धर्मDharmic Data

कर्णपर्व · Karna Parva

अध्याय 63

  1. [स] वृषसेनं हतं दृष्ट्वा शॊकामर्ष समन्वितः मुक्त्वा शॊकॊद्भवं वारि नेत्राभ्यां सहसा वृषः ॥ 1 ॥

  2. रथेन कर्णस तेजस्वी जगामाभिमुखॊ रिपून युद्धायामर्ष ताम्राक्षः समाहूय धनंजयम ॥ 2 ॥

  3. तौ रथौ सूर्यसंकाशौ वैयाघ्रपरिवारणौ समेतौ ददृशुस तत्र दवाव इवार्कौ समागतौ ॥ 3 ॥

  4. शवेताश्वौ पुरुषादित्याव आस्थिताव अरिमर्दनौ शुशुभाते महात्मानौ चन्द्रादित्यौ यथा दिवि ॥ 4 ॥

  5. तौ दृष्ट्वा विस्मयं जग्मुः सर्वभूतानि मारिष तरैलॊक्यविजये यत्ताव इन्द्र वैरॊचनाव इव ॥ 5 ॥

  6. रथज्या तलनिर्ह्रादैर बाणशङ्खरवैर अपि तौ रथाव अभिधावन्तौ समालॊक्य महीक्षिताम ॥ 6 ॥

  7. धवजौ च दृष्ट्वा संसक्तौ विस्मयः समपद्यत हस्तिकक्ष्यां च कर्णस्य वानरं च किरीटिनः ॥ 7 ॥

  8. तौ रथौ संप्रसक्तौ च दृष्ट्वा भारत पार्थिवाः सिंहनाद रवांश चक्रुः साधुवादांश च पुष्कलान ॥ 8 ॥

  9. शरुत्वा तु दवैरथं ताभ्यां तत्र यॊधाः समन्ततः चक्रुर बाहुवलम चैव तथा चेला वलं महत ॥ 9 ॥

  10. आजग्मुः कुरवस तत्र वादित्रानुगतास तदा कर्णं परहर्षयन्तश च शङ्खान दध्मुश च पुष्कलान ॥ 10 ॥

  11. तथैव पाण्डवाः सर्वे हर्षयन्तॊ धनंजयम तूर्यशङ्खनिनादेन दिशः सर्वा वयनादयन ॥ 11 ॥

  12. कष्वेडितास्फॊटितॊत्क्रुष्टैस तुमुलं सर्वतॊ ऽभवत बाहुघॊषाश च वीराणां कर्णार्जुन समागमे ॥ 12 ॥

  13. तौ दृष्ट्वा पुरुषव्याघ्रौ रथस्थौ रथिनां वरौ परगृहीतमहाचापौ शरशक्तिगदायुधौ ॥ 13 ॥

  14. वर्मिणौ बद्धनिस्त्रिंशॊ शेताश्वौ शङ्खशॊभिनौ तूणीरवरसंपन्नौ दवाव अपि सम सुदर्शनौ ॥ 14 ॥

  15. रक्तचन्दन दिग्धाङ्गौ समदौ वृषभाव इव आशीविषसमप्रख्यौ यम कालान्तकॊपमौ ॥ 15 ॥

  16. इन्द्र वृत्राव इव करुद्धौ सूर्या चान्द्रमस परभौ महाग्रहाव इव करूरौ युगान्ते समुपस्थितौ ॥ 16 ॥

  17. देवगर्भौ देवसमौ देवतुल्यौ च रूपतः समेतौ पुरुषव्याघ्रौ परेक्ष्य कर्ण धनंजयौ ॥ 17 ॥

  18. उभौ वरायुधधराव उभौ रणकृतश्रमौ उभौ च बाहुशब्देन नादयन्तौ नभस्तलम ॥ 18 ॥

  19. उभौ विश्रुत कर्माणौ पौरुषेणा बलेन च उभौ च सदृशौ युद्धे शम्बरामर राजयॊः ॥ 19 ॥

  20. कातवीर्य समौ युद्धे तथा दाशरभेः समौ विष्णुवीर्यसमौ वीर्ये तथा बव समौ युधि ॥ 20 ॥

  21. उभौ शवेतहयौ राजन रथप्रवर वाहिनौ सारथी परवरौ चैव तयॊर आस्तां महाबलौ ॥ 21 ॥

  22. तौ तु दृष्ट्वा महाराज राजमानौ महारथौ सिद्धचारणसंघानां विस्मयः समपद्यत ॥ 22 ॥

  23. धार्तराष्ट्रास ततः कर्णं सबला भरतर्षभ परिवाव्रुर महात्मानं कषिप्रम आहवशॊभिनम ॥ 23 ॥

  24. तथैव पाण्डवा हृष्टा धृष्टद्युम्नपुरॊगमाः परिवव्रुर महात्मानं पार्थम अप्रतिमां युधि ॥ 24 ॥

  25. तावकानां रणे कर्णॊ गलह आसीद विशां पते तथैव पाण्डवेयानां गलहः पार्थॊ ऽभवद युधि ॥ 25 ॥

  26. त एव सभ्यास तत्रासान परेक्षकाश चाभवन सम ते तत्रैषां गलहमानानां धरुवौ जयपराजयौ ॥ 26 ॥

  27. ताभ्यां दयूतं समायत्तं विजयायेतराय वा अस्माकं पण्डवानां च सथितानां रणमूर्धनि ॥ 27 ॥

  28. तौ तु सथितौ महाराज समरे युद्धशालिनौ अन्यॊन्यं परतिसंरब्धाव अन्यॊन्यस्या जयैषिणौ अन्यॊन्यं परतिसंरब्धाव अन्यॊन्यस्य जयैषिणौ ॥ 28 ॥

  29. ताव उभौ परतिहीर्षेताम इन्द्र वृत्राव इवाभितः भीमरूपा धराव आस्तं महाधूमाव इव गरहौ ॥ 29 ॥

  30. ततॊ ऽनतरिक्षे साक्षेपा विवादा भरतर्षभ मिथॊ भेदाश च भूतानाम आसन कर्णाजुनान्तरे वयाश्रयन्त दिशॊ भिन्नाः सर्वलॊकाश च मारिष ॥ 30 ॥

  31. देवदानवगन्धर्वाः पिशाच्चॊरग राक्षसाः परतिपक्ष गरहं चक्रुः कर्णार्जुन समागमे ॥ 31 ॥

  32. दयौर आसीत्क कर्णतॊ वयग्रा सनक्षत्रा विशां पते भूमिर विशाला पार्थस्य मातापुत्रस्य भारत ॥ 32 ॥

  33. सरितः सागराश चैव गिरयश च नरॊत्तम वृक्षाश चौषधयस तत्र वयाश्रयन्ति किरीटिनम ॥ 33 ॥

  34. असुरा यातुधानाश च गरुह्यकाश च परंतप कर्णतः समपद्यन्त खे चराणि वयांसि च ॥ 34 ॥

  35. रत्नानि निधयः सर्वे वेदाश चाख्यानपाञ्चमाः सॊपवेदॊपनिषदः सरहस्याः ससंग्रहाः ॥ 35 ॥

  36. वासुकिश चित्रसेनश च तक्षाकश चॊपतक्षकः पर्वताश च तथा सर्वे काद्रवेयाश च सान्वयाः विषवन्तॊ महारॊषा नागाश चार्जुनतॊ ऽभवन ॥ 36 ॥

  37. ऐरावताः सौरभेया वैशालेयाश च भॊगिनः एते ऽभवन्न अर्जुनतः कषुद्र सर्पास तु कर्णतः ॥ 37 ॥

  38. ईहामृगा वयाड मृगा मङ्गल्याश च मृगद्विजाः पार्थस्य विजयं राजन सर्व एवाभिसंश्रिताः ॥ 38 ॥

  39. वसवॊ मरुतः साध्या रुद्रा विश्वे ऽशविनौ तथा अग्निर इन्द्रश च सॊमश च पवनश च दिशॊ दश धनंजयम उपाजग्मुर आदित्याः कर्णतॊ ऽभवन ॥ 39 ॥

  40. देवास तु पितृभिः सार्धां सगणार्जुनतॊ ऽभवन यमॊ वैश्रवणश चैव वरुणश च यतॊ ऽरजुनः ॥ 40 ॥

  41. देव बरह्म नृपर्षीणां गणाः पाण्डवतॊ ऽभवन तुम्बुरु परमुखा राजन गन्धर्वाश च यतॊ ऽरजुनः ॥ 41 ॥

  42. परावेयाः साह मौनेयैर गन्धर्वाप्सरसां गणाः ईहामृगव्याड मृगैर दविपाश च रथपत्तिभिः ॥ 42 ॥

  43. उह्यमानास तथा मेघैर वायुना च मनीषिणः दिदृक्षवः समाजग्मुः कर्णार्जुन समागमम ॥ 43 ॥

  44. देवदानवगन्धर्वा नागा यक्षाः पतत्रिणः महर्षयॊ वेद विदः पितरश च सवधा भुजः ॥ 44 ॥

  45. तपॊ विद्यास तथौषध्यॊ नानारूपाम्बर तविषः अन्तरिक्षे महाराज विनदन्तॊ ऽवतस्थिरे ॥ 45 ॥

  46. बरह्मा बरह्मर्षिभिः सार्धं परजापतिभिर एव च भवेनावस्थितॊ यानं दिव्यं तं देशम आभ्ययात ॥ 46 ॥

  47. दृष्ट्वा परजापतिं देवाः सवयं भुवम उपागमन समॊ ऽसतु देव विजय एतयॊर नरसिंहयॊः ॥ 47 ॥

  48. तद उपश्रुत्य मघवा परणिपत्य पितामहम कर्णाजुन विनाशेन मा नश्यत्व अखिलं जगत ॥ 48 ॥

  49. सवयम्भॊ बरूहि तद वाक्यं समॊ ऽसतु विजयॊ ऽनयॊः तत तथास्तु नमस ते ऽसतु परसीद भगवन मम ॥ 49 ॥

  50. बरह्मेशानाव अथॊ वाक्यम ऊचतुस तरिदशेश्वरम विजयॊ धरुव एवास्तु विजयस्य महात्मनः ॥ 50 ॥

  51. मनस्वी बलवाञ शूरः कृतास्त्रश च तपॊधनः बिभर्ति च महातेजा धनुर्वेदम अशेषतः ॥ 51 ॥

  52. अतिक्रमेच च माहात्म्याद दिष्टम एतस्य पर्ययात अतिक्रान्ते च लॊकानाम अभावॊ नियतॊ भवेत ॥ 52 ॥

  53. न विद्यते वयवस्थानं कृष्णयॊः करुद्धयॊः कव चित सरष्टारौ हय असतश चॊभौ सतश च पुरुषर्षभौ ॥ 53 ॥

  54. नरनारायणाव एतौ पुराणाव ऋषिसत्तमौ अनियत्तौ नियन्ताराव अभीतौ सम परंतपौ ॥ 54 ॥

  55. कर्णॊ लॊकान अयं मुख्यान पराप्त्नॊतु पुरुषर्षभः वीरॊ वैकर्तनः शूरॊ विजयस तव अस्तु कृष्णयॊः ॥ 55 ॥

  56. वसूनां च सलॊकत्वं मरुतां वा समाप्नुयात सहितॊ दरॊण भीष्माभ्यां नाकलॊके महीयताम ॥ 56 ॥

  57. इत्य उक्तॊ देवदेवाभ्यां सहस्राक्षॊ ऽबरवीद वचः आमन्त्र्य सर्वभूतानि बरह्मेशानानुशासनात ॥ 57 ॥

  58. शरुतं भवद्भिर यात परॊक्तं भगवाद्भ्यां जगद धितम तत तथा नान्यथा तद धि तिष्ठध्वं गतमन्यवः ॥ 58 ॥

  59. इति शरुत्वेन्द्र वचनां सर्वभूतानि मारिष विस्मितान्य अभवन राजन पूजयां चक्रिरे च तत ॥ 59 ॥

  60. वयसृजांश च सुगन्धीनि नानारूपाणि खात तथा पुष्पवर्षाणि बिबुधा देव तूर्याण्य अवादयन ॥ 60 ॥

  61. दिदृक्षवश चाप्रतिमं दवैरथं नरसिंहयॊः देवदानवगन्धर्वाः सर्व एवावतस्थिरे रथौ च तौ शवेतहयौ युक्तकेतू महास्वनौ ॥ 61 ॥

  62. समागता लॊकवीराः शङ्खान दध्मुः पृथक पृथक वासुदेवार्जुनौ वीरौ कर्ण शल्यौ च भारत ॥ 62 ॥

  63. तद भीरु संत्रास करं युद्धं समभवत तदा अन्यॊन्यस्पर्धिनॊर वीर्ये शक्रशम्बरयॊर इव ॥ 63 ॥

  64. तयॊर धवजौ वीतमालौ शुशुभाते रथस्थितौ पृथग रूपौ समार्छन्तौ करॊधं युद्धे परस्परम ॥ 64 ॥

  65. कर्णस्याशीविषनिभा रत्नसारवती दृढा पुरंदर धनुःप्रख्या हस्तिकक्ष्या वयराजत ॥ 65 ॥

  66. कपिश्रेष्ठस तु पार्थस्य वयादितास्यॊ भयंकरः भीषयन्न एव दंष्ट्राभिर दुर्निरीक्ष्यॊ रविर यथा ॥ 66 ॥

  67. युद्द्धाभिलाषुकॊ भूत्वा धवजॊ गाण्डीवधन्वनः कर्ण धवजम उपातिष्ठत सॊ ऽवदीद अभिनर्दयन ॥ 67 ॥

  68. उत्पत्य च महावेगः कक्ष्याम अभ्यहनत कपि नखैश च दशनैर्श चैव गरुडः पन्नगं यथा ॥ 68 ॥

  69. सुकिङ्किणीकाभरणा कालपाशॊपमायसी अभ्यद्रवत सुसंक्रुद्धा नागकक्ष्या महाकपिम ॥ 69 ॥

  70. उभयॊर उत्तमे युद्धे दवैरथे दयूत आहृते परकुर्वाते धवजौ युद्धं परत्यहेषन हयान हयाः ॥ 70 ॥

  71. अविध्यत पुण्डरीकाक्षः शल्यं नयनसायकैः स चापि पुण्डरीकाक्षं तथैवाभिसमैक्षत ॥ 71 ॥

  72. तत्राजयद वासुदेवः शल्यं नयनसायकैः कर्णं चाप्य अजयद दृष्ट्या कुन्तीपुत्रॊ धनंजयः ॥ 72 ॥

  73. अथाब्रवीत सूतपुत्रः शल्यम आभाष्य सस्मितम यदि पार्थॊ रणे हन्याद अद्य माम इह कर्हि चित किम उत्तरं तदा ते सयात सखे सत्यं बरवीहि मे ॥ 73 ॥

  74. [षल्य] यदि कर्ण रणे हन्याद अद्य तवां शवेतवाहनः उभाव एकरथेनाहं हन्यां माधव पाण्डवौ ॥ 74 ॥

  75. [स] एवम एव तु गॊविंदम अर्जुनः परत्यभाषत तं परहस्याब्रवीत कृष्णः पार्थं परम इदं वचः ॥ 75 ॥

  76. पतेद दिवाकरः सथानाच छीर्येतानेकधा कषितिः शैत्यम आग्निर इयान न तवा कर्णॊ हन्याद धनंजयम ॥ 76 ॥

  77. यदि तव एवं कथं चित सयाल लॊकपर्यसनं यथा हन्यां कर्णं तथा शल्यं बाहुभ्याम एव संयुगे ॥ 77 ॥

  78. इति कृष्ण वचः शरुत्वा परहसन कपिकेतनः अर्जुनः परत्युवाचेदं कृष्णम अक्लिष्टकारिणम ममाप्य एताव अपर्याप्तौ कर्ण शल्यौ जनार्दन ॥ 78 ॥

  79. सपताका धवजं कर्णं सशल्य रथवाजिनम सच्छत्र कवचं चैव सशक्ति शरकार्मुकम ॥ 79 ॥

  80. दरष्टास्य अद्य शरैः कर्णं रणे कृत्तम अनेकधा अद्यैनं सरथं साश्वं सशक्ति कवचायुधम न हि मे शाम्यते वैरं कृष्णां यत पराहसत पुरा ॥ 80 ॥

  81. अद्य दरष्टासि गॊविन्दकर्णम उन्मथितं मया वारणेनेव मत्तेन पुष्पितं जगती रुहम ॥ 81 ॥

  82. अद्य ता मधुरा वाचः शरॊतासि मधुसूदन अद्याभिमन्यु जननीम अनृणः सान्त्वयिष्यसि कुन्तीं पितृष्वसारं च संप्रहृष्टॊ जनार्दन ॥ 82 ॥

  83. अद्य बाष्पमुखीं कृष्णां सान्त्वयिष्यसि माधव वाग्भिश चामृतकल्पाभिर धर्मराजं युधिष्ठिरम ॥ 83 ॥

Reach this point to mark the section finished.

Continue to अध्याय 64

Previous: अध्याय 62