धर्मDharmic Data

कर्णपर्व · Karna Parva

अध्याय 64

  1. [स] तद देव नागासुरसिद्धसंघैर; गन्धर्वयक्षाप्सरसां च संघैः बरह्मर्षिराजर्षिसुपर्णजुष्टं; बभौ वियद विस्मयनीय रूपम ॥ 1 ॥

  2. नानद्यमानं निनदैर मनॊज्ञैर; वादित्रगीतस्तुतिभिश च नृत्तैः सर्वे ऽनतरिक्षे ददृशुर मनुष्याः; खस्थांश च तान विस्मयनीय रूपान ॥ 2 ॥

  3. ततः परहृष्टाः कुरु पाण्डुयॊधा; वादित्रपत्रायुध सिंहनादैः निनादयन्तॊ वसुधां दिशश च; सवनेन सर्वे दविषतॊ निजघ्नुः ॥ 3 ॥

  4. नानाश्वमातङ्गरथायुताकुलं; वरासि शक्त्यृष्टि निपातदुःसहम अभीरुजुष्टं हतदेहसंकुलं; रणाजिरं लॊहितरक्तम आबभौ ॥ 4 ॥

  5. तथा परवृत्ते ऽसत्रभृतां पराभवे; धनंजयश चाधिरथिश च सायकैः दिशश च सैन्यं च शितैर अजिह्मगैः; परस्परं परॊर्णुवतुः सम दंशितौ ॥ 5 ॥

  6. ततस तवदीयाश च परे च सायकैः; कृते ऽनधकारे विविदुर न किं चन भयात तु ताव एव रथौ समाश्रयंस; तमॊनुदौ खे परसृता इवांशवः ॥ 6 ॥

  7. ततॊ ऽसत्रम अस्त्रेण परस्परस्य तौ; विधूय वाताव इव पूर्वपश्चिमौ घनान्धकारे वितते तमॊनुदौ; यथॊदितौ तद्वद अतीव रेजतुः ॥ 7 ॥

  8. न चाभिमन्तव्यम इति परचॊदिताः; परे तवदीयाश च तदावतस्थिरे महारथौ तौ परिवार्य सर्वतः; सुरासुरा वासव शम्बराव इव ॥ 8 ॥

  9. मृदङ्गभेरीपणवानकस्वनैर; निनादिते भारत शङ्खनिस्वनैः ससिंह नादौ बभतुर नरॊत्तमौ; शशाङ्कसूर्याव इव मेघसंप्लवे ॥ 9 ॥

  10. महाधनुर मण्डला मध्यगाव उभौ; सुवर्चसौ बाणसहस्ररश्मिनौ दिधक्षमाणौ सचराचरं जगद; युगास्त सूर्याव इव दुःसहौ रणे ॥ 10 ॥

  11. उभाव अजेयाव अहितान्तकाव उभौ; जिघांसतुस तौ कृतिनौ परस्परम महाहवे वीर वरौ समीयतुर; यथेन्द्र जम्भाव इव कर्ण पाण्डवौ ॥ 11 ॥

  12. ततॊ महास्त्राणि महाधनुर्धरौ; विमुञ्चमानाव इषुभिर भयानकैः नराश्वनागानमितौ निजघ्नतुः; परस्परं जघ्नतुर उत्तमेषुभिः ॥ 12 ॥

  13. ततॊ विसस्रुः पुनर अर्दिताः शरैर; नरॊत्तमाभ्यां कुरुपाण्डवाश्रयाः सनागपत्त्यश्वरथा दिशॊ गतास; तथा यथा सिंहभयाद वनौकसः ॥ 13 ॥

  14. ततस तु दुर्यॊधन भॊजसौबलाः; कृपश च शारद्वत सूनुना सह महारथाः पञ्च धनंजयाच्युतौ; शरैः शरीरान्तकरैर अताडयन ॥ 14 ॥

  15. धनूंषि तेषाम इषुधीन हयान धवजान; रथांश च सूतांश च धनंजयः शरैः समं च चिच्छेद पराभिनच च ताञ; शरॊत्तमैर दवादशभिश च सूतजम ॥ 15 ॥

  16. अथाभ्यधावंस तवरिताः शतं रथाः; शतं च नागार्जुनम आततायिनः शकास तुखारा यवनाश च सादिनः; सहैव काम्बॊजवरैर जिघांसवः ॥ 16 ॥

  17. वरायुधान पाणिगतान करैः सह; कषुरैर नयकृन्तंस तवरिताः शिरांसि च हयांश च नागांश च रथांश च युध्यतां; धनंजयः शत्रुगणं तम अक्षिणॊत ॥ 17 ॥

  18. ततॊ ऽनतरिक्षे सुरतूर्य निस्वनाः; ससाधु वादा हृषितैः समीरिताः निपेतुर अप्य उत्तमपुष्पपृष्टयः; सुरूप गन्धाः पवनेरिताः शिवाः ॥ 18 ॥

  19. तद अद्भुतं देवमनुष्यसाक्षिकं; समीक्ष्य भूतानि विसिष्मियुर नृप तवात्मजः सूत सूतश च न वयथां; न विस्मयं जग्मतुर एकनिश्चयौ ॥ 19 ॥

  20. अथाब्रवीद दरॊणसुतस तवात्मजं; करं करेण परतिपीड्य सान्त्वयन परसीद दुर्यॊधन शाम्य पाण्डवैर; अलं विरॊधेन धिग अस्तु विग्रहम ॥ 20 ॥

  21. हतॊ गुरुर बरह्म समॊ महास्त्रवित; तथैव भीष्म परमुखा नरर्षभाः अहं तव अवध्यॊ मम चापि मातुलः; परशाधि राज्यं साह पाण्डवैर चिरम ॥ 21 ॥

  22. धनंजयः सथास्यति वारितॊ मया; जनार्दनॊ नैव विरॊधम इच्छति युधिष्ठिरॊ भूतहिते सदा रतॊ; वृकॊदरस तद्वशगस तथा यमौ ॥ 22 ॥

  23. तवया च पार्थैश च परस्परेण; परजाः शिवं पराप्नुयुर इच्छति तवयि वरजन्तु शेषाः सवपुराणि पार्थिवा; निवृत्तवैराश च भवन्तु सैनिकाः ॥ 23 ॥

  24. न चेद वचः शरॊष्यसि मे नराधिप; धरुवं परतप्तासि हतॊ ऽरिभिर युधि इदं च दृष्टं जगता सह तवया; कृतं यद एकेन किरीटिमालिना यथा न कुर्याद बलभिन्न चान्तकॊ; न च परचेता भगवान न यक्षराट ॥ 24 ॥

  25. अतॊ ऽपि भूयांश च गुणैर धनंजयः; स चाभिपत्स्यत्य अखिलं वचॊ मम तवानुयात्रां च तथा करिष्यति; परसीद राजञ जगतः शमाय वै ॥ 25 ॥

  26. ममापि मानः परमः सदा तवयि; बरवीम्य अतस तवां परमाच च सौहृदात निवारयिष्यामि हि कर्णम अप्य अहं; यदा भवान सप्रणयॊ भविष्यति ॥ 26 ॥

  27. वदन्ति मित्रं सहजं विचक्षणास; तथैव साम्ना च धनेन चार्जितम परतापतश चॊपनतं चतुर्विधं; तद अस्ति सर्वं तवयि पाण्डवेषु च ॥ 27 ॥

  28. निसर्गतस ते तव वीर बान्धवाः; पुनश च साम्ना च समाप्नुहि सथिरम तवयि परसन्ने यदि मित्रताम इयुर; धरुवं नरेन्द्रेन्द्र तथा तवम आचर ॥ 28 ॥

  29. स एवम उक्तः सुहृदा वचॊ हितं; विचिन्त्य निःश्वस्य च दुर्मनाब्रवीत यथा भवान आह सखे तथैव तन; ममापि च जञापयतॊ वचः शृणु ॥ 29 ॥

  30. निहत्य दुःशासनम उक्तवान बहु; परसह्य शार्दूलवद एष दुर्मतिः वृकॊदरस तद धृदये मम सथितं; न तत्परॊक्षं भवतः कुतः शमः ॥ 30 ॥

  31. न चापि कर्णं गुरुपुत्र संस्तवाद; उपारमेत्य अर्हसि वक्तुम अच्युत शरमेण युक्तॊ महताद्य फल्गुनस; तम एष कर्णः परसाभं हनिष्यति ॥ 31 ॥

  32. तम एवम उक्त्वाभ्यनुनीय चासकृत; तवात्मजः सवान अनुशास्ति सैनिकान समाघ्नताभिद्रवताहितान इमान; सबाणशब्दान किम उ जॊषम आस्यते ॥ 32 ॥

Reach this point to mark the section finished.

Continue to अध्याय 65

Previous: अध्याय 63