[स] पातिते युधि दुर्धर्षॊ मद्रराजे महारथे तावकास तव पुत्राश च परायशॊ विमुखाभवन ॥ 1 ॥
वणिजॊ नावि भिन्नायां यथागाधे ऽपलवे ऽरणवे अपारे पारम इच्छन्तॊ हते शूरे महात्मनि ॥ 2 ॥
मद्रराजे महाराज वित्रस्ताः शरविक्षताः अनाथा नाथम इच्छन्तॊ मृगाः सिंहार्दिता इव ॥ 3 ॥
वृषा यथा भग्नशृङ्गाः शीर्णदन्ता गजा इव मध्याह्ने परत्यपायाम निर्जिता धर्मसूनुना ॥ 4 ॥
न संधातुम अनीकानि न च राजन पराक्रमे आसीद बुद्धिर हते शल्ये तव यॊधस्य कस्य चित ॥ 5 ॥
भीष्मे दरॊणे च निहते सूतपुत्रे च भारत यद दुःखं तव यॊधानां भयं चासीद विशां पते तद्भयं स च नः शॊकॊ भूय एवाभ्यवर्तत ॥ 6 ॥
निरशाश च जये तस्मिन हते शल्ये महारथे हतप्रवीरा विध्वस्ता विकृत्ताश च शितैः शरैः मद्रराजे हते राजन यॊधास ते पराद्रवन भयात ॥ 7 ॥
अश्वान अन्ये गजान अन्ये रथान अन्ये महारथाः आरुह्य जवसंपन्नाः पादाताः पराद्रवन भयात ॥ 8 ॥
दविसाहस्राश च मातङ्गा गिरिरूपाः परहारिणः संप्राद्रवन हते शल्ये अङ्कुशाङ्गुष्ठ चॊदिताः ॥ 9 ॥
ते रणाद भरतश्रेष्ठ तावकाः पराद्रवन दिशः धावन्तश चाप्य अदृश्यन्त शवसमानाः शरातुलाः ॥ 10 ॥
तान परभग्नान दरुतान दृष्ट्वा हतॊत्साहान पराजितान अभ्यद्रवन्त पाञ्चालाः पाण्डवाश च जयैषिणः ॥ 11 ॥
बाणशब्दरवश चापि सिंहनादश च पुष्कलः शङ्खशब्दश च शूराणां दारुणः समपद्यत ॥ 12 ॥
दृष्ट्वा तु कौरवं सैन्यं भयत्रस्तं परविद्रुतम अन्यॊन्यं समभाषन्त पाञ्चालाः पाण्डवैः सह ॥ 13 ॥
अद्य राजा सत्यधृतिर जितामित्रॊ युधिष्ठिरः अद्य दुर्यॊधनॊ हीना दीप्तया नृपतिश्रिया ॥ 14 ॥
अद्य शरुत्वा हतं पुत्रं धृतराष्ट्रॊ जनेश्वरः निःसंज्ञः पतितॊ भूमौ किल्बिषं परतिपद्यताम ॥ 15 ॥
अद्य जानातु कौन्तेयं समर्थं सर्वधन्विनाम अद्यात्मानं च दुर्मेधा गर्हयिष्यति पापकृत अद्य कषत्तुर वचः सत्यं समरतां बरुवतॊ हितम ॥ 16 ॥
अद्य परभृति पार्थांश च परेष्यभूत उपाचरन विजानातु नृपॊ दुःखं यत पराप्तं पाण्डुनन्दनैः ॥ 17 ॥
अद्य कृष्णस्य माहात्म्यं जानातु स महीपतिः अद्यार्जुन धनुर घॊषं घॊरं जानातु संयुगे ॥ 18 ॥
अस्त्राणां च बलं सर्वं बाह्वॊश च बलम आहवे अद्य जञास्यति भीमस्य बलं घॊरं महात्मनः ॥ 19 ॥
हते दुर्यॊधने युद्धे शक्रेणेवासुरे मये यत्कृतं भीमसेनेन दुःखासन वधे तदा नान्यः कर्तास्ति लॊके तद ऋते भीमं महाबलम ॥ 20 ॥
जानीताम अद्य जयेष्ठस्य पाण्डवस्य पराक्रमम मद्रराजं हतं शरुत्वा देवैर अपि सुदुःसहम ॥ 21 ॥
अद्य जञास्यति संग्रामे माद्रीपुत्रौ महाबलौ निहते सौबले शूरे गान्धारेषु च सर्वशः ॥ 22 ॥
कथं तेषां जयॊ न सयाद येषां यॊद्धा धनंजयः सात्यकिर भीमसेनश च धृष्टद्युम्नश च पार्षतः ॥ 23 ॥
दरौपद्यास तनयाः पञ्च माद्रीपुत्रौ च पाण्डवौ शिखण्डी च महेष्वासॊ राजा चैव युधिष्ठिरः ॥ 24 ॥
येषां च जगतां नाथॊ नाथः कृष्णॊ जनार्दनः कथं तेषां जयॊ न सयाद येषां धर्मॊ वयपाश्रयः ॥ 25 ॥
भीष्मं दरॊणं च कर्णं च मद्रराजानम एव च तहान्यन नृपतीन वीराञ शतशॊ ऽथ सहस्रशः ॥ 26 ॥
कॊ ऽनयः शक्तॊ रणे जेतुम ऋते पार्थं युधिष्ठिरम यस्य नाथॊ हृषीकेशः सदा धर्मयशॊ निधिः ॥ 27 ॥
इत्य एवं वदमानास ते हर्षेण महता युताः परभग्नांस तावकान राजन सृञ्जयाः पृष्ठतॊ ऽनवयुः ॥ 28 ॥
धनंजयॊ रथानीकम अभ्यवर्तत वीर्यवान माद्रीपुत्रौ च शकुनिं सात्यकिश च महारथः ॥ 29 ॥
तान परेक्ष्य दरवतः सर्वान भीमसेनभयार्दितान दुर्यॊधनस तदा सूतम अब्रवीद उत्स्मयन्न इव ॥ 30 ॥
न मातिक्रमते पार्थॊ धनुष्पाणिम अवस्थितम जघने सर्वसैन्यानां ममाश्वान परतिपादय ॥ 31 ॥
जघने युध्यमानं हि कौन्तेयॊ मां धनंजयः नॊत्सहेताभ्यतिक्रान्तुं वेलाम इव महॊदधिः ॥ 32 ॥
पश्य सैन्यं महत सूत पाण्डवैः समभिद्रुतम सैन्यरेणुं समुद्धूतं पश्यस्वैनं समन्ततः ॥ 33 ॥
सिंहनादांश च बहुशः शृणु घॊरान भयानकान तस्माद याहि शनैः सूत जघनं परिपालय ॥ 34 ॥
मयि सथिते च समरे निरुद्धेषु च पाण्डुषु पुनरावर्तते तूर्णं मामकं बलम ओजसा ॥ 35 ॥
तच छरुत्वा तव पुत्रस्य शूराग्र्य सदृशं वचः सारथिर हेमसंछन्नाञ शनैर अश्वान अचॊदयत ॥ 36 ॥
गजाश्वरथिभिर हीनास तयक्तात्मानः पदातयः एकविंशतिसाहस्राः संयुगायावतस्थिरे ॥ 37 ॥
नानादेशसमुद्भूता नान रञ्जित वाससः अवस्थितास तदा यॊधाः परार्थयन्तॊ महद यशः ॥ 38 ॥
तेषाम आपततां तत्र संहृष्टानां परस्परम संमर्दः सुमहाञ जज्ञे घॊररूपॊ भयानकः ॥ 39 ॥
भीमसेनं तदा राजन घृष्टद्युम्नं च पार्षतम बलेन चतुरङ्गेण नानादेश्या नयवारयन ॥ 40 ॥
भीमम एवाभ्यवर्तन्त रणे ऽनये तु पदातयः परक्ष्वेड्यास्फॊट्य संहृष्टा वीरलॊकं यियासवः ॥ 41 ॥
आसाद्य भीमसेनं तु संरब्धा युद्धदुर्मदाः धार्तराष्ट्रा विनेदुर हि नान्यां चाकथयन कथाम परिवार्य रणे भीमं निजघ्नुर ते समन्ततः ॥ 42 ॥
स वध्यमानः समरे पदातिगणसंवृतः न चचाल रथॊपस्थे मैनाक इव पर्वतः ॥ 43 ॥
ते तु करुद्धा महाराज पाण्डवस्य महारथम निग्रहीतुं परचक्रुर हि यॊधांश चान्यान अवारयन ॥ 44 ॥
अक्रुध्यत रणे भीमस तैस तदा पर्यवस्थितैः सॊ ऽवतीर्य रथात तूर्णं पदातिः समवस्थितः ॥ 45 ॥
जातरूपपरिच्छन्नां परगृह्य महतीं गदाम अवधीत तावकान यॊधान दण्डपाणिर इवान्तकः ॥ 46 ॥
रथाश्वद्विपहीनांस तु तान भीमॊ गदया बली एकविंशतिसाहस्रान पदातीन अवपॊथयत ॥ 47 ॥
हत्वा तत पुरुषानीकं भीमः सत्यपराक्रमः धृष्टद्युम्नं पुरस्कृत्य नचिरात परत्यदृश्यत ॥ 48 ॥
पादाता निहता भूमौ शिश्यिरे रुधिरॊक्षिताः संभग्ना इव वातेन कर्णिकाराः सुपुष्पिताः ॥ 49 ॥
नानापुष्पस्रजॊपेता नाना कुण्डलधारिणः नाना जात्या हतास तत्र नादा देशसमागताः ॥ 50 ॥
पताकाध्वजसंछन्नं पदातीनां महद बलम निकृत्तं विबभौ तत्र घॊररूपं भयानकम ॥ 51 ॥
युधिष्ठिरपुरॊगास तु सर्वसैन्यमहारथाः अभ्यधावन महात्मानं पुत्रं दुर्यॊधनं तव ॥ 52 ॥
ते सर्वे तावकान दृष्ट्वा महेष्वासान पराङ्मुखान नाभ्यवर्तन्त ते पुत्रं वेलेव मकलालयम ॥ 53 ॥
तद अद्भुतम अपश्याम तव पुत्रस्य पौरुषम यद एकं सहिताः पार्था न शेकुर अतिवर्तितुम ॥ 54 ॥
नातिदूरापयातं तु कृतबुद्धिं पलायने दुर्यॊधनः सवकं सैन्यम अब्रवीद भृशविक्षतम ॥ 55 ॥
न तं देशं परपश्यामि पृथिव्यां पर्वतेषु वा यत्र यातान न वॊ हन्युः पाण्डवाः किं सृतेन वः ॥ 56 ॥
अल्पं च बलम एतेषां कृष्णौ च भृशविक्षतौ यदि सर्वे ऽतर तिष्ठामॊ धरुवॊ नॊ विजयॊ भवेत ॥ 57 ॥
विप्रयातांस तु वॊ भिन्नान पाण्डवाः कृतकिल्बिषान अनुसृत्य हनिष्यन्ति शरेयॊ नः समरे सथितम ॥ 58 ॥
शृणुध्वं कषत्रियाः सर्वे यावन्तः सथ समागताः यदा शूरं च भीरुं च मारयत्य अन्तकः सदा कॊ नु मूढॊ न युध्येत पुरुषः कषत्रिय बरुवः ॥ 59 ॥
शरेयॊ नॊ भीमसेनस्य करुद्धस्य परमुखे सथितम सुखः सांग्रामिकॊ मृत्युः कषत्रधर्मेण युध्यताम जित्वेह सुखम आप्नॊति हतः परेत्य महत फलम ॥ 60 ॥
न युद्धधर्माच छरेयान वै पन्थाः सवर्गस्य कौरवाः अचिरेण जिताँल लॊकान हतॊ युद्धे समश्नुते ॥ 61 ॥
शरुत्वा तु वचनं तस्य पूजयित्वा च पार्थिवाः पुनर एवान्ववर्तन्त पाण्डवान आततायिनः ॥ 62 ॥
तान आपतत एवाशु वयूढानीकाः परहारिणः परत्युद्ययुस तदा पार्था जय गृध्राः परहारिणः ॥ 63 ॥
धनंजयॊ रथेनाजाव अभ्यवर्तत वीर्यवान विश्रुतं तरिषु लॊकेषु गाण्डीवं विक्षिपन धनुः ॥ 64 ॥
माद्रीपुत्रौ च शकुनिं सात्यकिश च महाबलः जवेनाभ्यपतन हृष्टा यतॊ वै तावकं बलम ॥ 65 ॥
शल्यपर्व · Shalya Parva
अध्याय 18
Reach this point to mark the section finished.
Continue to अध्याय 19