धर्मDharmic Data

शल्यपर्व · Shalya Parva

अध्याय 12

  1. [स] पीडिते धर्मराजे तु मद्रराजेन मारिष सात्यकिर भीमसेनश च माद्रीपुत्रौ च पाण्डवौ परिवार्य रथैः शल्यां पीडयाम आसुर आहवे ॥ 1 ॥

  2. तम एकं बहुभिर दृष्ट्व पीड्यमानं महारथैः साधुवादॊ महाञ जज्ञे सिद्धाश चासन परहर्षिताः आशर्यम इत्य अभाषान्त मुनयश चापि संगताः ॥ 2 ॥

  3. भीमसेनॊ रणे शल्यं शल्य भूतं परांक्रमे एकेन विद्ध्वा बाणेन पुनर विव्याध सप्तभिः ॥ 3 ॥

  4. सात्यकिश च शतेनैनं धर्मपुत्र परीप्सया मद्रेश्वरम अवाकीर्य सिंहनादम अथानदत ॥ 4 ॥

  5. नकुलः पञ्चभिश चैनां सहदेवश च सप्तभिः विद्ध्वा तं तु ततस तूर्णं पुनर विव्याध सप्तभिः ॥ 5 ॥

  6. स तु शूरॊ रणे यत्तः पीडितस तैर महारथैः विकृष्य कार्मुकं घॊरं वेगघ्नां भारसाधनम ॥ 6 ॥

  7. सात्यकिं पञ्चविंशत्या शल्यॊ विव्याध मारिषा भीमसेनं तरिसाप्तत्या नकुलं सप्तभिस तथा ॥ 7 ॥

  8. ततः सविशिखं चापं सहदेवस्य धन्विनः छित्त्वा भल्लेन समरे विव्याधैनं तरिसप्तभिः ॥ 8 ॥

  9. सहदेवस तु समरे मतुलं भूरि वर्चसम सज्यम अन्यद धनुः कृत्वा पञ्चभिः समताडयत शरैर आशीविषाकारैर जवलज जवलनसंनिभैः ॥ 9 ॥

  10. सारथिं चास्य समरे शरेणानतपर्वणा वीव्याध भृशसंक्रुद्धस तं च भूयस तरिभिः शरैः ॥ 10 ॥

  11. भीमसेनस तरिसप्तत्या सात्यकिर नवभिः शरैः धर्मराजस तथा षष्ट्या गते शल्यं समर्पयत ॥ 11 ॥

  12. ततः शल्यॊ महाराज निर्विद्धस तैर महारथैः सुस्राव रुधिरं गात्रैर गैरिकं पर्वतॊ यथा ॥ 12 ॥

  13. तांश च सर्वान महेष्वासान पञ्चभिः पञ्चभिः शरैः विव्याध तरसा राजंस तद अद्भुतम इवाभवत ॥ 13 ॥

  14. ततॊ ऽपरेण भल्लेन धर्मपुत्रस्य मारिष धानुश चिच्छेद समरे साज्यां स सुमहारथः ॥ 14 ॥

  15. अथान्यद धनुर आदाय धर्मपुत्रॊ महारथः साश्वसूत धवजरथं शल्यं पराच्छादयच छरैः ॥ 15 ॥

  16. सच छाद्यमानः समरे धर्मपुत्रस्य सायकैः युधिष्ठिरम अथाविध्यद दशभिर निशितैः शरैः ॥ 16 ॥

  17. सात्यकिस तु ततः करुद्धॊ धर्मा पुत्रे शरार्दिते मद्राणाम अधिपं शूरं शरौघैः समवारयत ॥ 17 ॥

  18. स सात्यकेः परचिच्छेद कषुरप्रेण महद धनुः भीमसेनमुखांस तांश च तरिभिस तरिभिर अताडयत ॥ 18 ॥

  19. तस्य करुद्धॊ महाराज सात्यकिः सत्यविक्रमः तॊमरं परेषयाम आस सवर्णा दण्डं महाधनम ॥ 19 ॥

  20. भीमसेनॊ ऽथ नाराचं जवलन्तम इव पन्नगम नकुलः समरे शक्तिं सहदेवॊ गदां शुभाम धर्मराजः शतघ्नीं तु जिग्घांसुः शल्यम आहवे ॥ 20 ॥

  21. तान आपतत एवाशु पञ्चानां वै भुजच्युतान सात्यकिप्रहितं शल्यॊ भल्लैश चिच्छेद तॊमरम ॥ 21 ॥

  22. भीमेन परहितं चापि शरं कनकभूषणम दविधा चिच्छेद समरे कृतहस्तः परतापवान ॥ 22 ॥

  23. नकुल परेषितां शक्तिं हेमदण्डां भयावहाम गदां च सहदेवेन शरौघैः समवारयत ॥ 23 ॥

  24. शराह्यां च शतघ्नीं तां राज्ञश चिच्छेद भारत पश्यतां पाण्डुपुत्राणां सिंहनादं ननाद च नामृष्यत तं तु शैनेयः शत्रॊर विजयम आहवे ॥ 24 ॥

  25. अथान्यद धनुर आदाय सात्यकिः करॊधमूर्छितः दवाभ्यां मद्रेश्वरं विद्ध्वा सारथिं च तरिभिः शरैः ॥ 25 ॥

  26. ततः शल्यॊ महाराज सर्वांस तान दशभिः शरैः विव्याध सुभृशं करुद्धस तॊत्त्रैर इव महाद्विपान ॥ 26 ॥

  27. ते वार्यमाणाः समरे मद्रराज्ञा महारथाः न शेकुः परमुखे सथातुं तस्य शत्रुनिषूदनाः ॥ 27 ॥

  28. ततॊ दुर्यॊधनॊ राजा दृष्ट्वा शल्यस्य विक्रमम निहतान पाण्डवान मेने पाञ्चालान अथ सृञ्जयान ॥ 28 ॥

  29. ततॊ राजन महाबाहुर भीमसेनः परतापवान संत्यज्य मनसा पराणान मद्राधिपम अयॊधयत ॥ 29 ॥

  30. नकुलः सहदेवश च सात्यकिश च महारथः परिवार्य तदा शल्यं समन्ताद वयकिरञ शरैः ॥ 30 ॥

  31. स चतुर्भिर महेष्वासैः पाण्डवानां महारथैः वृतस तान यॊधयाम आसा मद्रराजः परतापवान ॥ 31 ॥

  32. तस्य धर्मसुतॊ राजन कषुरप्रेण महाहवे चक्ररक्षं जघानाशु मद्रराजस्य पार्थिव ॥ 32 ॥

  33. तस्मिंस तु निहते शूरे चक्ररक्षे महारथे मद्रराजॊ ऽतिबलवान सैनिकान आस्तृणॊच छरैः ॥ 33 ॥

  34. समाच्छन्नांस ततस तांस तु राजन वीक्ष्य स सैनिकान चिन्तयाम आस समरे धर्मराजॊ युधिष्ठिरः ॥ 34 ॥

  35. कथं नु न भवेत सत्यं तन माधव वचॊ महत न हि करुद्धॊ रणे राजा कषपयेत बलं मम ॥ 35 ॥

  36. ततः सरथ नागाश्वाः पाण्डवाः पण्डु पूर्वज मद्रेश्वरं समासेदुः पीडयन्तः समन्ततः ॥ 36 ॥

  37. नानाशस्त्रौघबहुलां शस्त्रवृष्टिं समुत्थिताम वयधमत समरे राजन महाभ्राणीव मारुतः ॥ 37 ॥

  38. ततः कनकपुङ्खां तां शल्य कषिप्तां वियद गताम शरवृष्टिम अपश्याम शलभानाम इवाततिम ॥ 38 ॥

  39. ते शरा मद्रराजेन परेषिता रणमूर्धनि संपतन्तः सम दृश्यन्ते शलभानां वरजा इव ॥ 39 ॥

  40. मद्रराजधनुर मुक्तैः शरैः कनकभूषणैः निरन्तरम इवाकाशं संबभूव जनाधिप ॥ 40 ॥

  41. न पाण्डवानां नास्माकं तत्र कश चिद वयदृश्यत बाणान्ध कारे महति कृते तत्र महाभये ॥ 41 ॥

  42. मद्रराजेन बलिना लाघवाच छरवृष्टिभिः लॊड्यमानं तथा दृष्ट्वा पाण्डवानां बलार्णवम विस्मयं परमं जग्मुर देवगन्धर्वदानवाः ॥ 42 ॥

  43. स तु तान सर्वतॊ यत्ताञ शरैः संपीड्य मारिष धर्मराजम अवच्छाद्य सिंहवद वयनदन मुहुः ॥ 43 ॥

  44. ते छन्नाः समरे तेन पाण्डवानां महारथाः न शेकुस तं तदा युद्धे परत्युद्यातं महारथम ॥ 44 ॥

  45. धर्मराज पुरॊगास तु भीमसेनमुखा रथाः न जहुः समरे शूरं शल्यम आहवशॊभिनम ॥ 45 ॥

Reach this point to mark the section finished.

Continue to अध्याय 13

Previous: अध्याय 11