धर्मDharmic Data

कर्णपर्व · Karna Parva

अध्याय 65

  1. [स] तौ शङ्खभेरी निनदे समृद्धे; समीयतुः शवेतहयौ नराग्र्यौ वैकर्तनः सूतपुत्रॊ ऽरजुनश च; दुर्मन्त्रिते तव पुत्रस्य राजन ॥ 1 ॥

  2. यथा गजौ हैमवतौ परभिन्नौ; परगृह्य दन्ताव इव वाशितार्थे तथा समाजग्मतुर उग्रवेगौ; धनंजयश चाधिरथिश च वीरौ ॥ 2 ॥

  3. बलाहकेनेव यथाबलाहकॊ; यदृच्छया वा गिरिणा गिरिर यथा तथा धनुर्ज्यातलनेमि निस्वनौ; समीयतुस ताव इषुवर्षवर्षिणौ ॥ 3 ॥

  4. परवृद्धशृङ्गद्रुम वीरुद ओषधी; परवृद्धनानाविध पर्वतौकसौ यथाचलौ वा गलितौ महाबलौ; तथा महास्त्रैर इतरेतरं घनतः ॥ 4 ॥

  5. स संनिपातस तु तयॊर महान अभूत; सुरेश वैरॊच्चनयॊर यथा पुरा शरैर विभुग्नाङ्गनियन्तृवाहनः; सुदुःसहॊ ऽनयैः पटु शॊणितॊदकः ॥ 5 ॥

  6. परभूतपद्मॊत्पल मत्स्यकच्छपौ; महाह्रदौ पण्षि गणानुनादितौ सुसंनिकृष्टाव अनिलॊद्धतौ यथा; तथा रथौ तौ धवजिनौ समीयतुः ॥ 6 ॥

  7. उभौ महेन्द्रस्य सामान विक्रमाव; उभौ महेन्द्रप्रतिमौ महारथौ महेन्द्रवज्रप्रतिमैश च सायकैर; महेन्द्र वृत्राव इव संप्रजह्रतुः ॥ 7 ॥

  8. सनागपत्त्यश्वरथे उभे बले; विचित्रवर्णाभरणाम्बर सरजे चकम्पतुश चॊन्नमतः सम विस्मयाद; वियद गताश चार्जुन कर्ण संयुगे ॥ 8 ॥

  9. भुजाः सवज्राङ्गुलयः समुच्छ्रिताः; ससिंह नादा हृषितैर दिदृक्षुभिः यदार्जुनं मत्तम इव दविपॊ दविपं; समभ्ययाद आधिरथिर जिघांसया ॥ 9 ॥

  10. अभ्यक्रॊशन सॊमकास तत्र पार्थं; वरस्व याह्य अर्जुन विध्य कर्णम छिन्ध्य अस्य मूर्धानम अलं चिरेण; शरद्धां च राज्याद धृतराष्ट्र सूनॊः ॥ 10 ॥

  11. तथास्माकं बहवस तत्र यॊधाः; कर्णं तदा याहि याहीत्य अवॊचन जह्य अर्जुनं कर्ण ततः सचीराः; पुनर वनं यान्तु चिराय पार्थाः ॥ 11 ॥

  12. ततः कर्णः परथमं तत्र पार्थं; महेषुभिर दशभिः पर्यविध्यत तम अर्जुनः परत्यविध्यच छिताग्रैः; कक्षान्तरे दशभिर अतीव करुद्धः ॥ 12 ॥

  13. परस्परं तौ विशिखैः सुतीक्ष्णैस; ततक्षतुः सूतपुत्रॊ ऽरजुनश च परस्परस्यान्तरेप्सू विमर्दे; सुभीमम अभ्याययतुः परहृष्टौ ॥ 13 ॥

  14. अमृष्यमाणश च महाविमर्दे; तत्राक्रुध्यद भीमसेनॊ महात्मा अथाब्रवीत पाणिना पाणिम आघ्नन; संदष्टौष्ठ नृत्यति वादयन्न इव कथं नु तवां सूतपुत्रः किरीटिन; महेषुभिर दशभिर अविध्यद अग्रे ॥ 14 ॥

  15. यया धृत्या सर्वभूतान्य अजैषीर; गरासं ददद वह्नये खाण्डवे तवम तया धृत्या सूतपुत्रं जहि तवम; अहं वैनं गदया पॊथयिष्ये ॥ 15 ॥

  16. अथाब्रवीद वासुदेवॊऽपि पार्थं; दृष्ट्वा रथेषून परतिहन्यमानान अमीमृदत सर्वथा ते ऽदय कर्णॊ; हय अस्त्रैर अस्त्राणि किम इदं किरीटिन ॥ 16 ॥

  17. स वीर किं मुह्यसि नावधीयसे; नदन्त्य एते कुरवः संप्रहृष्टाः कर्णं पुरस्कृत्य विदुर हि सर्वे; तवद अस्त्रम अस्त्रैर विनिपात्यमानम ॥ 17 ॥

  18. यया धृत्या निहतं तामसास्त्रं; युगे युगे राक्षसाश चापि घॊराः दम्भॊद्भवाश चासुराश चाहवेषु; तया धृत्या तवं जहि सूतपुत्रम ॥ 18 ॥

  19. अनेना वास्य कषुर नेमिनाद्य; संछिन्द्धि मूर्धानम अरेः परसह्य मया निसृष्टेन सुदर्शनेन; वज्रेण शक्रॊ नमुचेर इवारेः ॥ 19 ॥

  20. किरात रूपी भगवान यया च; तवया महत्या परितॊषितॊ ऽभूत तां तवं धृतिं वीर पुनर गृहीत्वा; सहानुबन्धं जहि सूतपुत्रम ॥ 20 ॥

  21. ततॊ महीं सागरमेखलां तं; सपत्तनां गरामवतीं समृद्धाम परयच्छ राज्ञे निहतारि सांघां; यशश च पार्थातुलम आप्नुहि तवम ॥ 21 ॥

  22. संचॊदितॊ भीम जनार्दनभ्यं; समृत्वा तदात्मानम अवेक्ष्य सत्त्वम महात्मनश चागमने विदित्वा; परयॊजनं केशवम इत्य उवाच ॥ 22 ॥

  23. परादुष्करॊम्य एष महास्त्रम उग्रं; शिवाय लॊकस्य वधाय सौतेः तन मे ऽनुजनातु भवान सुराश च; बरह्मा भुवॊ बरह्म विदश च सर्वे ॥ 23 ॥

  24. इत्य ऊचिवान बराह्मम असह्यम अस्त्रं; परादुश्चक्रे मनसा संविधेयम ततॊ दिशश च परदिशश च सर्वाः; समावृणॊत सायकैर भूरि तेजाः स सर्जबाणान भरतर्षभॊ ऽपि; शतं शतानेकवद आशु वेगान ॥ 24 ॥

  25. वैकर्तनेनापि तथाजिमध्ये; सहस्रशॊ बाणगणा विसृष्टाः ते घॊषिणः पाण्डवम अभ्युपेयुः; पजन्य मुक्ता इव वारिधाराः ॥ 25 ॥

  26. स भीमासेनं च जनार्दनं च; किरीटिनं चाप्य अमनुष्यकर्मा तरिभिस तरिभिर भीमबलॊ निहत्या; ननाद घॊरं महता सवरेण ॥ 26 ॥

  27. स कर्ण बाणाभिहतः किरीटी; भीमं तथा परेक्ष्य जनार्दनं च अमृष्यमाणः पुनार एव पार्थः; शरान दशाष्टौ च समुद्बबर्ह ॥ 27 ॥

  28. सुषेणम एकेन शरेण विद्ध्वा शल्यां; चतुर्भिस तरिभिर एव कर्णम ततः सुमुक्तैर दशभिर जघान; सभा पतिं काञ्चनवर्म नाद्धम ॥ 28 ॥

  29. सा राजपुत्रॊ विशिरा विबाहुर; विवाजि सूतॊ विधनुर विकेतुः ततॊ रथाग्राद अपतत परभग्नः; परश्वधैः शाल इवाभिकृत्तः ॥ 29 ॥

  30. पुनश च कर्णं तरिभिर अष्टभिश च; दवाभ्यां चतुर्भिर दशभिश च विद्ध्वा चातुः शतन दविरदान सायुधीयान; हत्वा रथान अष्ट शतं जघान सहस्रम अश्वांश च पुनश च सादीन; अष्टौ सहस्राणि च पात्ति वीरान ॥ 30 ॥

  31. दृष्ट्वाजि मुख्याव अथ युध्यमानौ; दिदृक्षवः शूर वराव अरिघ्नौ कर्णं च पार्थं च नियाम्य वाहान; खस्था महीस्थाश च जनावतस्थुः ॥ 31 ॥

  32. ततॊ धनुर्ज्या सहसातिकृष्टा; सुघॊषम आच्छिद्यत पाण्डवस्य तस्मिन कषणे सूतपुत्रस तु पार्थं; समाच्चिनॊत कषुद्रकाणां शतेन ॥ 32 ॥

  33. निर्मुक्तसर्पप्रतिमैश च तीक्ष्णैस; तैलप्रधौतैः खग पात्रवाजैः षष्ट्या नाराचैर वासुदेवं बिभेद; तदन्तरं सॊमकाः पराद्रवन्त ॥ 33 ॥

  34. ततॊ धनुर्ज्याम अवधम्य शीघ्रं; शरान अस्तान आधिरथेर विधम्य सुसंरब्धः कर्ण शरक्षताङ्गॊ; रणे पार्थः सॊमकान परत्यगृह्णात न पक्षिणः साम्पतन्त्य अन्तरिक्षे; कषेपीयसास्त्रेण कृते ऽनधकारे ॥ 34 ॥

  35. शल्यं च पार्थॊ दशभिः पृषत्कैर; भृशं तनुत्रे परहसन्न अविध्यत ततः कार्णं दवादशभिः सुमुक्तैर; विद्ध्वा पुनः सप्तभिर अभ्यविध्यत ॥ 35 ॥

  36. स पार्थ बाणासनवेगनुन्नैर; दृढाहतः पत्रिभिर उग्रवेगैः विभिन्नगात्रः कषतजॊक्षिताङ्गः; कर्णॊ बभौ रुद्र इवाततेषुः ॥ 36 ॥

  37. ततस तरिभिश च तरिदाशाधिपॊपमं; शरैर बिभेदाधिरथिर धनंजयम शरांस तु पञ्च जवलितान इवॊरगान; परवीरयाम आस जिघांसुर अच्च्युते ॥ 37 ॥

  38. ते वर्म भित्त्वा पुरुषॊत्तमस्य; सुवर्णचित्रं नयपतन सुमुक्ताः वेगेन गाम आविविशुः सुवेगाः; सनात्वा च कर्णाभिमुखाः परतीयुः ॥ 38 ॥

  39. तान पञ्च भल्लैस तवरितैः सुमुक्तैस; तरिधा तरिधैकैकम अथॊच्चकर्त धनंजयस ते नयपतन पृथिव्यां; महाहयस तक्षक पुत्र पक्षाः ॥ 39 ॥

  40. ततः परजज्वाल किरीटमाली; करॊधेन कक्षं परदहन्न इवाग्निः स कर्णम आकर्णविकृष्टसृष्टैः; शरैः शरीरान्तकरैर जवलद्भिः मर्मस्व अविध्यत स चचाल दुःखाद; धैर्यात तु तस्थाव अतिमात्रधैर्यः ॥ 40 ॥

  41. ततः शरौघैः परदिशॊ दिशश च; रविप्रभा कर्ण रथश च राजन अदृश्य आसीत कुपिते धनंजये; तुषारनीहारवृतं यथा नभः ॥ 41 ॥

  42. सचक्ररक्षान अथ पादरक्षान; पुरःसरान पृष्ठगॊपांश च सर्वान दुर्यॊधनेनानुमतान अरिघ्नान; समुच्चितान सुरथान सारभूतान ॥ 42 ॥

  43. दविसाहस्रान समरे सव्यसाची; कुरुप्रवीरान ऋषभः कुरूणाम कषणेन सर्वान सरथाश्वसूतान; निनाय राजन कषायम एकवीरः ॥ 43 ॥

  44. अथापलायन्त विहाय कर्णं; तवात्मजाः कुरवश चावशिष्टाः हतान अवकीर्य शरक्षतांश च; लालप्यमानांस तनयान पितॄंश च ॥ 44 ॥

  45. सा सर्वतः परेक्ष्य दिशॊ विशून्या; भयावदीर्णैः कुरुभिर विहीनः न विव्यथे भारत तत्र कर्णः; परतीपम एवार्जुनम अभ्यधावत ॥ 45 ॥

Reach this point to mark the section finished.

Continue to अध्याय 66

Previous: अध्याय 64