[स] अथान्यद धनुर आदाय बलवद वेगवत्तरम युधिष्ठिरं मद्रपतिर विद्ध्वा सिंह इवानदत ॥ 1 ॥
ततः स शरवर्षेण पर्जन्य इव वृष्टिमान अभ्यवर्षद अमेयात्मा कषत्रियान कषत्रियर्षभः ॥ 2 ॥
सात्यकिं दशभिर विद्ध्वा भीमसेनं तरिभिः शरैः सहदेवं तरिभिर विद्ध्वा युधिष्ठिरम अपीडयत ॥ 3 ॥
तांस तान अन्यान महेष्वासान साश्वान सरथ कुञ्जरान कुञ्जरान कुञ्जरारॊहान अश्वान अश्वप्रयायिनः रथांश च रथिभिः सार्धं जघान रथिनां वरः ॥ 4 ॥
बाहूंश चिच्छेद च तथा सायुधान केतनानि च चकार च महीं यॊधैस तीर्णां वेदीं कुशैर इव ॥ 5 ॥
तथा तम अरिसैन्यानि घनन्तं मृत्युम इवान्तकम परिवव्रुर भृशं करुद्धाः पाण्डुपाञ्चाल सॊमकाः ॥ 6 ॥
तं भीमसेनश च शिनेश च नप्ता; माध्र्याश च पुत्रौ पुरुषप्रवीरौ समागतं भीमबलेन राज्ञा; पर्यापुर अन्यॊन्यम अथाह्वयन्तः ॥ 7 ॥
ततस तु शूराः समरे नरेन्द्रं; मद्रेश्वरं पराप्य युधां वरिष्ठम आवार्या चैनं समरे नृवीरा; जघ्नुः शरैः पत्रिभिर उग्रवेगैः ॥ 8 ॥
संरक्षितॊ भीमसेनेन राजा; माद्री सुताभ्याम अथ माधवेन मद्राधिपं पत्रिभिर उग्रवेगैः; सतनान्तरे धार्म सुतॊ निजघ्ने ॥ 9 ॥
ततॊ रणे तावकनां रथौघाः; सामीक्ष्य मद्राधिपतिं शरार्तम पर्यावव्रुः परवराः सर्वशश च; दुर्यॊधनस्यानुमते समन्तात ॥ 10 ॥
ततॊ दरुतं मद्रजनाधिपॊ रणे; युधिष्ठिरं सप्तभिर अभ्यविध्यत तं चापि पार्थॊ नवभिः पृषत्कैर; विव्याध राजंस तुमुले महात्मा ॥ 11 ॥
आकर्णपूर्णायत संप्रयुक्तैः; शरैस तदा संयति तैलधौतैः अन्यॊन्यम आच्छादयतां महारथौ; मद्राधिपश चापि युधिष्ठिरश च ॥ 12 ॥
ततस तु तूर्णं समरे महारथौ; परस्परस्यान्तरम ईक्षमाणौ शरैर भृशं विव्यधतुर नृपॊत्तमौ; महाबलौ शत्रुभिर अप्रधृष्यौ ॥ 13 ॥
तयॊर धनुर्ज्यातलनिस्वनॊ महान; महेन्द्रवज्राशनितुल्यनिस्वनः परस्परं बाणगणैर महात्मनॊः; परवर्षतॊर मद्रप पाण्डुवीरयॊः ॥ 14 ॥
तौ चेरतुर वयाघ्रशिशु परकाशौ; महावनेष्व आमिष गृद्धिनाव इव विषाणिनौ नागवराव इवॊभौ; ततक्षतुः संयुगजातदर्पौ ॥ 15 ॥
ततस तु मद्राधिपतिर महात्मा; युधिष्ठिरं भीमबलं परसह्य विव्याध वीरं हृदये ऽतिवेगं; शरेण सूर्याग्निसमप्रभेण ॥ 16 ॥
ततॊ ऽतिविद्धॊ ऽथ युधिष्ठिरॊ ऽपि; सुसंप्रयुक्तेन शरेण राजन जघान मद्राधिपतिं महात्मा; मुदं च लेभे ऋषभः कुरूणाम ॥ 17 ॥
ततॊ मुहूर्ताद इव पार्थिवेन्द्रॊ; लब्ध्वा संज्ञां करॊधा संरक्तनेत्रः शतेन पार्थं तवरितॊ जघान; सहस्रनेत्र परतिमप्रभावः ॥ 18 ॥
तवरंस ततॊ धर्मसुतॊ महात्मा; शल्यस्य करुद्धॊ नवभिः पृषत्कैः भित्त्वा हय उरस तपनीयं च वर्म; जघान षड्भिस तव अपरैः पृषात्कैः ॥ 19 ॥
ततस तु मद्राधिपतिः परहृष्टॊ; धनुर विकृष्य वयसृजत पृषत्कान दवाभ्यां कषुराभ्यां च तथैव राज्ञश; चिच्छेद चापं कुरुपुंगवस्य ॥ 20 ॥
नवं ततॊ ऽनयत सामरे परगृह्य; राजा धनुर घॊरतरं महात्मा शल्यं तु विद्ध्वा निशितैः समन्तद; यथा महेन्द्रॊ नमुचिं शिताग्रैः ॥ 21 ॥
ततस तु शल्यॊ नवभिः पृषत्कैर; भीमस्य राज्ञश च युधिष्ठिरस्य निकृत्य रौक्मे पटु वर्मणी तयॊर; विदारयाम आस भुजौ महात्मा ॥ 22 ॥
ततॊ ऽपरेण जवलितार्क तेजसा; कषुरेण राज्ञॊ धनुर उन्ममाथ कृपश च तस्यैव जघान सूतं; षड्भिः शरैः सॊ ऽभिमुखं पपात ॥ 23 ॥
मद्राधिपश चापि युधिष्ठिरस्य; शरैश चतुर्भिर निजघान वाहान वाहांश च हत्वा वयकरॊन महात्मा; यॊधक्षयं धर्मसुतस्य राज्ञः ॥ 24 ॥
तथा कृते राजनि भीमसेनॊ; मद्राधिपस्याशु ततॊ महात्मा छित्त्वा धनुर वेगवता शरेण; दवाभ्याम अविध्यत सुभृशं नरेन्द्रम ॥ 25 ॥
अथापरेणास्य जहार यन्तुः; कायाच छिरः संनहनीयमध्यात जघान चाश्वांश चतुरः स शीघ्रं; तथा भृशं कुपितॊ भीमसेनः ॥ 26 ॥
तम अग्रणीः सर्वधनुर्धराणाम; एकं चरन्तं सामरे ऽतिवेगम भीमः शतेन वयकिरच छराणां; माद्रीपुत्रः सहदेवस तथैव ॥ 27 ॥
तैः सायकैर मॊहितं वीक्ष्य शल्यं; भीमः शरैर अस्य चकर्त वर्म स भीमसेनेन निकृत्तवर्मा; मद्राधिपश चर्म सहस्रतारम ॥ 28 ॥
परगृह्य खड्गं च रथान महात्मा; परस्कन्द्य कुन्तीसुतम अभ्यधावत छित्त्व रथेषां नकुलस्य सॊ ऽथ; युधिष्ठिरं भीमबलॊ ऽबभ्यधावत ॥ 29 ॥
तं चापि राजानम अथॊत्पतन्तं; करुद्धां यथैवान्तकम आपतन्तम धृष्टद्युम्नॊ दरौपदेयाः शिखण्डी; शिनेश च नप्ता सहसा परीयुः ॥ 30 ॥
अथास्य चर्माप्रतिमं नयकृन्तद; भीमॊ महात्मा दशभिः पृषत्कः खड्गं च भल्लैर निचकर्त मुष्टौ; नदन परहृष्टस तव सिन्यमध्ये ॥ 31 ॥
तत कर्म भीमस्य समीक्ष्य हृष्टास; ते पाण्डवानां परवरा रथौघाः नादं च चक्रुर भृशम उत्स्मयन्तः; शङ्खांश च दध्मुः शशिसंनिकाशान ॥ 32 ॥
तेनाथ शब्देन विभीषणेन; तवाभितप्तं बलम अप्रहृष्टम सवेदाभिभूतं रुधिरॊक्षिताङ्गं; विसंज्ञकल्पं च तथा विषाण्णम ॥ 33 ॥
स मद्रराजः सहसावकीर्णॊ; भीमाग्रगैः पाण्डव यॊधमुख्यैः युधिष्ठिरस्याभिमुखं जवेन; सिंहॊ यथा मृगहेतॊः परयातः ॥ 34 ॥
स धर्मराजॊ निहताश्वसूतं; करॊधेन दीप्तज्वलन परकाशम दृष्ट्वा तु मद्राधिपतिं स तूर्णं; समभ्यधावत तम अरिं बलेन ॥ 35 ॥
गॊविन्द वाक्यं तवरितं विचिन्त्य; दध्रे मतिं शल्य विनाशनाय स धर्मराजॊ निहताश्वसूते; रथे तिष्ठञ शक्तिम एवाभिकाङ्क्षन ॥ 36 ॥
तच चापि शल्यस्या निशम्य कर्म; महात्मनॊ भगम अथावशिष्टम समृत्वा मानः शल्य वधे यतात्मा; यथॊक्तम इन्द्रावरजस्य चक्रे ॥ 37 ॥
स धर्मराजॊ मणिहेमदण्डां; जग्राह शक्तिं कनकप्रकाशाम नेत्रे च दीप्ते सहसा विवृत्य; मद्राधिपं करुद्धा मना निरैक्षत ॥ 38 ॥
निरीक्षितॊ वै नरदेव राज्ञा; पूतात्मना निर्हृत कल्मषेण अभून न यद भस्मसान मद्रराजस; तद अद्भुतं मे परतिभाति राजन ॥ 39 ॥
ततस तु शक्तिं रुचिरॊग्र दण्डां; मणिप्रवलॊज्ज्वलितां परदीप्ताम चिक्षेप वेगात सुभृशं महात्मा; मद्राधिपाय परवरः कुरूणाम ॥ 40 ॥
दीप्ताम अथैनां महता बलेन; सविस्फु लिङ्गां सहसा पतन्तीम परैक्षन्त सर्वे कुरवः समेता; यथा युगान्ते महतीम इवॊल्काम ॥ 41 ॥
तां कालरात्रीम इव पाशहस्तां; यमस्य धत्रीम इव चॊग्ररूपाम सब्रह्म दण्डप्रतिमाम अमॊघां; ससर्ज यत्तॊ युधि धर्मराजः ॥ 42 ॥
गन्धस्रग अग्र्यासन पानभॊजनैर; अभ्यर्चितां पाण्डुसुतैः परयत्नात संवर्तकाग्निप्रतिमां जवलन्तीं; कृत्याम अथर्वाङ्गिरसीम इवॊग्राम ॥ 43 ॥
ईशान हेतॊः परतिनिर्मितां तां; तवष्टा रिपूणाम असुदेह भक्षाम भूम्यन्तरिक्षादि जलाशयानि; परसह्य भूतानि निहन्तुम ईशाम ॥ 44 ॥
घण्टा पताका मणिवज्र भाजं; वैडूर्य चित्रां तपनीयदण्डाम तवष्ट्रा परयत्नान नियमेन कॢप्तां; बरह्म दविषाम अन्तकरीम अमॊघाम ॥ 45 ॥
बलप्रयत्नाद अधिरूढ वेगां; मन्त्रैश च घॊरैर अभिमन्त्रयित्वा ससर्ज मार्गेण च तां परेण; वधाय मद्राधिपतेर तदानीम ॥ 46 ॥
हतॊ ऽसय असाव इत्य अभिगर्जमानॊ; रुद्रॊ ऽनतकायान्त करं यथेषुम परसार्य बाहुं सुदृढं सुपाणिं; करॊधेन नृत्यन्न इवा धार्म राजः ॥ 47 ॥
तां सर्वशक्त्या परहितां स शक्तिं; युधिष्ठिरेणाप्रति वार्य वीर्याम परतिग्रहायाभिननर्द शल्यः; सम्यग घुताम अग्निर इवाज्य धाराम ॥ 48 ॥
सा तस्य मर्माणि विदार्य शुभ्रम; उरॊ विशालं च तथैव वर्म विवेश गां तॊयम इवाप्रसक्ता; यशॊ विशालं नृपतेर दहन्ती ॥ 49 ॥
नासाक्षि कर्णास्य विनिःसृतेन; परस्यन्दता च वरणसंभवेन संसिक्त गात्रॊ रुधिरेण सॊ ऽभूत; करौञ्चॊ यथा सकन्द हतॊ महाद्रिः ॥ 50 ॥
परसार्य बाहू स रथाद गतॊ गां; संछिन्नवर्मा कुरुनन्दनेन महेन्द्र वाहप्रतिमॊ महात्मा; वज्राहतं शृङ्गम इवाचलस्य ॥ 51 ॥
बाहू परसार्याभिमुखॊ धर्मराजस्य मद्रराट ततॊ निपतितॊ भूमाव इन्द्रध्वज इवॊच्छ्रितः ॥ 52 ॥
स तथा भिन्नसर्वाङ्गॊ रुधिरेण समुक्षितः परत्युद्गत इव परेम्णा भूम्या सा नरपुंगवः ॥ 53 ॥
परियया कान्तया कान्तः पतमान इवॊरसि चिरं भुक्त्वा वसुमतीं परियां कान्ताम इव परभुः सर्वैर अङ्गैः समाश्लिष्य परसुप्त इव सॊ ऽभवत ॥ 54 ॥
धर्म्ये धर्मात्मना युद्धे निहतॊ धर्मसूनुना सम्यग घुत इव सविष्टः परशान्तॊ ऽगनिर इवाध्वरे ॥ 55 ॥
शक्त्या विभिन्नहृदयं विप्र विद्धायुध धवजम संशान्तम अपि मद्रेशं लक्ष्मीर नैव वयमुञ्चत ॥ 56 ॥
ततॊ युधिष्ठिरश चापम आदायेन्द्र धनुष्प्रभम वयधमद दविषतः संख्ये खग राड इव पन्नगान देहासून निशितैर भल्लै रिपूणां नाशयन कषणात ॥ 57 ॥
ततः परार्थस्य बाणौघैर आवृताः सैनिकास तव निमीलिताक्षाः कषिण्वन्तॊ भृशम अन्यॊन्यम अर्दिताः संन्यस्तकवचा देहैर विपत्रायुध जीविताः ॥ 58 ॥
ततः शल्ये निपतिते मद्रराजानुजॊ युवा भरातुः सर्वैर गुणैस तुल्यॊ रथी पाण्डवम अभ्ययात ॥ 59 ॥
विव्याध च नरश्रेष्ठॊ नाराचैर बहुभिस तवरन हतस्यापचितिं भरातुश चिकीर्षुर युद्धदुर्मदः ॥ 60 ॥
तं विव्याधाशुगैः षड्भिर धर्मराजस तवरन्न इव कार्मुकं चास्य चिच्छेद कषुराभ्यां धवजम एव च ॥ 61 ॥
ततॊ ऽसय दीप्यमानेन सुदृढेन शितेन च परमुखे वर्तमानस्य भल्लेनापाहरच छिरः ॥ 62 ॥
सुकुण्डलं तद ददृशे पतमानं शिरॊ रथात पुण्यक्षयम इव पराप्य पतन्तं सवर्गवासिनम ॥ 63 ॥
तस्यापकृष्ट शीर्षं तच छरीरं पतितं रथात रुधिरेणावसिक्ताङ्गं दृष्ट्वा सैन्यम अभज्यत ॥ 64 ॥
विचित्रकवचे तस्मिन हते मद्रनृपानुजे हाहाकारं विकुर्वाणाः कुरवॊ विप्रदुद्रुवुः ॥ 65 ॥
शल्यानुजं हतं दृष्ट्वा तावकास तयक्तजीविताः वित्रेसुः पाण्डव भयाद रजॊध्वस्तास्स तथा भृषम ॥ 66 ॥
तांस तथा भज्यतस तरस्तान कौरवान भरतर्षभ शिनेर नप्ता किरन बाणैर अभ्यवर्तत सात्यकिः ॥ 67 ॥
तम आयान्तं महेष्वासम अप्रसह्यं दुरासदम हार्दिक्यस तवरितॊ राजन परत्यगृह्णाद अभीतवत ॥ 68 ॥
तौ समेतौ महात्मानौ वार्ष्णेयाव अपराजितौ हार्दिक्यः सात्यकिश चैव सिंहाव इव मदॊत्कटौ ॥ 69 ॥
इषुभिर विमलाभासैश छादयन्तौ परस्परम अर्चिर्हिर इव सूर्यस्य दिवाकरसमप्रभौ ॥ 70 ॥
चापमार्गबलॊद्धूतान मार्गणान वृष्णिसिंहयॊः आकाशे समपश्याम पतंगान इव शीघ्रगान ॥ 71 ॥
सात्यकिं दशभिर विद्ध्वा हयांश चास्य तरिभिः शरैः चापम एकेन चिच्छेद हार्दिक्यॊ नतपर्वणा ॥ 72 ॥
तन निकृत्तं धनुःश्रेष्ठम अपास्य शिनिपुंगवः अन्यद आदत्त वेगेन वेगवत्तरम आयुधम ॥ 73 ॥
तद आदाय धनुःश्रेष्ठं वरिष्ठः सर्वधन्विनाम हार्दिक्यं दशभिर बाणैः परत्यविध्यत सतनान्तरे ॥ 74 ॥
ततॊ रथं युगेषां च छित्त्वा भल्लैः सुसंयतैः अश्वांस तस्यावधीत तूर्णम उभौ च पार्ष्णिसारथी ॥ 75 ॥
मद्रराजे हते राजन्विरथे कृतवर्मणि दुर्यॊधन बलं सर्वं पुनर आसीत पराङ्मुखम ॥ 76 ॥
तत्परे नावबुध्यन्त सैन्येन रजसा वृते बलं तु हतभूयिष्ठं तत तदासीत पराङ्मुखम ॥ 77 ॥
ततॊ मुहूर्तात ते ऽपश्यन रजॊ भौमं समुत्थितम विविधैः शॊणितस्रावैः परशान्तं पुरुषर्षभ ॥ 78 ॥
ततॊ दुर्यॊधनॊ दृष्ट्वा भग्नं सवबलम अन्तिकात जवेनापततः पार्थान एकः सर्वान अवारयत ॥ 79 ॥
पाण्डवान सरथान दृष्ट्वा धृष्टद्युम्नं च पार्षतम आनर्तं च दुराधर्षं शितैर बाणैर अवाकिरत ॥ 80 ॥
तं परे नाभ्यवर्तन्त मर्त्या मृत्युम इव आगतम अथान्यं रथम आस्थाय हार्दिक्यॊ ऽपि नयवर्तत ॥ 81 ॥
ततॊ युधिष्ठिरॊ राजा तवरमाणॊ महारथः चतुर्भिर निजघानाश्वान पत्रिभिः कृतवर्मणः विव्याध गौतमं चापि षड्भिर भल्लैः सुतेजनैः ॥ 82 ॥
अश्वत्थामा ततॊ राज्ञा हताश्वं विरथी कृतम समपॊवाह हार्दिक्यं सवरथेन युधिष्ठिरात ॥ 83 ॥
ततः शारद्वतॊ ऽषटाभिः परत्यविध्यद युधिष्ठिरम विव्याध चाश्वान निशितैस तस्याष्टाभिः शिलीमुखैः ॥ 84 ॥
एवम एतन महाराज युद्धशेषम अवर्तत तव दुर्मन्त्रिते राजन सहपुत्रस्य भारत ॥ 85 ॥
तस्मिन महेष्वास वरे विशस्ते; संग्राममध्ये कुरुपुंगवेन पर्थाः समेताः परमप्रहृष्टाः; शङ्खान परदध्मुर हतम ईक्ष्य शल्यम ॥ 86 ॥
युधिष्ठिरं च परशशंसुर आजौ; पुरा सुरा वृत्रवधे यथेन्द्रम चक्रुश च नानाविध वाद्य शब्दान; निनादयन्तॊ वसुधां समन्तात ॥ 87 ॥
शल्यपर्व · Shalya Parva
अध्याय 16
Reach this point to mark the section finished.
Continue to अध्याय 17