[स] शरुतकर्मा महाराज चित्रसेनं महीपतिम आजघ्ने समरे करुद्धः पञ्चाशद्भिः शिलीमुखैः ॥ 1 ॥
अभिसारस तु तं राजा नवभिर निशितैः शरैः शरुतकर्माणम आहत्य सूतं विव्याध पञ्चभिः ॥ 2 ॥
शरुतकर्मा ततः करुद्धश चित्रसेनं चमूमुखे नाराचेन सुतीक्ष्णेन मर्म देशे समर्दयत ॥ 3 ॥
एतस्मिन्न अन्तरे चैनं शरुतकीर्तिर महायशाः नवत्या जगती पालं छादयाम आस पत्रिभिः ॥ 4 ॥
परतिलब्य ततः संज्ञां चित्रसेनॊ महारथः धनुश चिच्छेद भल्लेन तं च विव्याध सप्तभिः ॥ 5 ॥
सॊ ऽनयत कार्मुकम आदाय वेगघ्नं रुक्मभूषणम चित्ररूपतरं चक्रे चित्रसेनं शरॊर्मिभिः ॥ 6 ॥
स शरैश चित्रितॊ राजंश चित्रमाल्यधरॊ युवा युवेव समशॊभत स गॊष्ठीमध्ये सवलंकृतः ॥ 7 ॥
शरुतकर्माणम अथ वै नाराचेन सतनान्तरे बिभेद समरे करुद्धस तिष्ठ तिष्ठेति चाब्रवीत ॥ 8 ॥
शरुतकर्मापि समरे नाराचेन समर्दितः सुस्राव रुधिरं भूरि गौरिकाम्भ इवाचलः ॥ 9 ॥
ततः स रुधिराक्ताङ्गॊ रुधिरेण कृतच्छविः रराज समरे राजन स पुष्प इव किंशुकः ॥ 10 ॥
शरुतकर्मा ततॊ राजञ शत्रूणां समभिद्रुतः शत्रुसंवरणं कृत्वा दविधा चिच्छेद कार्मुकम ॥ 11 ॥
अथैनं छिन्नधन्वानं नाराचानां तरिभिः शतैः विव्याध भरतश्रेष्ठ शरुतकर्मा महायशाः ॥ 12 ॥
ततॊ ऽपरेण भल्लेन भृशं तीष्क्णेन स तवरः जहार स शिरस तराणं शिरस तस्य महात्मनः ॥ 13 ॥
तच्छिरॊ नयपतद भूमौ सुमहच चित्रवर्मणः यदृच्छया यथा चन्द्रश चयुतः सवर्गान महीतले ॥ 14 ॥
राजानं निहतं दृष्ट्वा अभिसारं च मारिष अभ्यद्रवन्त वेगेन चित्रसेनस्य सैनिकाः ॥ 15 ॥
ततः करुद्धॊ महेष्वासस तत सैन्यं पराद्रवच छरैः अन्तकाले यथा करुद्धः सर्वभूतानि परेतराट दरावयन्न इषुभिस तूर्णं शरुतकर्मा वयरॊचत ॥ 16 ॥
परतिविन्ध्यस ततश चित्रं भित्त्वा पञ्चभिर आशुगैः सारथिं तरिभिर आनर्च्छद धवजम एकेषुणा ततः ॥ 17 ॥
तं चित्रॊ नवभिर भल्लैर बाह्वॊर उरसि चार्दयत सवर्णपुङ्खैः शिला धौतैः कङ्कबर्हिण वाजितैः ॥ 18 ॥
परतिविन्ध्यॊ धनुस तस्य छित्त्वा भारत सायकैः पञ्चभिर निशितैर बाणैर अथैनं संप्रजघ्निवान ॥ 19 ॥
ततः शक्तिं महाराज हेमदण्डां दुरासदाम पराहिणॊत तव पुत्राय घॊराम अग्निशिखाम इव ॥ 20 ॥
ताम आपतन्तीं सहसा शक्तिम उल्काम इवाम्बरात दविधा चिच्छेद समरे परतिविन्ध्यॊ हसन्न इव ॥ 21 ॥
सा पपात तदा छिन्ना परतिविन्ध्य शरैः शितैः युगान्ते सर्वभूतानि तरासयन्ती यथाशनिः ॥ 22 ॥
शक्तिं तां परहतां दृष्ट्वा चित्रॊ गृह्य महागदाम परतिविन्ध्याय चिक्षेप रुक्मजालविभूषिताम ॥ 23 ॥
सा जघान हयांस तस्य सारथिं च महारणे रथं परमृद्य वेगेन धरणीम अन्वपद्यत ॥ 24 ॥
एतस्मिन्न एव काले तु रथाद आप्लुत्य भारत शक्तिं चिक्षेप चित्राय सवर्णघण्टाम अलंकृताम ॥ 25 ॥
ताम आपतन्तीं जग्राह चित्रॊ राजन महामनाः ततस ताम एव चिक्षेप परतिविन्ध्याय भारत ॥ 26 ॥
समासाद्य रणे शूरं परतिविन्ध्यं महाप्रभा निर्भिद्य दक्षिणं बाहुं निपपात महीतले पतिताभासयच चैव तं देशम अशनिर यथा ॥ 27 ॥
परतिविन्ध्यस ततॊ राजंस तॊमरं हेमभूषितम परेषयाम आस संक्रुद्धश चित्रस्य वधकाम्यया ॥ 28 ॥
स तस्य देवावरणं भित्त्वा हृदयम एव च जगाम धरणीं तूर्णं महॊरग इवाशयम ॥ 29 ॥
स पपात तदा राजंस तॊमरेण समाहतः परसार्य विपुलौ बाहू पीनौ परिघसंनिभौ ॥ 30 ॥
चित्र्म संप्रेक्ष्य निहतं तावका रणशॊभिनः अभ्यद्रवन्त वेगेन परतिविन्ध्यं समन्ततः ॥ 31 ॥
सृजन्तॊ विविधान बाणाञ शतघ्नीश च स किङ्किणीः त एनं छादयाम आसुः सूर्यम अभ्रगणा इव ॥ 32 ॥
तान अपास्य महाबाहुः शरजालेन संयुगे वयद्रावयत तव चमूं वज्रहस्त इवासुरीम ॥ 33 ॥
ते वध्यमानाः समरे तावकाः पाण्डवैर नृप विप्रकीर्यन्त सहसा वातनुन्ना घना इव ॥ 34 ॥
विप्रद्रुते बले तस्मिन वध्यमाने समन्ततः दरौणिर एकॊ ऽभययात तूर्णं भीमसेनं महाबलम ॥ 35 ॥
ततः समागमॊ घॊरॊ बभूव सहसा तयॊः यथा देवासुरे युद्धे वृत्रवासवयॊर अभूत ॥ 36 ॥
कर्णपर्व · Karna Parva
अध्याय 10
Reach this point to mark the section finished.
Continue to अध्याय 11