धर्मDharmic Data

कर्णपर्व · Karna Parva

अध्याय 67

  1. [स] अथाब्रवीद वासुदेवॊ रथस्थॊ; राधेय दिष्ट्या समरसीह धर्मम परायेण नीचा वयसनेषु मग्ना; निन्दन्ति दैवं कुकृतं न तत तत ॥ 1 ॥

  2. यद दरौपदीम एकवस्त्रां सभायाम; आनाय्य तवं चैव सुयॊधनश च दुःशासनः शकुनिः सौबलश च; न ते कर्ण परत्यभात तत्र धर्मः ॥ 2 ॥

  3. यदा सभायां कौन्तेयम अनक्षज्ञं युधिष्ठिरम अक्षज्ञः शकुनिर जेता तदा धर्मः कव ते गतः ॥ 3 ॥

  4. यदा रजस्वलां कृष्णां दुःशासन वशे सथिताम सभायां पराहसः कर्ण कव ते धर्मस तदा गतः ॥ 4 ॥

  5. राज्यलुब्धः पुनः कर्ण समाह्वयसि पाण्डवम गान्धारराजम आश्रित्य कव ते धर्मस तदा गतः ॥ 5 ॥

  6. एवम उक्ते तु राधेये वासुदेवेन पाण्डवम मन्युर अभ्याविशत तीव्रः समृत्वा तत तद धनंजयम ॥ 6 ॥

  7. तस्या करॊधेन सर्वेभ्यः सरॊतॊभ्यस तेजसॊ ऽरचिषः परादुरासन महाराज तद अद्भुतम इवाभवत ॥ 7 ॥

  8. तं समीक्ष्य ततः कर्णॊ बरह्मास्त्रेण धनंजयम अभ्यवर्षत पुनर यत्नम अकरॊद रथसर्जने तद अस्त्रम अस्त्रेणावार्य परजहारास्य पाण्डवः ॥ 8 ॥

  9. ततॊ ऽनयद अस्त्रं कौन्तेयॊ दयितं जातवेदसः मुमॊच कर्णम उद्दिश्य तत परजज्वाल वै भृशम ॥ 9 ॥

  10. वारुणेन ततः कर्णः शमयाम आस पावकम जीमूतैश च दिशः सर्वाश चक्रे तिमिरदुर्दिनाः ॥ 10 ॥

  11. पाण्डवेयस तव असंभ्रान्तॊ वायव्यास्त्रेण वीर्यवान अपॊवाह तदाभ्राणि राधेयस्य परपश्यतः ॥ 11 ॥

  12. तं हस्तिकक्ष्या परवरं च बाणैः; सुवर्णमुक्ता मणिवज्र मृष्टम कालप्रयत्नॊत्तम शिल्पियत्नैः; कृतं सुरूपं वितमस्कम उच्चैः ॥ 12 ॥

  13. ऊर्जः करं तव सैन्यस्य नित्यम; अमित्रवित्रासनम ईड्य रूपम विख्यातम आदित्यसमस्य लॊके; तविषा समं पावकभानु चन्द्रैः ॥ 13 ॥

  14. ततः कषुरेणाधिरथेः किरीटी; सुवर्णपुङ्खेन शितेन यत्तः शरिया जवलन्तं धवजम उन्ममाथ; महारथस्याधिरथेर महात्मा ॥ 14 ॥

  15. यशश च धर्मश च जयश च मारिष; परियाणि सर्वाणि च तेन केतुना तदा कुरूणां हृदयानि चापतन; बभूव हाहेति च निस्वनॊ महान ॥ 15 ॥

  16. अथ तवरन कर्णवधाय पाण्डवॊ; महेन्द्रवज्रानल दण्डसंनिभम आदत्त पार्थॊ ऽञजलिकं निषङ्गात; सहस्ररश्मेर इव रश्मिम उत्तमम ॥ 16 ॥

  17. मर्मच छिदं शॊणितमांसदिग्धं; वैश्वानरार्क परतिमं महार्हम नराश्वनागासु हरं तर्यरत्निं; षड वाजम अज्ञॊ गतिम उग्रवेगम ॥ 17 ॥

  18. सहस्रनेत्राशनि तुल्यतेजसं; समानक्रव्यादम इवातिदुःसहम पिनाक नारायण चक्रसंनिभं; भयंकरं पराणभृतां विनाशनम ॥ 18 ॥

  19. युक्त्वा महास्त्रेण परेण मन्त्रविद; विकृष्य गाण्डीवम उवाच सस्वनम अयं महास्त्रॊ ऽपरतिमॊ धृतः शरः; शरीरभिच चासु हरश च दुर्हृदः ॥ 19 ॥

  20. तपॊ ऽसति तप्तं गुरवश च तॊषिता; मया यद इष्टं सुहृदां तथा शरुतम अनेन सत्येन निहन्त्व अयं शरः; सुदंशितः कर्णम अरिं ममाजितह ॥ 20 ॥

  21. इत्य ऊच्चिवांस तं सा मुमॊच बाणं; धनंजयः कर्णवधाय घॊरम कृत्याम अथर्वाङ्गिरसीम इवॊग्रां; दीप्ताम असह्यां युधि मृत्युनापि ॥ 21 ॥

  22. बरुवन किरीटी तम अतिप्रहृष्टॊ; अयं शरॊ मे विजयावहॊ ऽसतु जिघांसुर अर्केन्दुसम परभावः; कर्णं समाप्तिं नयतां यमाय ॥ 22 ॥

  23. तेनेषु वर्येण किरीटमाली; परहृष्टरूपॊ विजयावहेन जिघांसुर अर्केन्दुर समप्रभेण; चक्रे विषक्तं रिपुम आततायी ॥ 23 ॥

  24. तद उद्यतादित्य समानवर्चसं; शरन नभॊ मध्यग भास्करॊपमम वराङ्गम उर्व्याम अपतच चमूपतेर; दिवाकरॊ ऽसताद इव रक्तमण्डलः ॥ 24 ॥

  25. तद अस्य देही सततं सुखॊदितं; सवरूपम अत्यर्थम उदारकर्मणः परेण कृच्छ्रेण शरीरम अत्यजद; गृहं महर्द्धीव ससङ्गम ईश्वरः ॥ 25 ॥

  26. शरैर विभुग्नं वयसु तद विवर्मणः; पपात कर्णस्य शरीरम उच्छ्रितम सरवद वरणं गैरिकतॊय विस्रवं; गिरेर यथा वज्रहतं शिरस तथा ॥ 26 ॥

  27. देहात तु कर्णस्य निपातितस्य; तेजॊ दीप्तं खं विगाह्याचिरेण तद अद्भुतं सर्वमनुष्ययॊधाः; पश्यन्ति राजन निहते सम कर्णे ॥ 27 ॥

  28. तं सॊमकाः परेक्ष्य हतं शयानं; परीता नादं सह सैन्यैर अकुर्वन तूर्याणि चाजघ्नुर अतीव हृष्टा; वासांसि चैवादुधुवुर भुजांश च बलान्विताश चाप्य अपरे हय अनृत्यन्न; अन्यॊन्यम आश्लिष्य नदन्त ऊचुः ॥ 28 ॥

  29. दृष्ट्वा तु कर्णं भुवि निष्टनन्तं; हतं रथात सायकेनावभिन्नम महानिलेनाग्निम इवापविद्धं; यज्ञावसाने शयने निशान्ते ॥ 29 ॥

  30. शरैर आचितसर्वाङ्गः शॊणितौघपरिप्लुतः विभाति देहः कर्णस्य सवरश्मिभिर इवांशुमान ॥ 30 ॥

  31. परताप्य सेनाम आमित्रीं दीप्तैः शरगभस्स्तिभिः बलिनार्जुन कालेन नीतॊ ऽसतं कर्ण भास्करः ॥ 31 ॥

  32. अस्तं गच्छन्त्य अथादित्यः परभाम आदाय गच्छति एवं जीवितम आदाय कर्णस्येषुर जगाम ह ॥ 32 ॥

  33. अपराह्णे पराह्णस्य सूतपुत्रस्य मारिष छिन्नम अञ्जलिकेनाजौ सॊत्सेधम अपतच छिरः ॥ 33 ॥

  34. उपर्य उपरि सैन्यानां तस्य शत्रॊस तद अञ्जसा शिरः कर्णस्य सॊत्सेधम इषुः सॊ ऽपाहरद दरुतम ॥ 34 ॥

  35. [स] कर्णं तु शूरं पतितं पृथिव्यां; शराचितं शॊणितदिग्ध गात्रम दृष्ट्वा शयानं भुवि मद्रराजश; छिन्नध्वजेनापययौ रथेन ॥ 35 ॥

  36. कर्णे हते कुरवः पराद्रवन्त; भयार्दिता गाढविद्धाश च संख्ये अवेक्षमाणा मुहुर अर्जुनस्य; धवजं महान्तं वपुषा जवलन्तम ॥ 36 ॥

  37. सहस्रनेत्र परतिमानकर्मणः; सहस्रपत्र परतिमाननं शुभम सहस्ररश्मिर दिनसंक्षये यथा; तथापतत तस्य शिरॊ वसुंधराम ॥ 37 ॥

Reach this point to mark the section finished.

Continue to अध्याय 68

Previous: अध्याय 66