धर्मDharmic Data

कर्णपर्व · Karna Parva

अध्याय 66

  1. [स] ततॊ ऽपयाताः शरपात मात्रम; अवस्थिताः कुरवॊ भिन्नसेनाः विद्युत परकाशं ददृशुः समन्ताद; धनंजयास्त्रं समुदीर्यमाणम ॥ 1 ॥

  2. तद अर्जुनास्त्रं गरसते सम वीरान; वियत तथाकाशम अनन्त घॊषम करुद्धेन पार्थेन तदाशु सृष्टं; वधाय कर्णस्य महाविमर्दे ॥ 2 ॥

  3. रामाद उपात्तेन महामहिम्ना; आथर्वणेनारि विनाशनेन तद अर्जुनास्त्रं वयधमद दहन्तं; पार्थं च बाणैर निशितैर निजघ्ने ॥ 3 ॥

  4. ततॊ विमर्दः सुमहान बभूव; तस्यार्जुनस्याधिरथेश च राजन अन्यॊन्यम आसादयतॊः पृषत्कैर; विषाण घातैर दविपयॊर इवॊग्रैः ॥ 4 ॥

  5. ततॊ रिपुघ्नं समधत्त कर्णः; सुसंशितं सर्पमुखं जवलन्तम रौद्रं शरं संयति सुप्रधौतं; पार्थार्थम अत्यर्थ चिराय गुप्तम ॥ 5 ॥

  6. सदार्चितं चन्दनचूर्णशायिनं; सुवर्णनाली शयनं महाविषम परदीप्तम ऐरावत वंशसंभवं; शिरॊ जिहीर्षुर युधि फल्गुनस्य ॥ 6 ॥

  7. तम अब्रवीन मद्रराजॊ महात्मा; वैकर्तनं परेक्ष्य हि संहितेषुम न कार्ण गरीवाम इषुर एष पराप्स्यते; संलक्ष्य संधत्स्व शरं शिरॊघ्नम ॥ 7 ॥

  8. अथाब्रवीत करॊधसंरक्तनेत्रः; कर्णः शल्यं संधितेषुः परसह्य न संधत्ते दविः शरं शल्य कर्णॊ; न मादृशाः शाठ्य युक्ता भवन्ति ॥ 8 ॥

  9. तथैवम उक्त्वा विससार्ज तं शरं; बलाहकं वर्षघनाभिपूजितम हतॊ ऽसि वै फल्गुन इत्य अवॊचत; ततस तवरन्न ऊर्जितम उत्ससर्ज ॥ 9 ॥

  10. संधीयमानं भुजगं दृष्ट्वा कर्णेन माधवः आक्रम्य सयन्दनं पद्भ्यां बलेन बलिनां वरः ॥ 10 ॥

  11. अवगाढे रथे भूमौ जानुभ्याम अगमन हयाः ततः शरः सॊ भयहनत किरीटं तस्य धीमतः ॥ 11 ॥

  12. अथार्जुनस्यॊत्तमगात्रभूषणं; धरावियद्द्यॊसलिलेषु विश्रुतम बलास्स्त्र सर्गॊत्तम यत्नमन्युभिः; शरेण मूर्ध्नः सा जहार सूतजः ॥ 12 ॥

  13. दिवाकरेन्दु जवलनग्रहत्विषां; सुवर्णमुक्ता मणिजालभूषितम पुरंदरार्थं तपसा परयत्नतः; सवयं कृतं यद भुवनस्य सूनुना ॥ 13 ॥

  14. महार्हरूपं दविषतां भयंकरं; विभाति चात्यर्थ सुखं सुगन्धि तत निजघ्नुषे देवरिपून सुरेश्वरः; सवयं ददौ यत सुमनाः किरीटिने ॥ 14 ॥

  15. हराम्बुपाखण्डल वित्तगॊप्तृभिः; पिनाक पाशाशनि सायकॊत्तमैः सुरॊत्तमैर अप्य अविषह्यम अर्दितुं; परसाह्य नागेन जहार यद वृषः ॥ 15 ॥

  16. तद उत्तमेषून मथितं विषाग्निना; परदीप्तम अर्चिष्मद अभिक्षिति परियम पपात पार्थस्य किरीटम उत्तमं; दिवाकरॊ ऽसताद इव पर्वताज जवलन ॥ 16 ॥

  17. ततः किरीटं बहुरत्नमण्डितं; जहार नागॊ ऽरजुन मूर्धतॊ बलात गिरेः सुजाताङ्कुर पुष्पितद्रुमं; महेन्द्रवज्रः शिखरं यथॊत्तमम ॥ 17 ॥

  18. मही वियद दयौः सलिलानि वायुना; यथा विभिन्नानि विभान्ति भारत तथैव शब्दॊ भुवनेष्व अभूत तदा; जना वयवस्यन वयथिताश च चस्खलुः ॥ 18 ॥

  19. ततः सामुद्ग्रथ्य सितेन वाससा; सवमूर्ध जानव्यथितः सथितॊ ऽरजुनः विभाति संपूर्णमरीच्चि भास्वता; शिरॊ गतेनॊदय पर्वतॊ यथा ॥ 19 ॥

  20. बलाहकाः कर्ण भुजेरितस ततॊ; हुताशनार्क परतिमद्युतिर महान महॊरगः कृतवैरॊ ऽरजुनेन; किरीटम आसाद्य समुत्पपात ॥ 20 ॥

  21. तम अब्रवीद विद्धि कृतागसं मे; कृष्णाद्य मातुर वधजातवैरम ततः कृष्णः पार्थम उवाच संख्ये; महॊरगं कृतवैरं जहि तवम ॥ 21 ॥

  22. स एवम उक्तॊ मधुसूदनेन; गाण्डीवधन्वा रिपुषूग्र धन्वा उवाच कॊ नव एष ममाद्य नागः; सवयं य आगाद गरुडस्य वक्त्रम ॥ 22 ॥

  23. [कृस्ण] यॊ ऽसौ तवया खाण्डावे चित्रभानुं; संतर्पयानेन धनुर्धरेण वियद गतॊ बाणनिकृत्त देहॊ; हय अनेकरूपॊ निहतास्य माता ॥ 23 ॥

  24. ततस तु जिष्णुः परिहृत्य शेषांश; चिच्छेद षड्भिर निशितैः सुधारैः नागं वियत तिर्यग इवॊत्पतन्तं; स छिन्नगात्रॊ निपपात भूमौ ॥ 24 ॥

  25. तस्मिन मुहूर्ते दशभिः पृषात्कैः; शिलाशितैर बर्हिणवाजितैश च विव्याध कर्णः पुरुषप्रवीरं; धनंजयं तिर्यग अवेक्षमाणाम ॥ 25 ॥

  26. ततॊ ऽरजुनॊ दवादशभिर विमुक्तैर; आकर्णमुक्तैर निशितैः समर्प्य नाराचम आशीविषतुल्यवेगाम; आकर्णा पूर्णायतम उत्ससर्ज ॥ 26 ॥

  27. स चित्र वर्मेषु वरॊ विदार्य; पराणान निरस्यन्न इव साधु मुक्तः कर्णस्य पीत्वा रुधिरं विवेश; वसुंधरां शॊणितवाज दिग्धः ॥ 27 ॥

  28. ततॊ वृषॊ बाणनिपात कॊपितॊ; महॊरगॊ दण्डविघट्टितॊ यथा तथाशु कारी वयसृजच छरॊत्तमान; महाविषः सर्प इवॊत्तमं विषम ॥ 28 ॥

  29. जनर्दनं दवादशभिः पराभिनन; नवैर नवत्या च शरैस तथार्जुनम शरेण घॊरेण पुनश च पाण्डवं; विभिद्य कर्णॊ ऽभयनदज जहास च ॥ 29 ॥

  30. तम अस्य हर्षं ममृषे न पाण्डवॊ; बिभेद मर्माणि ततॊ ऽसय मर्मवित परं शरैः पत्रिभिर इन्द्र विक्रमस; तथा यथेन्द्रॊ बलम ओजसाहनत ॥ 30 ॥

  31. ततः शराणां नवतीर नवार्जुनः; ससर्ज कर्णे ऽनतकदण्डसंनिभाः शरैर भृशायस्त तनुः परविव्यथे; तथा यथा वज्रविदारितॊ ऽचलः ॥ 31 ॥

  32. मणिप्रवेकॊत्तम वज्रहाटकैर; अलं कृतं चास्य वराङ्गभूषणम परविद्धमुर्व्यां निपपात पत्रिभिर; धनंजयेनॊत्तम कुण्डले ऽपि च ॥ 32 ॥

  33. महाधनं शिल्पिवरैः परयत्नतः; कृतं यद अस्यॊत्तम वर्म भास्वरम सुदीर्घ कालेन तद अस्य पाण्डवः; कषणेन बाणैर बहुधा वयशातयत ॥ 33 ॥

  34. स तं विवर्माणम अथॊत्तमेषुभिः; शरैश चतुर्भिः कुपितः पराभिनत स विव्यथे ऽतयर्थम अरिप्रहारितॊ; यथातुरः पित्त कफानिल वरणैः ॥ 34 ॥

  35. महाधनुर मण्डलनिःसृतैः शितैः; करिया परयत्नप्रहितैर बलेन च ततक्ष कर्णं बहुभिः शरॊत्तमैर; बिभेद मर्मस्व अपि चार्जुनस तवरन ॥ 35 ॥

  36. दृढाहतः पत्रिभिर उग्रवेगैः; पार्थेन कर्णॊ विविधैः शिताग्रैः बभौ गिरिर गैरिकधातुरक्तः; कषरन परपातैर इव रक्तम अम्भः ॥ 36 ॥

  37. साश्वं तु कर्णं सरथं किरीटी; सामाचिनॊद भारत वत्सदन्तैः परच्छादयाम आस दिशश च बाणैः; सर्वप्रयत्नात तपनीयपुङ्खैः ॥ 37 ॥

  38. स वत्सदन्तैः पृथु पीनवक्षाः; समाच्चितः समाधिरथिर विभाति सुपुष्पिताशॊक पलाशशाल्मालिर; यथाचलः सपन्दन चन्दनायुतः ॥ 38 ॥

  39. शरैः शरीरे बहुधा समर्पितैर; विभाति कर्णः समरे विशां पते महीरुहैर आचितसानु कन्दरॊ; यथा महेन्द्रः शुभकर्णिकारवान ॥ 39 ॥

  40. स बाणसंघान धनुषा वयवासृजन; विभाति कर्णः शरजालरश्मिवान सलॊहितॊ रक्तगभस्ति मण्डलॊ; दिवाकरॊ ऽसताभिमुखॊ यथातथा ॥ 40 ॥

  41. बाह्वन्तराद आधिरथेर विमुक्तान; बाणान महाहीन इव दीप्यमानान वयध्वंसयन्न अर्जुन बाहुमुक्ताः; शराः समासाद्य दिशः शिताग्राः ॥ 41 ॥

  42. ततश चक्रमपतत तस्य भूमौ; स विह्वलः सामरे सूतपुत्रः घूर्णे रथे बराह्मणस्याभिशापाद; रमाद उपात्ते ऽपरतिभाति चास्त्रे ॥ 42 ॥

  43. अमृष्यमाणॊ वयसनानि तानि; हस्तौ विधुन्वन स विगर्हमाणः धर्मप्रधानान अभिपाति धर्म; इत्य अब्रुवन धर्मविदः सदैव ममापि निम्नॊ ऽदय न पाति भक्तान; मन्ये न नित्यं परिपाति धार्मः ॥ 43 ॥

  44. एवं बरुवन परस्खलिताश्वसूतॊ; विचाल्यमानॊ ऽरजुन शस्त्रपातैः मर्माभिघाताच चलितः करियासु; पुनः पुनर धर्मम अगर्हद आजौ ॥ 44 ॥

  45. ततः शरैर भीमतरैर आविध्यत तरिभिर आहवे हस्ते कर्णस तदा पार्थम अभ्यविध्यच च साप्तभिः ॥ 45 ॥

  46. ततॊ ऽरजुनः साप्त दश तिग्मतेजान अजिह्मगान इन्द्राशनिसमान घॊरान असृजत पावकॊपमान ॥ 46 ॥

  47. निर्भिद्य ते भीमवेगा नयपतन पृथिवीतले कम्पितात्मा तथा कर्णः शक्त्या चेष्टाम अदर्शयत ॥ 47 ॥

  48. बलेनाथ स संस्तभ्य बरह्मास्त्रं समुदैरयत ऐन्द्रास्त्रम अर्जुनश चापि तद दृष्ट्वाभिन्यमन्त्रयत ॥ 48 ॥

  49. गाण्डीवं जयां च बाणांश च अनुमन्त्र्य धनंजयः असृजच छरवर्षाणि वर्षाणीव पुरंदरः ॥ 49 ॥

  50. ततस तेजॊमया बाणा रथात पार्थस्य निःसृताः परादुरासन महावीर्याः कर्णस्य रथम अन्तिकात ॥ 50 ॥

  51. तान कर्णस तव अग्रतॊ ऽभयस्तान मॊघांश चक्रे महारथः ततॊ ऽबरवीद वृष्णि वीरस तस्मिन्न अस्त्रे विनाशिते ॥ 51 ॥

  52. विसृजास्त्रं परं पार्थ राधेयॊ गरसते शरान बरह्मास्त्रम अर्जुनश चापि संमन्त्र्याथ परयॊजयत ॥ 52 ॥

  53. हादयित्वा ततॊ बाणैः कर्णां परभ्राम्य चार्जुनः तस्य कर्णः शरैः करुद्धश चिच्छेद जयां सुतेजनैः ॥ 53 ॥

  54. ततॊ जयाम अवधायान्याम अनुमृज्या च पाण्डवः शरैर अवाकिरत कर्णं दीप्यमानैः सहस्रशः ॥ 54 ॥

  55. तस्य जयाच छेदनं कर्णॊ जयावधानं च संयुगे नान्वबुध्यत शीघ्रत्वात तद अद्भुतम इवाभवत ॥ 55 ॥

  56. अस्त्रैर अस्त्राणि राधेयः परत्यहन सव्यसाचिनः चक्रे चाभ्यद्धिकं पार्थात सववीर्यं परतिदार्शयन ॥ 56 ॥

  57. ततः कृष्णॊ ऽरजुनं दृष्ट्वा कर्णास्त्रेणाभिपीडितम अभ्यस्येत्य अब्रवीत पार्थम आतिष्ठास्त्रम अनुत्तमम ॥ 57 ॥

  58. ततॊ ऽनयम आग्निसदृशं शरं सर्पविषॊपमम अश्मसारमयं दिव्यम अनुमन्त्र्य धनंजयः ॥ 58 ॥

  59. रौद्रम अस्स्त्रं समादाय कषेप्तु कामः किरीटिवान ततॊ ऽगरसन मही चक्रं राधेयस्य महामृधे ॥ 59 ॥

  60. गरस्त चक्रस तु राधेयः कॊपाद अश्रूण्य अवर्तयत सॊ ऽबरवीद अर्जुनं चापि मुहूर्तं कषम पाण्डव ॥ 60 ॥

  61. मध्ये चक्रम अवग्रस्तं दृष्ट्वा दैवाद इदं मम पार्थ कापुरुषाचीर्णम आभिसंधिं विवर्जय ॥ 61 ॥

  62. परकीर्णकेशं विमुखे बराह्माणे च कृताञ्जलौ शरणा गते नयस्तशस्त्रे तथा वयसनगे ऽरजुन ॥ 62 ॥

  63. अबाणे भरष्टकवचे भरष्ट भग्नायुधे तथा न शूराः परहरन्त्य आजौ न राज्ञे पार्थिवास तथा तवं च शूरॊ ऽसि कौन्तेय तस्मात कषम मुहूर्तकम ॥ 63 ॥

  64. यावच चक्रम इदं भूमेर उद्धरामि धनंजय न मां रथस्थॊ भूमिष्ठम असज्जं हन्तुम अर्हसि न वासुदेवात तवत्तॊ वा पाण्डवेय विभेम्य अहम ॥ 64 ॥

  65. तवं हि कषत्रिय दायादॊ महाकुलविवर्धनः समृत्वा धर्मॊपदेशं तवं मुहूर्तं कषम पाण्डव ॥ 65 ॥

Reach this point to mark the section finished.

Continue to अध्याय 67

Previous: अध्याय 65