[स] तथा निपातिते कर्णे तव सैन्ये च विद्रुते आश्लिष्य पार्थं दाशार्हॊ हर्षाद वचनम अब्रवीत ॥ 1 ॥
हतॊ बलभिदा वृत्रस तवया कर्णॊ धनंजय वधं वै कर्ण वृत्राभ्यां कथयिष्यन्ति मानवाः ॥ 2 ॥
वज्रिणा निहतॊ वृत्रः समयुगे भूरि तेजसा तवया तु निहतः कर्णॊ धनुषा निशितैः शरैः ॥ 3 ॥
तम इमं विक्रमं लॊके परथितं ते यशॊ वहम निवेदयावः कौन्तेय धर्मराजाय धीमते ॥ 4 ॥
वधं कर्णस्य संग्रामे दीर्घकालचिकीर्षितम निवेद्य धर्मराजस्य तवम आनृण्यं गमिष्यसि ॥ 5 ॥
तथेत्य उक्ते केशवस तु पार्थेन यदुपुङ्गवः पर्यवर्तयद अव्यग्रॊ रथं रथवरस्य तम ॥ 6 ॥
धृष्टद्युम्नं युधामन्युं माद्रीपुत्रौ वृकॊदरम युयुधानं च गॊविन्द इदं वचनम अब्रवीत ॥ 7 ॥
परान अभिमुखा यत्तास तिष्ठध्वं भद्रम अस्तु वः यावद आवेद्यते राज्ञे हतः कर्णॊ ऽरजुनेन वै ॥ 8 ॥
स तैः शूरैर अनुज्ञातॊ ययौ राजनिवेशनम पार्थम आदाय गॊविन्दॊ ददर्श च युधिष्ठिरम ॥ 9 ॥
शयानं राजशार्दूलं काञ्चने शयनॊत्तमे अगृह्णीतां च चरणौ मुदितौ पार्थिवस्य तौ ॥ 10 ॥
तयॊः परहर्षम आलाक्ष्य परहारांश चातिमानुषान राधेयं निहतंमत्वा समुत्तस्थौ युधिष्ठिरः ॥ 11 ॥
ततॊ ऽसमै याद यथावृत्तं वासुदेवः परियंवदः कथयाम आस कर्णस्य निधनं यदुनन्दनः ॥ 12 ॥
ईषद उत्स्मयमानस तु कृष्णॊ राजानम अब्रवीत युधिष्ठिरं हतामित्रं कृताञ्जालिर अथाच्युतः ॥ 13 ॥
दिष्ट्या गाण्डीवधन्वा च पाण्डवश च वृकॊदरः तवं चापि कुशली राजन माद्रीपुत्रौ च पाण्डवौ ॥ 14 ॥
मुक्ता वीर कषयाद अस्मात संग्रामाल लॊमहर्षणात कषिप्रम उत्तरकालानि कुरु कार्याणि पार्थिव ॥ 15 ॥
हतॊ वैकार्तनः करूरः सूतपुत्रॊ महाबलः दिष्ट्या जयसि राजेन्द्र दिष्ट्या वर्धसि पाण्डव ॥ 16 ॥
यः स दयूतजितां कृष्णां पराह सत्पुरुषाधमः तस्याद्य सूतपुत्रस्य भूमिः पिबति शॊणितम ॥ 17 ॥
शेते ऽसौ शरदीर्णाङ्गः शत्रुस ते कुरुपुंगव तं पाश्या पुरुषव्याघ्र विभिन्नं बहुधा शरैः ॥ 18 ॥
युधिष्ठिरस तु दाशार्हं परहृष्टः परत्यपूजयत दिष्ट्या दिष्ट्येति राजेन्द्र परीत्या चेदम उवाच ह ॥ 19 ॥
नैतच चित्रं महाबाहॊ तवायि देवकिनन्दन तवया सारथिना पार्थॊ यत कुर्याद अद्य पौरुषम ॥ 20 ॥
परगृह्य च कुरु शरेष्ठः साङ्गदं दक्षिणं भुजम उवाच धर्मभृत पार्थ उभौ तौ केशवार्जुनौ ॥ 21 ॥
नरनारायणौ देवौ कथितौ नारदेन ह धर्मसंस्थापने युक्तौ पुराणौ पुरुषॊत्तमौ ॥ 22 ॥
असकृच चापि मेधावी कृष्णा दवैपायनॊ मम कथाम एतां महाबाहॊ दिव्याम अकथयत परभुः ॥ 23 ॥
तव कृष्ण परभावेण गाण्डीवेन धनंजयः जयत्य अभिमुखाञ शत्रून न चासीद विमुखः कव चित ॥ 24 ॥
जयश चैवा धरुवॊ ऽसमाकं न तव अस्माकं पराजयः यदा तवं युधि पार्थस्य सारथ्यमुपजग्मिवान ॥ 25 ॥
एवम उक्त्वा महाराज तं रथं हेमभूषितम दन्तवर्णैर हयैर युक्तं कालवालैर महारथः ॥ 26 ॥
आस्थाय पुरुषव्याघ्रः सवबलेनाभिसंवृतः कृष्णार्जुनाभ्यां वीराभ्याम अनुमन्य ततः परियम ॥ 27 ॥
आगतॊ बहु वृत्तान्तं दरष्टुम आयॊधनं तदा आभाषमाणस तौ वीराव उभौ माधव फल्गुनौ ॥ 28 ॥
स ददर्श रणे कर्णं शयानं पुरुषर्षभम गाण्डीवमुक्तैर विशिखैः सर्वतः शकलीकृतम ॥ 29 ॥
सपुत्रं निहतं दृष्ट्वा कर्णं राजा युधिष्ठिरः परशशंस नरव्याघ्राव उभौ माधव पाण्डवौ ॥ 30 ॥
अद्य राजास्मि गॊविन्द पृथिव्यां भरातृभिः सह तवया नाथेन वीरेण विदुषा परिपालितः ॥ 31 ॥
हतं दृष्ट्वा नरव्याघ्रं राधेयम अभिमानिनम निराशॊ ऽदय दुरात्मासौ धार्तराष्ट्रॊ भविष्यति जीविताच चापि राज्याच च हते कर्णे महारथे ॥ 32 ॥
तवत्प्रसादाद वयं चैव कृतार्थाः पुरुषर्षभ तवं च गाण्डीवधन्वा च विजयी यदुनन्दन दिष्ट्या जयसि गॊविन्द दिष्ट्या कर्णॊ निपातितः ॥ 33 ॥
एवं स बहुशॊ हृष्टः परशशंस जनार्दनम अर्जुनं चापि राजेन्द्र धर्मराजॊ युधिष्ठिरः ॥ 34 ॥
ततॊ भीमप्रभृतिभिः सार्वैश च भरातृभिर वृतम वर्धयन्ति सम राजानं हर्ष युक्ता महारथाः ॥ 35 ॥
नकुलः साहदेवश च पाण्डावश च वृकॊदरः सात्यकिश च महाराज वृष्णीनां परवरॊ रथः ॥ 36 ॥
धृष्टद्युम्नः शिखण्डी च पाण्डुपाञ्चाल सृञ्जयाः पूजयन्ति सम कौन्तेयं निहते सूतनन्दने ॥ 37 ॥
ते वर्धयित्वा नृपतिं पाण्डुपुत्रं युधिष्ठिरम जितकाशिनॊ लब्धलक्षा युद्धशौण्डाः परहारिणः ॥ 38 ॥
सतुवन्तः सतवयुक्ताभिर वाग्भिः कृष्णौ परंतपौ जग्मुः सवशिबिरायैव मुदा युक्ता महारथाः ॥ 39 ॥
एवम एष कषयॊ वृत्तः सुमहाँल लॊमहर्षणः तव दुर्मन्त्रिते राजन्न अतीतं किं नु शॊचसि ॥ 40 ॥
[वै] शरुत्वा तद अप्रियं राजन धृतराष्ट्रॊ महीपतिः पपात भूमौ निश्चेष्टः कौरव्यः परमार्तिवान तथा सत्यव्रता देवी गान्धारी धर्मदर्शिनी ॥ 41 ॥
तं परत्यगृह्णाद विदुरॊ नृपतिं संजयस तथा पर्याश्वासयतश चैवं ताव उभाव एव भूमिपम ॥ 42 ॥
तथैवॊत्थापयाम आसुर गान्धारीं राजयॊषितः ताभ्याम आश्वसितॊ राजा तूष्णीम आसीद विचेतनः ॥ 43 ॥
कर्णपर्व · Karna Parva
अध्याय 69
Reach this point to mark the section finished.
Continue to अध्याय 1