[स] तथ सैन्यास तव विभॊ मद्रराजपुरस्कृताः पुनर अभ्यद्रवन पार्थान वेगेन महता रणे ॥ 1 ॥
पीडितास तावकाः सर्वे परधावन्तॊ रणॊत्कटाः कषणेनैव च पार्थांस ते बहुत्वात समलॊडयन ॥ 2 ॥
ते वध्यमानाः कुरुभिः पाण्डवा नावतस्थिरे निवार्यमाणा भीमेन पश्यतॊः कृष्ण पार्थयॊः ॥ 3 ॥
ततॊ धनंजयः करुद्धाः कृपं सह पदानुगैः अवाकिरच छरौघेण कृतवर्माणम एव च ॥ 4 ॥
शकुनिं सहदेवस तु सह सैन्यम अवारयत नकुलः पार्श्वतः सथित्वा मद्रराजम अवैक्षत ॥ 5 ॥
दरौपदेया नरेन्द्रांश च भूयिष्ठं समवारयन दरॊणपुत्रं च पाञ्चाल्यः शिखाण्डी समवारयत ॥ 6 ॥
भीमसेनस तु राजानं गदापाणिर अवारयत शल्यं तु सह सैन्येन कुन्तीपुत्रॊ युधिष्ठिरः ॥ 7 ॥
ततः समभवद युद्धं संसक्तं तत्र तत्र ह तावकानां परेषां च संग्रामेष्व अनिवर्तिनाम ॥ 8 ॥
तत्र पश्यामहे कर्म शल्यस्यातिमहद रणे यद एकः सर्वसैन्यानि पाण्डवानाम अयुध्यत ॥ 9 ॥
वयदृश्यत तदा शल्यॊ युधिष्ठिर समीपतः रणे चन्द्रसमॊ ऽभयाशे शरैश चर इव गरहः ॥ 10 ॥
पीडयित्वा तु राजानं शरैर आशीविषॊपमैः अभ्यधावत पुनर भीमं शरवर्षैर अवाकिरत ॥ 11 ॥
तस्य तल लाघवं दृष्ट्वा तथैव च कृतास्त्रताम अपूजयन्न अनीकानि परेषां तावकानि च ॥ 12 ॥
पीड्यमानास तु शल्येन पाण्डवा भृशविक्षताः पराद्रवन्त रणं हित्वा करॊशमाने युधिष्ठिरे ॥ 13 ॥
वध्यमानेष्व अनीकेषु मद्रराजेन पाण्डवः अमर्षवशम आपन्नॊ धर्मराजॊ युधिष्ठिरः ततः पौरुषम आस्थाय मद्रराजम अपीडयत ॥ 14 ॥
जयॊ वास्तु वधॊ वेति कृतबुद्धिर महारथः समाहूयाब्रवीत सर्वान भरातॄन कृष्णं च माधवम ॥ 15 ॥
भीष्मॊ दरॊणश च कर्णश च ये चान्ये पृथिवीक्षितः कौरवार्थे पराक्रान्ताः संग्रामे निधनं गताः ॥ 16 ॥
यथाभागं यथॊत्साहं भवन्तः कृतपौरुषाः भागॊ ऽवशिष्ट एकॊ ऽयं मम शल्यॊ महारथः ॥ 17 ॥
सॊ ऽहम अद्य युधा जेतुम आशंसे मद्रकेश्वरम तत्र यन मानसं मह्यं तत सार्वं निगदामि वः ॥ 18 ॥
चक्ररक्षाव इमौ शूरौ मम माद्रवतीसुतौ अजेयौ वासवेनापि समरे वीर संमतौ ॥ 19 ॥
साध्व इमौ मातुलं युद्धे कषत्रधर्मपुरस्कृतौ मदर्थं परतियुध्येतां मानार्हौ सत्यसंगरौ ॥ 20 ॥
मां वा शल्यॊ रणे हन्ता तं वाहं भद्रम अस्तु वः इति सत्याम इमां वाणीं लॊकवीरा निबॊधत ॥ 21 ॥
यॊत्स्ये ऽहं मातुलेनाद्य कषत्रधर्मेण पार्थिवाः सवयं समभिसंधाय विजयायेतराय वा ॥ 22 ॥
तस्य मे ऽभयधिकं शस्त्रं सर्वॊपकरणानि च संयुञ्जन्तु रणे कषिप्रं शास्त्रवद रथयॊजकाः ॥ 23 ॥
शैनेयॊ दक्षिणं चक्रं धृष्टद्युम्नस तथॊत्तरम पृष्ठगॊपॊ भवत्व अद्य मम पार्थॊ धनंजयः ॥ 24 ॥
पुरःसरॊ ममाद्यास्तु भीमः शस्त्रभृतां वरः एवम अभ्यधिकः शल्याद भविष्यामि महामृधे ॥ 25 ॥
एवम उक्तास तथा चक्रुः सर्वे राज्ञः परियैषिणः तथ परहर्षः सैन्यानां पुनर आसीत तदा नृप ॥ 26 ॥
पाञ्चालानां सॊमकानां मत्स्यानां च विशेषतः परतिज्ञां तां च संग्रामे धर्मराजस्य पूरयन ॥ 27 ॥
ततः शङ्खांश च भेरीश च शतशश चैव पुष्करान अवादयन्त पाञ्चालाः सिंहनादांश च नेदिरे ॥ 28 ॥
ते ऽभयधावन्त संरब्धा मद्रराजं तरस्विनः महता हर्षजेनाथ नादेन कुरुपुंगवाः ॥ 29 ॥
हरादेन गजघण्टानां शङ्खानां निनदेन च तूर्यशब्देन महता नादयन्तश च मेदिनीम ॥ 30 ॥
तान परत्यगृह्णात पुत्रस ते मद्रराजश च वीर्यवान महामेघान इव बहूञ शैलाव अस्तॊदयाव उभौ ॥ 31 ॥
शल्यस तु समरश्लाघी धर्मराजम अरिंदमम ववर्ष शरवर्षेण वर्षेण मघवान इव ॥ 32 ॥
तथैव कुरुराजॊ ऽपि परगृह्य रुचिरं धनुः दरॊणॊपदेशान विविधान दर्शयानॊ महामनाः ॥ 33 ॥
ववर्षा शरवर्षाणि चित्रं लघु च सुष्ठु च न चास्य विवरं कश चिद ददर्श चरतॊ रणे ॥ 34 ॥
ताव उभौ विविधैर बाणैस ततक्षाते परस्परम शार्दूलाव आमिष परेप्षू पराक्रान्ताव इवाहवे ॥ 35 ॥
भीमस तु तव पुत्रेण रणशौण्डेन संगतः पाञ्चाल्यः सात्यकिश चैव माद्रीपुत्रौ च पाण्डवौ शकुनिप्रमुखान वीरान परत्यगृह्णन समन्ततः ॥ 36 ॥
तद आसीत तुमुलं युद्धं पुनर एव जयैषिणाम तावकातां परेषां च राजन दुर्मन्त्रिते तव ॥ 37 ॥
दुर्यॊधनस तु भीमस्य शरेणानतपर्वणा चिच्छेदादिश्य संग्रामे धवजं हेमविभूषितम ॥ 38 ॥
सकिङ्किणिक जालेन महता चारुदर्शनः पपात रुचिरः सिंहॊ भीमसेनस्य नानदन ॥ 39 ॥
पुनश चास्य धनुश चित्रं गजराजकरॊपमम कषुरेण शितधारेण परचकर्त नराधिपः ॥ 40 ॥
सच्छिन्नधन्वा तेजस्वी रथशक्त्या सुतं तव बिभेदॊरसि विक्रम्य स रथॊपस्थ आविशत ॥ 41 ॥
तस्मिन मॊहम अनुप्राप्ते पुनर एव वृकॊदरः यन्तुर एव शिरः कायात कषुरप्रेणाहरत तदा ॥ 42 ॥
हतसूता हयास तस्य रथम आदाय भारत वयद्रवन्त दिशॊ राजन हाहाकारस तदाभवत ॥ 43 ॥
तम अभ्यधावत तराणार्थं दरॊणपुत्रॊ महारथः कृपश च कृतवर्मा च पुत्रं ते ऽभिपरीप्सवः ॥ 44 ॥
तस्मिन विलुलिते सैन्ये तरस्तास तस्य पदानुगाः गाण्डीवधन्वा विस्फार्य धनुस तान अहनच छरैः ॥ 45 ॥
युधिष्ठिरस तु मद्रेशम अभ्यधावद अमर्षितः सवयं संचॊदयन्न अश्वान दन्तवर्णान मनॊजवान ॥ 46 ॥
तत्राद्भुतम अपश्याम कुन्तीपुत्रे युधिष्ठिरे पुरा भूत्वा मृदुर दान्तॊ यत तदा दारुणॊ ऽभवत ॥ 47 ॥
विवृताक्षश च कौन्तेयॊ वेपमानश च मन्युना चिच्छेद यॊधान निशितैः शरैः शतसहस्रशः ॥ 48 ॥
यां यां परत्युद्ययौ सेनां तां तां जयेष्ठः स पाण्डवः शरैर अपातयद राजन गिरीन वज्रैर इवॊत्तमैः ॥ 49 ॥
साश्वसूत धवजरथान रथिनः पातयन बहून आक्रीडद एकॊ बलवान पवनस तॊयदान इव ॥ 50 ॥
साश्वारॊहांश च तुरगान पत्तींश चैव सहस्रशः वयपॊथयत संग्रामे करुद्धॊ रुद्रः पशून इव ॥ 51 ॥
शून्यम आयॊधनं कृत्वा शरवर्षैः समन्ततः अभ्यद्रवत मद्रेशं तिष्ठ शल्येति चाब्रवीत ॥ 52 ॥
तस्य तच चरितं दृष्ट्वा संग्रामे भीमकर्मणः वित्रेसुस तावकाः सर्वे शल्यस तव एनं समभ्ययात ॥ 53 ॥
ततस तौ तु सुसंरब्धौ परध्माप्य सलिलॊद्भवौ सामाहूय तदान्यॊन्यं भर्त्सयन्तौ समीयतुः ॥ 54 ॥
शल्यस तु शरवर्षेण युधिष्ठिरम अवाकिरत मद्रराजं च कौन्तेयः शरवर्षैर अवाकिरत ॥ 55 ॥
वयदृश्येतां तदा राजन कङ्कपत्रिभिर आहवे उद्भिन्न रुधिरौ शूरौ मद्रराजयुधिष्ठिरौ ॥ 56 ॥
पुष्पिताव इव रेजाते वने शल्मलि किंशुका दीप्यामानौ महात्मानौ पराणयॊर युद्धदुर्मदौ ॥ 57 ॥
दृष्ट्वा सर्वाणि सैन्यानि नाध्यवस्यंस तयॊर जयम हत्वा मद्राधिपं पार्थॊ भॊक्ष्यते ऽदय वसुंधराम ॥ 58 ॥
शल्यॊ वा पाण्डवं हत्वा दद्याद दुर्यॊधनाय गाम इतीव निश्चयॊ नाभूद यॊधानां तत्र भारत ॥ 59 ॥
परदक्षिणम अभूत सर्वं धर्मराजस्य युध्यतः ॥ 60 ॥
ततः शरशतं शल्यॊ मुमॊचाशु युधिष्ठिरे धनुश चास्य शिताग्रेण बाणेन निरकृन्तत ॥ 61 ॥
सॊ ऽनयत कार्मुकम आदाय शल्यं शरशतैस तरिभिः अविध्यत कार्मुकं चास्य कषुरेण निरकृन्तत ॥ 62 ॥
अथास्य निजघानाश्वांश चतुरॊ नतपर्वभिः दवाभ्याम अथ शिताग्राभ्याम उभौ च पार्ष्णिसारथी ॥ 63 ॥
ततॊ ऽसय दीप्यमानेन पीतेन निशितेन च परमुखे वर्तमानस्य भल्लेनापाहरद धवजम ततः परभग्नं तत सैन्यं दौर्यॊधनम अरिंदम ॥ 64 ॥
ततॊ मद्राधिपं दरौणिर अभ्यधावत तथा कृतम आरॊप्य चैनं सवरथं तवरमाणः परदुद्रुवे ॥ 65 ॥
मुहूर्तम इव तौ गत्वा नर्दमाने युधिष्ठिरे सथित्वा ततॊ मद्रपतिर अन्यं सयन्दनम आस्थितः ॥ 66 ॥
विधिवत कल्पितं शुभ्रं महाम्बुद निनादिनम सज्जयन्त्रॊपकरणं दविषतां लॊमहर्षणम ॥ 67 ॥
शल्यपर्व · Shalya Parva
अध्याय 15
Reach this point to mark the section finished.
Continue to अध्याय 16