धर्मDharmic Data

शल्यपर्व · Shalya Parva

अध्याय 11

  1. [स] पतितं परेक्ष्य यन्तारं शल्यः सर्वायसीं गदाम आदाय तरसा राजंस तस्थौ गिरिर इवाचलः ॥ 1 ॥

  2. तं दीप्तम इव कालाग्निं पाशहस्तम इवान्तकम सशृङ्गम इव कौलासं सवज्रम इव वासवम ॥ 2 ॥

  3. सशूलम इव हर्यक्षं वने मत्तम इव दविपम जवेनाभ्यपतद भीमः परगृह्य महतीं गदाम ॥ 3 ॥

  4. ततः शङ्खप्रणादश च तूर्याणां च सहस्रशः सिंहनादश च संजज्ञे शूराणां हर्षवर्धनः ॥ 4 ॥

  5. परेक्षन्तः सर्वतस तौ हि यॊधा यॊधमहाद्विपौ तावकाश च परे चैव साधु साध्व इत्य अथाब्रुवन ॥ 5 ॥

  6. न हि मद्राधिपाद अन्यॊ रामाद वा यदुनन्दनात सॊढुम उत्सहते वेगं भीमसेनस्य संयुगे ॥ 6 ॥

  7. तथा मद्राधिपस्यापि गदा वेगं महात्मनः सॊढुम उत्सहते नान्यॊ यॊधॊ युधि वृकॊदरात ॥ 7 ॥

  8. तौ वृषाव इव नर्दन्तौ मण्डलानि विचेरतुः आवल्गितौ गदाहस्तौ मद्रराजवृकॊदरौ ॥ 8 ॥

  9. मण्डलावर्त मार्गेषु गदा विहरणेषु च निर्विशेषम अभूद युद्धं तयॊः पुरुषसिंहयॊः ॥ 9 ॥

  10. तप्तहेममयैः शुभ्रैर बभूव भयवर्धनी अग्निज्वालैर इवाविद्धा पट्टैः शल्यस्य सा गदा ॥ 10 ॥

  11. तथैव चरतॊ मार्गान मण्डलेषु महात्मनः विद्युद अभ्रप्रतीकाशा भीमस्य शुशुभे गदा ॥ 11 ॥

  12. ताडिता मद्रराजेन भीमस्य गदया गदा दीप्यमानेव वै राजन ससृजे पावकार्चिषः ॥ 12 ॥

  13. तथा भीमेन शल्यस्य ताडिता गदया गदा अङ्गारवर्षं मुमुचे तद अद्भुतम इवाभवत ॥ 13 ॥

  14. दन्तैर इव महानागौ शृङ्गैर इव महर्षभौ तॊत्त्रैर इव तदान्यॊन्यं गदा गराभ्यां निजघ्नतुः ॥ 14 ॥

  15. तौ गदा निहतैर गात्रैः कषणेन रुधिरॊक्षितौ परेक्षणीयतराव आस्तां पुष्पिताव इव किंशुकौ ॥ 15 ॥

  16. गदया मद्रराजेन सव्यदक्षिणम आहतः भीमसेनॊ महाबाहुर न चचालाचलॊ यथा ॥ 16 ॥

  17. तथा भीम गदा वेगैस ताड्यमानॊ मुहुर मुहुः शल्यॊ न विव्यथे राजन दन्तिनेवाहतॊ गिरिः ॥ 17 ॥

  18. शुश्रुवे दिक्षु सर्वासु तयॊः पुरुषसिंहयॊः गदा निपातसंह्रादॊ वज्रयॊर इव निस्वनः ॥ 18 ॥

  19. निवृत्य तु महावीर्यौ समुच्छ्रितगदाव उभौ पुनर अन्तरमार्गस्थौ मण्डलानि विचेरतुः ॥ 19 ॥

  20. अथाभ्येत्य पदान्य अष्टौ संनिपातॊ ऽभवत तयॊः उद्यम्य लॊहदण्डाभ्याम अतिमानुष कर्मणॊः ॥ 20 ॥

  21. परार्थयानौ तदान्यॊ ऽनयं मण्डलानि विचेरतुः करियाविशेषं कृतिनौ दर्शयाम आसतुस तदा ॥ 21 ॥

  22. अथॊद्यम्य गदे घॊरे सशृङ्गाव इव पर्वतौ ताव आजघ्नातुर अन्यॊन्यं यथा भूमिचलॊ ऽचलौ ॥ 22 ॥

  23. तौ परस्परवेगाच च गदाभ्यां च भृशाहतौ युगपत पेततुर वीराव उभाव इन्द्रध्वजाव इव ॥ 23 ॥

  24. उभयॊः सेनयॊर वीरास तदा हाहाकृतॊ ऽभवन भृशं मर्मण्य अभिहताव उभाव आस्तां सुविह्वलौ ॥ 24 ॥

  25. ततः सगदम आरॊप्य मद्राणाम ऋषभं रथे अपॊवाह कृपः शल्यं तूर्णम आयॊधनाद अपि ॥ 25 ॥

  26. कषीबवद विह्वलत्वात तु निमेषात पुनर उत्थितः भीमसेनॊ गदापाणिः समाह्वयत मद्रपम ॥ 26 ॥

  27. ततस तु तावकाः शूरा नानाशस्त्रसमायुताः नाना वादित्रशब्देन पाण्डुसेनाम अयॊधयन ॥ 27 ॥

  28. भुजाव उच्छ्रित्य शस्त्रं च शब्देन महता ततः अभ्यद्रवन महाराज दुर्यॊधन पुरॊगमाः ॥ 28 ॥

  29. तद अनीकम अभिप्रेक्ष्य ततस ते पाण्डुनन्दनाः परययुः सिंहनादेन दुर्यॊधन वधेप्सया ॥ 29 ॥

  30. तेषाम आपततां तूर्णं पुत्रस ते भरतर्षभ परासेन चेकितानं वै विव्याध हृदये भृशम ॥ 30 ॥

  31. स पपात रथॊपस्थे तव पुत्रेण ताडितः रुधिरौघपरिक्लिन्नः परविश्य विपुलं तमः ॥ 31 ॥

  32. चेकितानं हतं दृष्ट्वा पाण्डवानां महारथाः परसक्तम अभ्यवर्षन्त शरवर्षाणि भागशः ॥ 32 ॥

  33. तावकानाम अनीकेषु पाण्डवा जितकाशिनः वयचरन्त महाराज परेक्षणीयाः समन्ततः ॥ 33 ॥

  34. कृपश च कृतवर्मा च सौबलश च महाबलः अयॊधयन धर्मराजं मद्रराजपुरस्कृताः ॥ 34 ॥

  35. भारद्वाजस्य हन्तारं भूरि वीर्यपराक्रमम दुर्यॊधनॊ महाराज धृष्टद्युम्नम अयॊधयत ॥ 35 ॥

  36. तरिसाहस्रा रथा राजंस तव पुत्रेण चॊदिताः अयॊधयन्त विजयं दरॊणपुत्र पुरस्कृताः ॥ 36 ॥

  37. विजये धृतसंकाल्पाः समभित्यक्तजीविताः पराविशंस तावका राजन हंसा इव महत सरः ॥ 37 ॥

  38. ततॊ युद्धम अभूद घॊरं परस्परवधैषिणाम अन्यॊन्यवधसंयुक्तम अन्यॊन्यप्रीतिवर्धनम ॥ 38 ॥

  39. तस्मिन परवृत्ते संग्रामे राजन वीरवरक्षये अनिलेनेरितं घॊरम उत्तस्थौ पार्थिवं रजः ॥ 39 ॥

  40. शरवणान नामधेयानां पाण्डवानां च कीर्तनात परस्परं विजानीमॊ ये चायुध्यन्न अभीतवत ॥ 40 ॥

  41. तद रजः पुरुषव्याघ्र शॊणितेन परशामितम दिशश च विमला जज्ञुस तस्मिन रजसि शामिते ॥ 41 ॥

  42. तथा परवृत्ते संग्रामे घॊररूपे भयानके तावकानां परेषां च नासीत कश चित पराङ्मुखः ॥ 42 ॥

  43. बरह्मलॊकपरा भूत्वा परार्थयन्तॊ जयं युधि सुयुद्धेन पराक्रान्ता नराः सवर्गम अभिप्सवः ॥ 43 ॥

  44. भर्तृपिण्ड विमॊक्ष अर्थं भर्तृकार्यविनिश्चिताः सवर्गसंसक्तमनसॊ यॊधा युयुधिरे तदा ॥ 44 ॥

  45. नानारूपाणि शस्त्राणि विसृजन्तॊ महारथाः अन्यॊन्यम अभिगर्जन्तः परहरन्तः परस्परम ॥ 45 ॥

  46. हतविध्यत गृह्णीत परहरध्वं निकृन्तत इति सम वाचः शरूयन्ते तव तेषां च वै बले ॥ 46 ॥

  47. ततः शल्यॊ महाराज धर्मराजं युधिष्ठिरम विव्याध निशितैर बाणैर हन्तुकामॊ महारथम ॥ 47 ॥

  48. तस्य पार्थॊ महाराज नाराचान वै महारथम मर्माण्य उद्दिश्य मर्मज्ञॊ निचखान हसन्न इव ॥ 48 ॥

  49. तं वार्य पाण्डवं बाणैर हन्तुकामॊ महायशाः विव्याध समरे करुद्धॊ बहुभिः कङ्कपत्रिभिः ॥ 49 ॥

  50. अथ भूयॊ महाराज शरेण नतपर्वणा युधिष्ठिरं समाजघ्ने सर्वसैन्यस्य पश्यतः ॥ 50 ॥

  51. धर्मराजॊ ऽपि संक्रुद्धॊ मद्रराजं महायशाः विव्याध निशितैर बाणैः कङ्कबर्हिण वाजितैः ॥ 51 ॥

  52. चन्द्र सेनं च सप्तत्या सूतं च नवभिः शरैः दरुमसेनं चतुःषष्ट्या निजघान महारथः ॥ 52 ॥

  53. चक्ररक्षे हते शल्यः पाण्डवेन महात्मना निजघान ततॊ राजंश चेदीन वै पञ्चविंशतिम ॥ 53 ॥

  54. सात्यकिं पञ्चविंशत्या भीमसेनं च पञ्चभिः माद्रीपुत्रौ शतेनाजौ विव्याध निशितैः शरैः ॥ 54 ॥

  55. एवं विचरतस तस्य संग्रामे राजसत्तम संप्रेषयच छितान पार्तः शरान आशीविषॊपमान ॥ 55 ॥

  56. धवजाग्रं चास्य समरे कुन्तीपुत्रॊ युधिष्ठिरः परमुखे वर्तमानस्य भल्लेनापहरद रथात ॥ 56 ॥

  57. पाण्डुपुत्रेण वै तस्य केतुं छिन्नं महात्मना निपतन्तम अपश्याम गिरिशृङ्गम इवाहतम ॥ 57 ॥

  58. धवजं निपतितं दृष्ट्वा पाण्डवं च वयवस्थितम संक्रुद्धॊ मद्रराजॊ ऽभूच छरवर्षं मुमॊच ह ॥ 58 ॥

  59. शल्यः सायकवर्षेण पर्जन्य इव वृष्टिमान अभ्यवर्षद अमेयात्मा कषत्रियं कषत्रियर्षभः ॥ 59 ॥

  60. सात्यकिं भीमसेनं च माद्रीपुत्रौ च पाण्डवौ एकैकं पञ्चभिर विद्ध्वा युधिष्ठिरम अपीडयत ॥ 60 ॥

  61. ततॊ बाणमयं जालं विततं पाण्डवॊर असि अपश्याम महाराज मेघजालम इवॊद्गतम ॥ 61 ॥

  62. तस्या शल्यॊ रणे करुद्धॊ बाणैः संनतपर्वभिः दिशः परच्छादयाम आस परदिशश च महारथः ॥ 62 ॥

  63. ततॊ युधिष्ठिरॊ राजा बाणजालेन पीडितः बभूव हृतविक्रान्तॊ जम्भॊ वृत्र हणा यथा ॥ 63 ॥

Reach this point to mark the section finished.

Continue to अध्याय 12

Previous: अध्याय 10