धर्मDharmic Data

कर्णपर्व · Karna Parva

अध्याय 8

  1. [स] ते सेने ऽनयॊन्यम आसाद्य परहृष्टाश्वनरद्विपे बृहत्यौ संप्रजह्राते देवासुरचमूपमे ॥ 1 ॥

  2. ततॊ गजा रथाश चाश्वाः पत्तयश च महाहवे संप्रहारं परं चक्रुर देव पाप्म परणाशनम ॥ 2 ॥

  3. पूर्णचन्द्रार्क पद्मानां कान्ति तविड गन्धतः समैः उत्तमाङ्गैर नृसिंहानां नृसिंहास तस्तरुर महीम ॥ 3 ॥

  4. अर्धचन्द्रैस तथा भल्लैः कषुरप्रैर असि पट्टिशैः परश्वधैश चाप्य अकृन्तन्न उत्तमाङ्गानि युध्यताम ॥ 4 ॥

  5. वयायतायत बाहूनां वयायतायत बाहुभिः वयायता बाहवः पेतुश छिन्नमुष्ट्य आयुधाङ्गदाः ॥ 5 ॥

  6. तैः सफुरद्भिर मही भाति रक्ताङ्गुलि तलैस तदा गरुड परहतैर उग्रैः पञ्चास्यैर इव पन्नगैः ॥ 6 ॥

  7. हयस्यन्दन नागेभ्यः पेतुर वीरा दविषद धताः विमानेभ्यॊ यथा कषीणे पुण्ये सवर्गसदस तथा ॥ 7 ॥

  8. गदाभिर अन्यैर गुर्वीभिः परिघैर मुसलैर अपि पॊथिताः शतशः पेतुर वीरा वीरतरै रणे ॥ 8 ॥

  9. रथा रथैर विनिहता मत्ता मत्तैर दविपैर दविपाः सादिनः सादिभिश चैव तस्मिन परमसंकुले ॥ 9 ॥

  10. रथा वररथैर नागैर अश्वारॊहाश च पत्तिभिः अश्वारॊहैः पदाताश च निहता युधि शेरते ॥ 10 ॥

  11. रथाश्वपत्तयॊ नागै रथैर नागाश च पत्तयः रथपत्तिद्विपाश चाश्वैर नृभिश चाश्वरथद्विपाः ॥ 11 ॥

  12. रथाश्वेभ नराणां च नराश्वेभ रथैः कृतम पाणिपादैश च शस्त्रैश च रथैश च कदनं महत ॥ 12 ॥

  13. तथा तस्मिन बले शूरैर वध्यमाने हते ऽपि च अस्मान अभ्यागमन पार्था वृकॊदर पुरॊगमाः ॥ 13 ॥

  14. धृष्टद्युम्नः शिखण्डी च दरौपदेयाः परभद्रकाः सात्यकिश चेकितानश च दरविडैः सैनिकैः सह ॥ 14 ॥

  15. भृता वित्तेन महता पाण्ड्याश चौड्राः स केरलाः वयूढॊरस्का दीर्घभुजाः परांशवः परियदर्शनाः ॥ 15 ॥

  16. आपीडिनॊ रक्तदन्ता मत्तमातङ्गविक्रमाः नाना विराग वसना गन्धचूर्णावचूर्णिताः ॥ 16 ॥

  17. बद्धासयः पाशहस्ता वारणप्रतिवारणाः समानमृत्यवॊ राजन्न अनीकस्थाः परस्परम ॥ 17 ॥

  18. कलापिनश चापहस्ता दीर्घकेशाः परियाहवाः पत्तयः सात्यकेर अन्ध्रा घॊररूपपराक्रमाः ॥ 18 ॥

  19. अथापरे पुनः शूराश चेदिपाञ्चालकेकयाः करूषाः कॊसलाः काश्या मागधाश चापि दुद्रुवुः ॥ 19 ॥

  20. तेषां रथाश च नागाश च परवराश चापि पत्तयः नानाविध रवैर हृष्टा नृत्यन्ति च हसन्ति च ॥ 20 ॥

  21. तस्य सैन्यस्य महतॊ महामात्रवरैर वृतः मध्यं वृकॊदरॊ ऽभयागात तवदीयं नागधूर गतः ॥ 21 ॥

  22. स नागप्रवरॊ ऽतयुग्रॊ विधिवत कल्पितॊ बभौ उदयाद्र्य अग्र्यभवनं यथाभ्युदित भास्करम ॥ 22 ॥

  23. तस्यायसं वर्म वरं वररत्नविभूषितम तारॊद्भासस्य नभसः शारदस्य समत्विषम ॥ 23 ॥

  24. स तॊमरप्रासकरश चारु मौलिः सवलंकृतः चरन मध्यंदिनार्काभस तेजसा वयदहद रिपून ॥ 24 ॥

  25. तं दृष्ट्वा दविरदं दूरात कषेमधूर्तिर दविपस्थितः आह्वयानॊ ऽभिदुद्राव परमनाः परमनस्तरम ॥ 25 ॥

  26. तयॊः समभवद युद्धं दविपयॊर उग्ररूपयॊः यदृच्छया दरुमवतॊर महापर्वतयॊर इव ॥ 26 ॥

  27. संसक्तनागौ तौ वीरौ तॊमरैर इतरेतरम बलवत सूर्यरश्म्य आभैर भित्त्वा भित्त्वा विनेदतुः ॥ 27 ॥

  28. वयपसृत्य तु नागाभ्यां मडलानि विचेरतुः परगृह्य चैव धनुषी जघ्नतुर वै परस्परम ॥ 28 ॥

  29. कष्वेडितास्फॊटित रवैर बाणशब्दैश च सर्वशः तौ जनान हर्षयित्वा च सिंहनादान परचक्रतुः ॥ 29 ॥

  30. समुद्यतकराभ्यां तौ दविपाभ्यां कृतिनाव उभौ वातॊद्धूत पताकाभ्यां युयुधाते महाबलौ ॥ 30 ॥

  31. ताव अन्यॊन्यस्य धनुषी छित्त्वान्यॊन्यं विनेदतुः शक्तितॊमर वर्षेण परावृण मेघाव इवाम्बुभिः ॥ 31 ॥

  32. कषेमधूर्तिस तदा भीमं तॊमरेण सतनान्तरे निर्बिभेद तु वेगेन षड्भिश चाप्य अपरैर नदन ॥ 32 ॥

  33. स भीमसेनः शुशुभे तॊमरैर अङ्गमाश्रितैः करॊधदीप्तवपुर मेघैः सप्त सप्तिर इवांशुमान ॥ 33 ॥

  34. ततॊ भास्करवर्णाभम अञ्जॊ गतिमय समयम ससर्ज तॊमरं भीमः परत्यमित्राय यत्नवान ॥ 34 ॥

  35. ततः कुलूताधिपतिश चापम आयम्य सायकैः दशभिस तॊमरं छित्त्वा शक्त्या विव्याध पाण्डवम ॥ 35 ॥

  36. अथ कार्मुकम आदाय महाजलद निस्वनम रिपॊर अभ्यर्दयन नागम उन्मदः पाण्डवः शरैः ॥ 36 ॥

  37. स शरौघार्दितॊ नागॊ भीमसेनेन संयुगे निगृह्यमाणॊ नातिष्ठद वातध्वस्त इवाम्बुदः ॥ 37 ॥

  38. ताम अभ्यधावद दविरदं भीमसेनस्य नागराट महावातेरितं मेघं वातॊद्धूत इवाम्बुदः ॥ 38 ॥

  39. संनिवर्त्यात्मनॊ नागं कषेमधूर्तिः परयत्नतः विव्याधाभिद्रुतं बाणैर भीमसेनं स कुञ्जरम ॥ 39 ॥

  40. ततः साधु विसृष्टेन कषुरेण पुरुषर्षभः छित्त्वा शरासनं शत्रॊर नागम आमित्रम आर्दयत ॥ 40 ॥

  41. ततः खजा कया भीमं कषेमधूर्तिः पराभिनत जघान चास्य दविरदं नाराचैः सर्वमर्मसु ॥ 41 ॥

  42. पुरा नागस्य पतनाद अवप्लुत्य सथितॊ महीम भीमसेनॊ रिपॊर नागं गदया समपॊथयत ॥ 42 ॥

  43. तस्मात परमथितान नागात कषेमधूर्तिम अवद्रुतम उद्यतासिम उपायान्तं गदयाहन वृकॊदरः ॥ 43 ॥

  44. स पपात हतः सासिर वयसुः सवम अभितॊ दविपम वज्रप्ररुग्णम अचलं सिंहॊ वज्रहतॊ यथा ॥ 44 ॥

  45. निहतं नृपतिं दृष्ट्वा कुलूतानां यशस्करम पराद्रवद वयथिता सेना तवदीया भरतर्षभ ॥ 45 ॥

Reach this point to mark the section finished.

Continue to अध्याय 9

Previous: अध्याय 7