[स] दुर्यॊधनॊ महाराज धृष्टद्युम्नश च पर्षतः चक्रतुः सुमहद युद्धां शरशक्तिसमाकुलम ॥ 1 ॥
तयॊर आसन महाराज शरधाराः सहस्रशः अम्बुदानां यथाकाले जलधाराः समन्ततः ॥ 2 ॥
राजा तु पार्षतं विद्ध्वा शरैः पञ्चभिर आयसैः दरॊण हन्तारम उग्रेषुः पुनर विव्याध सप्तभिः ॥ 3 ॥
धृष्टद्युम्नस तु समरे बलवान दृढविक्रमः सप्तत्या विशिखानां वै दुर्यॊधनम अपीडयत ॥ 4 ॥
पीडितं परेक्ष्य राजानं सॊदर्या भरतर्षभ महत्या सेनया सार्धं परिवव्रुः सम पार्षतम ॥ 5 ॥
स तैः परिवृतॊ शूरैः सर्वतॊ ऽतिरथैर भृशम वयचरत समरे राजन दर्शयन हस्तलाघवम ॥ 6 ॥
शिखण्डी कृतवर्माणं गौतमं च महारथम परभद्रकैः समायुक्तॊ यॊधयाम आस धन्विनौ ॥ 7 ॥
तत्रापि सुमहद युद्धं घॊररूपं विशां पते पराणान संत्यजतां युद्धे पराणद्यूताभिदेवने ॥ 8 ॥
शल्यस तु शरवर्षाणि विमुञ्चन सर्वतॊदिशम पाण्डवान पीडयाम आस ससात्यकि वृकॊदरान ॥ 9 ॥
तथॊभौ च यमौ युद्धे यम तुल्यपराक्रमौ यॊधयाम आस राजेन्द्र वीर्येण च बलेन च ॥ 10 ॥
शल्य सायकनुन्नानां पाण्डवानां महामृधे तरातारं नाध्यगच्छन्त केच चित तत्र महारथाः ॥ 11 ॥
ततस तु नकुलः शूरॊ धर्मराजे परपीडिते अभिदुद्राव वेगेन मातुलं माद्रिनन्दनः ॥ 12 ॥
संछाद्य समरे शल्यं नकुलः परवीरहा विव्याध चैनं दशभिः समयमानः सतनान्तरे ॥ 13 ॥
सर्वपारशवैर बाणैः कर्मार परिमार्जितैः सवर्णपुङ्खैः शिला धौतैर धनुर यन्त्रप्रचॊदितैः ॥ 14 ॥
शल्यस तु पीडितस तेन सवस्त्रीयेण महात्मना नकुलं पीडयाम आस सवस्रीयेण महात्मना ॥ 15 ॥
ततॊ युधिष्ठिरॊ राजा भीमसेनॊ ऽथ सात्यकिः सहदेवश च माद्रेयॊ मद्रराजम उपाद्रवन ॥ 16 ॥
तान आपतत एवाशु पूरयानान रतः सवनैः दिशश च परदिशश चैव कम्पयानांश च मेदिनीम परतिजग्राह समरे सेनापतिर अमित्रजित ॥ 17 ॥
युधिष्ठिरं तरिभिर विद्ध्वा भीमसेनं च सप्तभिः सात्यकिं च शतेनाजौ सहदेवं तरिभिः शरैः ॥ 18 ॥
ततस तु सशरं चापं नकुलस्य महात्मनः मद्रेश्वरः कषुरप्रेण तदा चिच्छेद मारिष तद अशीर्यत विच्छिन्नं धनुः शल्यस्य सायकैः ॥ 19 ॥
अथान्यद धनुर आदाय माद्रीपुत्रॊ महारथः मद्रराजरथं तूर्णं पूरयाम आस पत्रिभिः ॥ 20 ॥
युधिष्ठिरस तु मद्रेशं सहदेवश च मारिष दशभिर दशभिर बाणैर उरस्य एनम अविध्यताम ॥ 21 ॥
भीमसेनस ततः षष्ट्या सात्यकिर नवभिः शरैः मद्रराजम अभिद्रुत्य जघ्नतुः कङ्कपत्रिभिः ॥ 22 ॥
मद्रराजस ततः करुद्धः सात्यकिं नवभिः शरैः विव्याध भूयः सप्तत्या शराणां नतपर्वणाम ॥ 23 ॥
अथास्य सशरं चापं मुष्टौ चिच्छेद मारिष हयांश च चतुरः संख्ये परेषयाम आस मृत्यवे ॥ 24 ॥
विरथं सात्यकिं कृत्वा मद्रराजॊ महाबलः विशिखानां शतेनैनम आजघान समन्ततः ॥ 25 ॥
माद्रीपुत्रौ तु संरब्धौ भीमसेनं च पाण्डवम युधिष्ठिरं च कौरव्य विव्याध दशभिः शरैः ॥ 26 ॥
तत्राद्भुतम अपश्याम मद्रराजस्य पौरुषम यद एनं सहिताः पार्था नाभ्यवर्तन्त संयुगे ॥ 27 ॥
अथान्यं रथम आस्थाय सात्यकिः सत्यविक्रमः पीडितान पाण्डवान दृष्ट्वा मद्रराजवशं गतान अभिदुद्राव वेगेन मद्राणाम अधिपं बली ॥ 28 ॥
आपतन्तं रथं तस्य शल्यः समितिशॊभनः परत्युद्यतौ रथेनैव मत्तॊ मत्तम इव दविपम ॥ 29 ॥
स संनिपातस तुमुलॊ बभूवाद्भुतदर्शनः सात्यकेश चैव शूरस्य मद्राणाम अधिपस्य च यादृशॊ वै पुरावृत्तः शम्बरामर राजयॊः ॥ 30 ॥
सात्यकिः परेक्ष्य समरे मद्रराजं वयवस्थितम विव्याध दशभिर बाणैस तिष्ठ तिष्ठेति चाब्रवीत ॥ 31 ॥
मद्रराजस तु सुभृशं विद्धस तेन महात्मना सात्यकिमं परतिविव्याध चित्रपुङ्खैः शितैः शरैः ॥ 32 ॥
ततः पार्था महेष्वासाः सात्वताभिसृतं नृपम अभ्यद्रवन रथैस तूर्णं मातुलं वधकाम्यया ॥ 33 ॥
तत आसीत परामर्दस तुमुलः शॊणितॊदकः शूराणां युध्यमानानां सिंहानाम इव नर्दताम ॥ 34 ॥
तेषाम आसीन महाराज वयतिक्षेपः परस्परम सिंहानाम आमिषेप्सूनां कूजताम इव संयुगे ॥ 35 ॥
तेषां बाणसहस्रौघैर आकीर्णा वसुधाभवत अन्तरिक्षं च सहसा बाणभूतम अभूत तदा ॥ 36 ॥
शरान्धकारं बहुधा कृतं तत्र समन्ततः अब्भ्रच छायेव संजज्ञे शरैर मुक्तैर महात्मभिः ॥ 37 ॥
तत्र राजञ शरैर मुक्तैर निर्मुक्तैर इव पन्नगैः सवर्णपुङ्खैः परकाशद्भिर वयरॊचन्त दिशस तथा ॥ 38 ॥
तत्राद्भुतं परं चक्रे शल्यः शत्रुनिबर्हणः यद एकः समरे शूरॊ यॊधयाम आस वै बहून ॥ 39 ॥
मद्रराजभुजॊत्सृष्टैः कङ्कबर्हिण वाजितैः संपतद्भिः शरैर घॊरैर अवाकीर्यत मेदिनी ॥ 40 ॥
तत्र शल्य रथं राजन विचरन्तं महाहवे अपश्याम यथापूर्वं शक्रस्यासुरसंक्षये ॥ 41 ॥
शल्यपर्व · Shalya Parva
अध्याय 14
Reach this point to mark the section finished.
Continue to अध्याय 15