[स] अर्जुनॊ दरौणिना विद्धॊ युद्धे बहुभिर आयसैः तस्य चानुचरैः शूरैस तरिगर्तानां महारथैः दरौणिं विव्याध समरे तरिभिर एव शिला मुखैः ॥ 1 ॥
तथेतरान महेष्वासान दवाभ्यां दवाभ्यां धनंजयः भूयश चैव महाबाहुः शरवर्षैर अवाकिरत ॥ 2 ॥
शरकण्टकितास ते तु तावका भरतर्षभ न जाहुः सामरे पार्थं वध्यमानाः शितैः शरैः ॥ 3 ॥
ते ऽरजुनं रथवंशेन दरॊणपुत्र पुरॊगमाः अयॊधयन्त समरे परिवार्य महारथाः ॥ 4 ॥
तैस तु कषिप्ताः शरा राजन कार्तस्वरविभूषिताः अर्जुनस्य रथॊपस्थं पूरयाम आसुर अञ्जसा ॥ 5 ॥
तथा कृष्णौ महेष्वासौ वृषभौ सर्वधन्विनाम शरैर वीक्ष्य वितुन्नाङ्गौ परहृष्टौ युद्धदुर्मदौ ॥ 6 ॥
कूबरं रथचक्राणि ईषा यॊक्त्राणि चाभिभॊ युगं चैवानुकर्षं च शरभूतम अभूत तदा ॥ 7 ॥
नैतादृशं दृष्टपूर्वं राजन नैव च नः शरुतम यादृशं तत्र पार्थस्य तावकाः संप्रचक्रिरे ॥ 8 ॥
स रथः सर्वतॊ भाति चित्रपुङ्खैः शितैः शरैः उल्का शतैः संप्रदीप्तं विमानम इव भूतले ॥ 9 ॥
ततॊ ऽरजुनॊ महाराज शरैः संनतपर्वभिः अवाकिरत तां पृतनां मेघॊ वृष्ट्या यथाचलम ॥ 10 ॥
ते वध्यमानाः समरे पार्था नामाङ्कितैः शरैः पार्थ भूतम अमन्यन्त परेक्षामाणास तथाविधम ॥ 11 ॥
ततॊ ऽदभुतशरज्वालॊ धनुः शब्दानिलॊ महान सेनेन्धनं ददाहाशु तावकं पार्थ पावकः ॥ 12 ॥
चक्राणां पाततां चैव युगानां च धरातले तूणीराणां पताकानां धवजानां च रथैः सह ॥ 13 ॥
ईषाणाम अनुकर्षाणां तरिवेणूनां च भारत अक्षाणाम अथ यॊक्त्राणां परतॊदानां च सर्वशः ॥ 14 ॥
शिरसां पततां चैव कुण्डलॊष्णीष धारिणाम भुजानां च महाराज सकन्धानां च समन्ततः ॥ 15 ॥
छत्त्राणां वयजनैः सार्धं मुकुटानां च राशयः समदृश्यन्त पार्थस्य रथमार्गेषु भारत ॥ 16 ॥
अगम्यरूपा पृथिवी मांसशॊणितकर्दमा बभूव भरतश्रेष्ठ रुद्रस्याक्रीडनं यथा भीरूणां तरासजननी शूराणां हर्षवर्धनी ॥ 17 ॥
हत्वा तु समरे पार्थः सहस्रे दवे परंतप रथानां सवरूथानां विधूमॊ ऽगनिर इव जवलन ॥ 18 ॥
यथा हि भगवान अग्निर जगद दग्ध्वा चराचरम विधूमॊ दृश्यते राजंस तथा पार्थॊ महारथः ॥ 19 ॥
दरौणिस तु समरे दृष्ट्वा पाण्डवस्य पराक्रमम रथेनातिपताकेन पाण्डवं परत्यवारयत ॥ 20 ॥
ताव उभौ पुरुषव्याघ्रौ शवेताश्वौ धन्विनां वरौ समीयतुस तदा तूर्णं परस्परवधैषिणौ ॥ 21 ॥
तयॊर आसीन महाराज बाणवर्षं सुदारुणम जीमूतानां यथा वृष्टिर तपान्ते भरतर्षभ ॥ 22 ॥
अन्यॊन्यस्पर्धिनौ तौ तु शरैः संनतपर्वभिः ततक्षतुर मृधे ऽनयॊन्यं शृङ्गाभ्यां वृषभाव इव ॥ 23 ॥
तयॊर युद्धं महाराज चिरं समम इवाभवत अस्त्राणां संगमश चैव घॊरस तत्राभवन महान ॥ 24 ॥
ततॊ ऽरजुनं दवादशभी रुक्मपुङ्खैः सुतेजनैः वासुदेवं च दशभिर दरौणिर विव्याध भारत ॥ 25 ॥
ततः परहस्य बीभत्सुर वयाक्षिपद गाण्डिवं धनुः मानयित्वा मुहूर्तं च गुरुपुत्रं महाहवे ॥ 26 ॥
वयश्व सूत रथं चक्रे सव्यसाची महारथः मृदुपूर्वं ततश चैनं तरिभिर विव्याध सायकैः ॥ 27 ॥
हताश्वे तु रथे तिष्ठन दरॊणपुत्रस तव अयॊ मयम मुसलं पाण्डुपुत्राय चिक्षेप परिघॊपमम ॥ 28 ॥
तम आपतन्तं सहसा हेमपट्ट विभूषितम चिच्छेद सप्तधा वीरः पार्तः शत्रुनिबर्हणः ॥ 29 ॥
स चछिन्नं मुसलं दृष्ट्वा दरौणिः परमकॊपनः आददे परिघं घॊरं नगेन्द्रशिखरॊपमम चिक्षेप चैव पार्थाय दरौणिर युद्धविशारदः ॥ 30 ॥
तम अन्तकम इव करुद्धं परिघं परेक्ष्य पाण्डवः अर्जुनस तवरितॊ जघ्ने पञ्चभिः सायकॊत्तमैः ॥ 31 ॥
स चछिन्नः पतितॊ भूमौ पार्थ बाणैर महाहवे दारयन पृथिवीन्द्राणां मनः शब्देन भारत ॥ 32 ॥
ततॊ ऽपरैस तरिभिर बाणैर दरौणिं विव्याध पाण्डवः सॊ ऽतिविद्धॊ बलवता पार्थेन सुमहाबलः न संभ्रान्तस तदा दरौणिः पौरुषे सवे वयवस्थितः ॥ 33 ॥
सुधर्मा तु ततॊ राजन भारद्वाजं महारथम अवाकिरच छरव्रातैः सर्वक्षत्रस्य पश्यतः ॥ 34 ॥
ततस तु सुरथॊ ऽपय आजौ पाञ्चालानां महारथः रथेन मेघघॊषेण दरौणिम एवाभ्यधावत ॥ 35 ॥
विकर्षन वै धनुःश्रेष्ठं सर्वभार सहं दृढम जवलनाशीविषनिभैः शरैश चैनम अवाकिरत ॥ 36 ॥
सुरथं तु ततः करुद्धम आपतन्तं महारथम चुकॊप समरे दरौणिर दण्डाहत इवॊरगः ॥ 37 ॥
तरिशिखां भरुकुटीं कृत्वा सृक्किणी परिलेलिहन उद्वीक्ष्य सुरथं रॊषाद धनुर्ज्याम अवमृज्य च मुमॊच तीष्णं नाराचं यमदण्डसमद्युतिम ॥ 38 ॥
स तस्य हृदयं भित्त्वा परविवेशातिवेगतः शक्राशनिर इवॊत्सृष्टा विदार्य धरणीतलम ॥ 39 ॥
ततस तं पतितं भूमौ नाराचेन समाहतम वज्रेणेव यथा शृङ्गं पर्वतस्य महाधनम ॥ 40 ॥
तस्मिंस तु निहते वीरे दरॊणपुत्रः परतापवान आरुरॊह रथं तूर्णं तम एव रथिनां वरः ॥ 41 ॥
ततः सज्जॊ महाराज दरौणिर आहवदुर्मदः अर्जुनं यॊधयाम आस संशप्तक वृतॊ रणे ॥ 42 ॥
तत्र युद्धं महच चासीद अर्जुनस्य परैः सह मध्यंदिनगते सूर्ये यम राष्ट्रविवर्धनम ॥ 43 ॥
तत्राश्चर्यम अपश्याम दृष्ट्वा तेषां पराक्रमम यद एकॊ युगपद वीरान समयॊधयद अर्जुनः ॥ 44 ॥
विमर्दस तु महान आसीद अर्जुनस्य परैः सह शतक्रतॊर यथापूर्वं महत्या दैत्य सेनया ॥ 45 ॥
शल्यपर्व · Shalya Parva
अध्याय 13
Reach this point to mark the section finished.
Continue to अध्याय 14