धर्मDharmic Data

कर्णपर्व · Karna Parva

अध्याय 9

  1. [स] ततः कर्णॊ महेष्वासः पाण्डवानाम अनीकिनीम जघान समरे शूरः शरैः संनतपर्वभिः ॥ 1 ॥

  2. तथैव पाण्डवा राजंस तव पुत्रस्य वाहिनीम कर्णस्य परमुखे करुद्धा विनिजघ्नुर महारथाः ॥ 2 ॥

  3. कर्णॊ राजन महाबाहुर नयवधीत पाण्डवीं चमूम नाराचैर अर्करश्म्य आभैः कर्मार परिमार्जितैः ॥ 3 ॥

  4. तत्र भारत कर्णेन नाराचैस ताडिता गजाः नेदुः सेदुश च मम्लुश च बभ्रमुश च दिशॊ दश ॥ 4 ॥

  5. वध्यमाने बले तस्मिन सूतपुत्रेण मारिष नकुलॊ ऽभयद्रवत तूर्णं सूतपुत्रं महारणे ॥ 5 ॥

  6. भीमसेनस तथा दरौणिं कुर्वाणं कर्म दुष्करम विन्दानुविन्दौ कैकेयौ सात्यकिः समवारयत ॥ 6 ॥

  7. शरुतकर्माणम आयान्तं चित्रसेनॊ महीपतिः परतिविन्ध्यं तथा चित्रश चित्रकेतन कार्मुकः ॥ 7 ॥

  8. दुर्यॊधनस तु राजानं धर्मपुत्रं युधिष्ठिरम संशप्तक गणान करुद्धॊ अभ्यधावद धनंजयः ॥ 8 ॥

  9. धृष्टद्युम्नः कृपं चाथ तस्मिन वीरवरक्षये शिखण्डी कृतवर्माणं समासादयद अच्युतम ॥ 9 ॥

  10. शरुतकीर्तिस तथा शल्यं माद्रीपुत्रः सुतं तव दुःशासनं महाराज सहदेवः परतापवान ॥ 10 ॥

  11. केकयौ सात्यकिं युद्धे शरवर्षेण भास्वता सात्यकिः केकयौ चैव छादयाम आस भारत ॥ 11 ॥

  12. ताव एनं भारतौ वीरं जघ्नतुर हृदये भृशम विषाणाभ्यां यथा नागौ परतिनागं महाहवे ॥ 12 ॥

  13. शरसंभिन्न वर्माणौ ताव उभौ भरातरौ रणे सात्यकिं सत्यकर्माणं राजन विव्यधतुः शरैः ॥ 13 ॥

  14. तौ सात्यकिर महाराज परहसन सर्वतॊदिशम छादयञ शरवर्षेण वारयाम आस भारत ॥ 14 ॥

  15. वार्यमाणॊ ततस तौ तु शैनेय शरवृष्टिभिः शैनेयस्य रथं तूर्णं छादयाम आसतुः शरैः ॥ 15 ॥

  16. तयॊस तु धनुषी चित्रे छित्त्वा शौरिर महाहवे अथ तौ सायकैस तीक्ष्णैश छादयाम आस दुःसहैः ॥ 16 ॥

  17. अथान्ये धनुषी मृष्टे परगृह्य च महाशरान सात्यकिं पूरयन्तौ तौ चेरतुर लघु सुष्ठु च ॥ 17 ॥

  18. ताभ्यां मुक्ता महाबाणाः कङ्कबर्हिण वाससः दयॊतयन्तॊ दिशः सर्वाः संपेतुः सवर्णभूषणाः ॥ 18 ॥

  19. बाणान्ध कारम अभवत तयॊ राजन महाहवे अन्यॊन्यस्य धनुश चैव चिच्छिदुस ते महारथाः ॥ 19 ॥

  20. ततः करुद्धॊ महाराज सात्वतॊ युद्धदुर्मदः धनुर अन्यत समादाय स जयं कृत्वा च संयुगे कषुरप्रेण सुतीक्ष्णेन अनुविन्द शिरॊ ऽहरत ॥ 20 ॥

  21. तच्छिरॊ नयपतद भूमौ कुण्डलॊत्पीडितं महत शम्बरस्य शिरॊ यद्वन निहतस्य महारणे शॊषयन केकयान सर्वाञ जगामाशु वसुंधराम ॥ 21 ॥

  22. तं दृष्ट्वा निहतं शूरं भराता तस्य महारथः स जयम अन्यद धनुः कृत्वा शैनेयं परत्यवारयत ॥ 22 ॥

  23. स शक्त्या सात्यकिं विद्ध्वा सवर्णपुङ्खैः शिलाशितैः ननाद बलवन नादं तिष्ठ तिष्ठेति चाब्रवीत ॥ 23 ॥

  24. स सात्यकिं पुनः करुद्धः केकयानां महारथः शरैर अग्निशिखाकारैर बाह्वॊर उरसि चार्दयत ॥ 24 ॥

  25. स शरैः कषतसर्वाङ्गः सात्वतः सत्त्वकॊविदः रराज समरे राजन स पत्र इव किंशुकः ॥ 25 ॥

  26. सात्यकिः समरे विद्धः केकयेन महात्मना केकयं पञ्चविंशत्या विव्याध परहसन्न इव ॥ 26 ॥

  27. शतचन्द्र चिते गृह्य चर्मणी सुभुजौ तु तौ वयरॊचेतां महारङ्गे निस्त्रिंशवरधारिणौ यथा देवासुरे युद्धे जम्भ शक्रौ महाबलौ ॥ 27 ॥

  28. मण्डलानि ततस तौ च विचरन्तौ महारणे अन्यॊन्यम असिभिस तूर्णं समाजघ्नतुर आहवे ॥ 28 ॥

  29. केकयस्य ततश चर्म दविधा चिच्छेद सात्वतः सात्यकेश च तथैवासौ चर्म चिच्छेद पार्थिवः ॥ 29 ॥

  30. चर्म छित्त्वा तु कैकेयस तारागणशतैर वृतम चचार मण्डलान्य एव गतप्रत्यागतानि च ॥ 30 ॥

  31. तं चरन्तं महारङ्गे निस्त्रिंशवरधारिणम अपहस्तेन चिच्छेद शैनेयस तवरयान्वितः ॥ 31 ॥

  32. स वर्मा केकयॊ राजन दविधा छिन्नॊ महाहवे निपपात महेष्वासॊ वज्रनुन्न इवाचलः ॥ 32 ॥

  33. तं निहत्य रणे शूरः शैनेयॊ रथसत्तमः युधामन्यॊ रथं तूर्णम आरुरॊह परंतपः ॥ 33 ॥

  34. ततॊ ऽनयं रथम आस्थाय विधिवत कल्पितं पुनः केकयानां महत सैन्यं वयधमत सात्यकिः शरैः ॥ 34 ॥

  35. सा वध्यमाना समरे केकयस्य महाचमूः तम उत्सृज्य रथं शत्रुं परदुद्राव दिशॊ दश ॥ 35 ॥

Reach this point to mark the section finished.

Continue to अध्याय 10

Previous: अध्याय 8