ॥
ततॊ दीर्घेण कालेन विदुरं वाक्यम अब्रवीत धृतराष्ट्रॊ नरव्याघ्रॊ मुह्यमानॊ मुहुर मुहुः ॥ 47 ॥
गच्छन्तु यॊषितः सर्वा गान्धारी च यशस्विनी तथेमे सुहृदः सर्वे भरश्यते मे मनॊ भृशम ॥ 48 ॥
एवम उक्तस ततः कषत्ता ताः सत्रियॊ भरतर्षभ विसर्जयाम आस शनैर वेपमानः पुनः पुनः ॥ 49 ॥
निश्चक्रमुस ततः सर्वास ताः सत्रियॊ भरतर्षभ सुहृदश च ततः सर्वे दृष्ट्वा राजानम आतुरम ॥ 50 ॥
ततॊ नरपतिं तत्र लब्धसंज्ञं परंतप अवेक्ष्य संजयॊ दीनॊ रॊदमानं भृशातुरम ॥ 51 ॥
पराञ्जलिर निःश्वसन्तं च तं नरेन्द्रं मुहुर मुहुः समाश्वासयत कषत्ता वचसा मधुरेण ह ॥ 52 ॥
शल्यपर्व · Shalya Parva
अध्याय 1
Reach this point to mark the section finished.
Continue to अध्याय 2