[स] शल्ये तु निहते राजन मद्रराजपदानुगाः रथाः सप्तशता वीरा निर्ययुर महतॊ बलात ॥ 1 ॥
दुर्यॊधनस तु दविरदम आरुह्याचलसंनिभम छत्त्रेण धरियमाणेन वीज्यमानश च चामरैः न गन्तव्यं न गन्तव्यम इति मद्रान अवारयत ॥ 2 ॥
दुर्यॊधनेन ते वीरा वार्यमाणाः पुनः पुनः युधिष्ठिरं जिघांसन्तः पाण्डूनां पराविशन बलम ॥ 3 ॥
ते तु शूरा महाराज कृतचित्ताः सम यॊधने धनुः शब्दं महत कृत्वा सहायुध्यन्त पाण्डवैः ॥ 4 ॥
शरुत्वा तु निहतं शल्यं धर्मपुत्रं च पीडितम मद्रराजप्रिये युक्तैर मद्रकाणां महारथैः ॥ 5 ॥
आजगाम ततः पार्थॊ गाण्डीवं विक्षिपन धनुः पूरयन रथघॊषेण दिशः सर्वा महारथः ॥ 6 ॥
ततॊ ऽरजुनश च भीमश च माद्रीपुत्रौ च पाण्डवौ सात्यकिश च नरव्याघ्रॊ दरौपदेयाश च सर्वशः ॥ 7 ॥
धृष्टद्युम्नः शिखण्डी च पाञ्चालाः सह सॊमकैः युधिष्ठिरं परीप्सन्तः समन्तात पर्यवारयन ॥ 8 ॥
ते समन्तात परिवृताः पाण्डवैः पुरुषर्षभाः कषॊभयन्ति सम तां सेनां मकराः सागरं यथा ॥ 9 ॥
पुरॊ वातेन गङ्गेव कषॊभ्यमाना महानदी अक्षॊभ्यत तदा राजन पाण्डूनां धवजिनी पुनः ॥ 10 ॥
परस्कन्द्य सेनां महतीं तयक्तात्मानॊ महारथाः वृक्षान इव महावाताः कम्पयन्ति सम तावकाः ॥ 11 ॥
बहवश चुक्रुशुस तत्र कव स राजा युधिष्ठिरः भरातरॊ वास्य ते शूरा दृश्यन्ते न ह के चन ॥ 12 ॥
पाञ्चालानां महावीर्याः शिखण्डी च महारथः धृष्टद्युम्नॊ ऽथ शैनेयॊ दरौपदेयाश च सर्वशः ॥ 13 ॥
एवं तान वादिनः शूरान दरौपदेया महारथाः अह्यघ्नन युयुधानश च मद्रराजपदानुगान ॥ 14 ॥
चक्रैर विमथितैः के चित के चिच छिन्नैर मह धवजैः परत्यदृश्यन्त समरे तावका निहताः परैः ॥ 15 ॥
आलॊक्य पाण्डवान युद्धे यॊधा राजन समन्ततः वार्यमाणा ययुर वेगात तव पुत्रेण भारत ॥ 16 ॥
दुर्यॊधनस तु तान वीरान वारयाम आस सान्त्वयन न चास्य शासनं कश चित तत्र चक्रे महारथः ॥ 17 ॥
ततॊ गान्धारराजस्य पुत्रः शकुनिर अब्रवीत दुर्यॊधनं महाराज वचनं वचनक्षमः ॥ 18 ॥
किं नः संप्रेक्षमाणानां मद्राणां हन्यते बलम न युक्तम एतत समरे तवयि तिष्ठति भारत ॥ 19 ॥
सहितैर नाम यॊद्धव्यम इत्य एषा समयः कृतः अथ कस्मात परान एव घनतॊ मर्षयसे नृप ॥ 20 ॥
[दुर] वार्यमाणा मया पूर्वं नैते चक्रुर वचॊ मम एते हि निहताः सर्वे परस्कन्नाः पाण्डुवाहिनीम ॥ 21 ॥
[षकुनि] न भर्तुः शासनं वीरा रणे कुर्वन्त्य अमर्षिताः अलं करॊद्धुं तथैतेषां नायं काल उपेक्षितुम ॥ 22 ॥
यामः सर्वे ऽतर संभूय सवाजिरथकुञ्जराः परित्रातुं महेष्वासान मद्रराजपदानुगान ॥ 23 ॥
अन्यॊन्यं परिरक्षामॊ यत्नेन महता नृप एवं सर्वे ऽनुसंचिन्त्य परययुर यत्र सैनिकाः ॥ 24 ॥
[स] एवम उक्तस ततॊ राजा बलेना महता वृतः परययौ सिंहनादेन कम्पयन वै वसुंधराम ॥ 25 ॥
हतविध्यत गृह्णीत परहरध्वं निकृन्तत इत्य आसीत तुमुलः शब्दस तव सैन्यस्य भारत ॥ 26 ॥
पाण्डवास तु रणे दृष्ट्वा मद्रराजपदानुगान सहितान अभ्यवर्तन्त गुल्मम आस्थाय मध्यमम ॥ 27 ॥
ते मुहूर्ताद रणे वीरा हस्ताहस्तं विशां पते निहताः परत्यदृश्यन्त मद्रराजपदानुगाः ॥ 28 ॥
ततॊ नः संप्रयातानां हतामित्रास तरस्विनः हृष्टाः किलकिला शब्दम अकुर्वन सहिताः परे ॥ 29 ॥
अथॊत्थितानि रुण्डानि समदृश्यन्त सर्वशः पपात महती चॊल्का मध्येनाधित्य मण्डलम ॥ 30 ॥
रथैर भग्नैर युगाक्षैश च निहतैश च महारथैः अश्वैर निपतितैश चैव संछन्नाभूद वसुंधरा ॥ 31 ॥
वातायमानैस तुरगैर युगासक्तैस तुरंगमैः अदृश्यन्त महाराज यॊधास तत्र रणाजिरे ॥ 32 ॥
भग्नचक्रान रथान के चिद अवहंस तुरगा रणे रथार्थं के चिद आदाय दिशॊ दशविबभ्रमुः तत्र तत्र च दृश्यन्ते यॊक्त्रैः शलिष्टाः सम वाजिनः ॥ 33 ॥
रथिनः पतमानाश च वयदृश्यन्त नरॊत्तम गगनात परच्युताः सिद्धाः पुण्यानाम इव संक्षये ॥ 34 ॥
निहतेषु च शूरेषु मद्रराजानुगेषु च अस्मान आपततश चापि दृष्ट्वा पार्थ महारथाः ॥ 35 ॥
अभ्यवर्तन्त वेगेन जय गृध्राः परहारिणः बाणशब्दरवान कृत्वा विमिश्राञ शङ्खनिस्वनैः ॥ 36 ॥
अस्मांस तु पुनर आसाद्य लब्धलक्षाः परहारिणः शरासनानि धुन्वानाः सिंहनादान परचुक्रुशुः ॥ 37 ॥
ततॊ हतम अभिप्रेक्ष्य मद्रराजबलं महत मद्रराजं च समरे दृष्ट्वा शूरं निपातितम दुर्यॊधन बलं सर्वं पुनर आसीत पराङ्मुखम ॥ 38 ॥
वध्यमानं महाराज पाण्डवैर जितकाशिभिः दिशॊ भेदे ऽथ संभ्रान्तं तरासितं दृढधन्विभिः ॥ 39 ॥
शल्यपर्व · Shalya Parva
अध्याय 17
Reach this point to mark the section finished.
Continue to अध्याय 18