धर्मDharmic Data

कर्णपर्व · Karna Parva

अध्याय 62

  1. [स] दुःशासने तु निहते पुत्रास तव महारथाः महाक्रॊधविषा वीराः समरेष्व अपलायिनः दश राजन महावीर्यॊ भीमं पराच्छादयञ शरैः ॥ 1 ॥

  2. कवची निषङ्गी पाशी दण्डधारॊ धनुर्धरः अलॊलुपः शलः संधॊ वातवेगसुवर्चसौ ॥ 2 ॥

  3. एते समेत्य सहिता भरातृव्यसनकर्शिताः भीमसेनं महाबाहुं मार्गणैः समवारयन ॥ 3 ॥

  4. स वार्यमाणॊ विशिखैः समन्तात तैर महारथैः भीमः करॊधाभिरक्ताक्षः करुद्धः काल इवाबभौ ॥ 4 ॥

  5. तांस तु भल्लैर महावेगैर दशभिर दशभिः शितैः रुक्माङ्गदॊ रुक्मपुङ्खैः पार्थॊ निन्ये यमक्षयम ॥ 5 ॥

  6. हतेषु तेषु वीरेषु परदुद्राव बलं तव पश्यतः सूतपुत्रस्य पाण्डवस्य भयार्दितम ॥ 6 ॥

  7. ततः कर्णॊ महाराज परविवेश महारणम दृष्ट्वा भीमस्य विक्रान्तम अन्तकस्य परजास्व इव ॥ 7 ॥

  8. तस्य तव आकार भावज्ञः शल्यः समितिशॊभनः उवाच वचनं कर्णां परप्त कालम अरिंदम मा वयथां कुरु राधेय नैतत तवय्य उपपद्यते ॥ 8 ॥

  9. एते दरवन्ति राजानॊ भीमसेनभयार्दिताः दुर्यॊधनश च संमूढॊ भरातृव्यसनदुःखितः ॥ 9 ॥

  10. दुःशासनस्य रुधिरे पीयमाने महात्मना वयापन्न चेतसश चैव शॊकॊपहतमन्यवः ॥ 10 ॥

  11. दुर्यॊधनम उपासन्ते परिवार्य समन्ततः कृपप्रभृतयः कर्णहतशेषाश च सॊदराः ॥ 11 ॥

  12. पाण्डवा लब्धलक्षाश च धनंजय पुरॊगमाः तवाम एवाभिमुखाः शूरा युद्धाय समुपास्थिताः ॥ 12 ॥

  13. स तं पुरुषशार्दूल पौरुषे महति सथितः कषत्रधर्मं पुरस्कृत्य परत्युद्याहि धनंजयम ॥ 13 ॥

  14. भारॊ हि धार्तराष्ट्रेण तवयि सर्वः समर्पितः तम उद्वह महाबाहॊ यथाशक्ति यथाबलम जये सयाद विपुला कीर्तिर धरुवः सवर्गः पराजये ॥ 14 ॥

  15. वृषसेनश च राधेय संक्रुद्धस तनयस तव तवयि मॊहसमापन्ने पाण्डवान अभिधावति ॥ 15 ॥

  16. एतच छरुत्वा तु वचनं शल्यस्यामित तेजसः हृदि मानुष्यकं भावं चक्रे युद्धाय सुस्थिरम ॥ 16 ॥

  17. ततः करुद्धॊ वृषसेनॊ ऽभयधावद; आतस्थिवांसं सवरथं हतारिम वृकॊदरं कालम इवात्त दण्डं; गदाहस्तं पॊथमानं तवदीयान ॥ 17 ॥

  18. तम अभ्यधावन नकुलः परवीरॊ; रॊषाद अमित्रं परतुदन पृषत्कैः कर्णस्य पुत्रं समरे परहृष्टं; जिष्णुर जिघांसुर मघवेव जम्भम ॥ 18 ॥

  19. ततॊ धवजं सफाटिकचित्रकम्बुं; चिच्छेद वीरॊ नकुलः कषुरेण कर्णात्मजस्येष्व असनं च चित्रं; भल्लेन जाम्बूनदपट्ट नद्धम ॥ 19 ॥

  20. अथान्यद आदाय धनुः सुशीघ्रं; कर्णात्मजः पाण्डवम अभ्यविध्यत दिव्यैर महास्त्रैर नकुलं महास्त्रॊ; दुःशासनस्यापचितिं यियासुः ॥ 20 ॥

  21. ततः करुद्धॊ नकुलस तं महात्मा; शरैर महॊल्का परतिमैर अविध्यत दिव्यैरस्त्रैर अभ्यविध्यच च सॊ ऽपि; कर्णस्या पुत्रॊ नकुलं कृतास्त्रः ॥ 21 ॥

  22. कर्णस्या पुत्रॊ नकुलस्य राजन; सर्वान अश्वान अक्षिणॊद उत्तमास्त्रैः वनायुजान सुकुमारस्य शुभ्रान; अलंकृताञ जातरूपेण शीघ्रान ॥ 22 ॥

  23. ततॊ हताश्वाद अवरुह्य यानाद; आदाय चर्म रुचिरं चाष्ट चन्द्रम आकाशसंकाशम असिं गृहीत्वा; पॊप्लूयमानः खगवच चचार ॥ 23 ॥

  24. ततॊ ऽनतरिक्षे नृवराश्वनागंश; चिच्छेद मार्गान विचरन विचित्रान ते परापतन्न असिना गां विशस्ता; यथाश्वमेधे पशवः शमित्रा ॥ 24 ॥

  25. दविसाहस्रा विदिता युद्धशौण्डा; नानादेश्याः सुभृताः सत्यसंधाः एकेन शीघ्रं नकुलेन कृत्ताः; सारेप्सुना इवॊत्तम चन्दनास ते ॥ 25 ॥

  26. तम आपतन्तं नकुलं सॊ ऽभिपत्य; समन्ततः सायकैर अभ्यविध्यत स तुद्यमानॊ नकुलः पृषत्कैर; विव्याध वीरं स चुकॊप विद्धः ॥ 26 ॥

  27. तं कर्ण पुत्रॊ विधमन्तम एकं; नराश्वमातङ्गरथप्रवेकान करीडन्तम अष्टादशभिः पृषत्कैर; विव्याध वीरं स चुकॊप विद्धः ॥ 27 ॥

  28. ततॊ ऽभयधावत समरे जिघांसुः; कर्णात्मजं पाण्डुसुतॊ नृवीरः तस्येषुभिर वयधमत कर्ण पुत्रॊ; महारणे चर्म सहस्रतारम ॥ 28 ॥

  29. तस्यायसं निशितं तीक्ष्णधारम; असिं विकॊशं गुरुभारसाहम दविषच छरीरापहरं सुघॊरम; आधुन्वतः सर्पम इवॊग्ररूपम ॥ 29 ॥

  30. कषिप्रं शरैः षड्भिर अमित्रसाहश; चकर्त खड्गं निशितैः सुघॊरैः पुनश च पीतैर निशितैः पृषत्कैः; सतनान्तरे गाढम अथाभ्यविध्यत ॥ 30 ॥

  31. स भीमसेनस्य रतहं हताश्वॊ; माद्री सुतः कर्णसुताभितप्तः आपुप्लुवे सिंह इवाचलाग्रं; संप्रेक्षमाणस्य धनंजयस्य ॥ 31 ॥

  32. नकुलम अथ विदित्वा छिन्नबाणासनासिं; विरथम अरिशरार्तं कर्ण पुत्रास्त्र भग्नम पवनधुत पताका हरादिनॊ वल्गिताश्वा; वरपुरुषनियत्तास ते रथाः शीघ्रम ईयुः ॥ 32 ॥

  33. दरुपद सुत वरिष्ठाः पञ्च शैनेय षष्ठा; दरुपद दुहितृपुत्राः पञ्च चामित्रसाहाः दविरदरथनराश्वान सूदयन्तस तवदीयान; भुजग पतिनिकाशैर मार्गणैर आत्तशस्त्राः ॥ 33 ॥

  34. अथ तव रथमुख्यास तान परतीयुस तवरन्तॊ; हृदिक सुत कृपौ च दरौणिदुर्यॊधनौ च शकुनिशुकवृकाश च कराथ देवावृधौ च; दविरदजलदघॊषैः सयन्दनैः कार्मुकैश च ॥ 34 ॥

  35. तव नरवरवर्यास तान दशैकं च वीरान; परवर शरवराग्र्यैस ताडयन्तॊ ऽभयरुन्धन नव जलदसवर्णैर हस्तिभिर तान उदीयुर; गिरिशिखरनिकाशैर भीमवेगैः कुणिन्दाः ॥ 35 ॥

  36. सुकल्पिता हैमवता मदॊत्कटा; रणाभिकामैः कृतिभिः समास्थिताः सुवर्णजालावतता बभुर गजास; तथा यथा वै जलदाः सविद्युतः ॥ 36 ॥

  37. कुणिन्द पुत्रॊ दशभिर महायसैः; कृपं ससूताश्वम अपीडयद भृशम ततः शरद्वत सुत सायकैर हतः; सहैव नागेन पपात भूतले ॥ 37 ॥

  38. कुणिन्द पुत्रावरजस तु तॊमरैर; दिवाकरांशु परतिमैर अयॊ मयैः रथं च विक्षॊभ्य ननाद नर्दतस; ततॊ ऽसय गान्धारपतिः शिरॊ ऽहरत ॥ 38 ॥

  39. ततः कुणिन्देषु हतेषु तेष्व अथ; परहृष्टरूपास तव ते महारथाः भृशं परदध्मुर लवनाम्बुसंभवान; परांश च बाणासनपाणयॊ ऽभययुः ॥ 39 ॥

  40. अथाभवद युद्धम अतीव दारुणं; पुनः कुरूणां सह पाणु सृञ्जयैः शरासि शक्त्यृष्टि गदा परश्वधैर; नराश्वनागासु हरं भृशाकुलम ॥ 40 ॥

  41. रथाश्वमातङ्गपदातिभिस ततः; परस्परं विप्रहतापतन कषितौ यथा सविद्युत्स्तनिता बलाहकाः; समास्थिता दिग्भ्य इवॊग्रमारुतैः ॥ 41 ॥

  42. ततः शतानीक हतान महागजांस; तथा रथान पत्तिगणांश च तावकान जघान भॊजश च हयान अथापतन; विशस्त्र कृत्ताः कृतवर्मणा दविपाः ॥ 42 ॥

  43. अथापरे दरौणिशराहता दविपास; तरयः ससर्वायुध यॊधकेतवः निपेतुर उर्व्यां वयसवः परपातितास; तथा यथा वज्रहता महाचलाः ॥ 43 ॥

  44. कुणिन्द राजावरजाद अनन्तरः; सतनान्तरे पत्रिवरैर अताडयत तवात्मजं तस्य तवात्मजः शरैः; शितैः शरीरं बिभिदे दविपं च तम ॥ 44 ॥

  45. स नागराजः सह राजसूनुना; पपात रक्तं बहु सर्वतः कषरन शचीश वज्रप्रहतॊ ऽमुदागमे; यथा जलं गैरिकपर्वतस तथा ॥ 45 ॥

  46. कुणिन्द पुत्र परहितॊ ऽपरद्विपः; शुकं ससूताश्वरथं वयपॊथयत ततॊ ऽपतत कराथ शराभिदारितः; सहेश्वरॊ वज्रहतॊ यथा गिरिः ॥ 46 ॥

  47. रथी दविपस्थेन हतॊ ऽपतच छरैः; कराथाधिपः पर्वतजेन दुर्जयः स वाजिसूतेष्व असनस तथापतद; यथा महावातहतॊ महाद्रुमः ॥ 47 ॥

  48. वृकॊ दविपस्थं गिरिराजवासिनं; भृशं शरैर दवादशभिः पराभिनत ततॊ वृकं साश्वरथं महाजवं; तवरंश चतुर्भिश चरणे वयपॊथयत ॥ 48 ॥

  49. स नागराजः सनियन्तृकॊ ऽपतत; पराहतॊ बभ्रु सुतेषु भिर भृशम स चापि देवावृध सूनुर अर्दितः; पपात नुन्नः सहदेव सूनुना ॥ 49 ॥

  50. विषाण पॊत्रापरगात्रघातिना; गजेन हन्तुं शकुनेः कुणिन्दजः जगाम वेगेन भृशार्दयंश च तं; ततॊ ऽसय गान्धारपतिः शिरॊ ऽहरत ॥ 50 ॥

  51. ततः शतानीक हता महागजा; हया रथाः पत्तिगणाश च तावकाः सुपर्णवातप्रहता यथा नगास; तथागता गाम अवशा विचूर्णिताः ॥ 51 ॥

  52. ततॊ ऽभयविध्यद बहुभिः शितैः शरैः; कुणिन्द पुत्रॊ नकुलात्मजं समयन ततॊ ऽसय कायान निचकर्त नाकुलिः; शिरः करुषेणाम्बुज संनिभाननम ॥ 52 ॥

  53. ततः शतानीकम अविध्यद आशुगैस; तरिभिः शितैः कर्णसुतॊ ऽरजुनं तरिभिः तरिभिश च भीमं नकुलं च सप्तभिर; जनार्दनं दवादशभिश च सायकैः ॥ 53 ॥

  54. तद अस्य कर्मातिमनुष्य कर्मणः; समीक्ष्य हृष्टाः कुरवॊ ऽभयपूजयन पराक्रमज्ञास तु धनंजयस्य ते; हुतॊ ऽयम अग्नाव इति तं तु मेनिरे ॥ 54 ॥

  55. ततः किरीटी परवीर घाती; हताश्वम आलॊक्य नरप्रवीरम तम अभ्यधावद वृषसेनम आहवे; ससूतजस्य परमुखे सथितं तदा ॥ 55 ॥

  56. तम आपतन्तं नरवीरम उग्रं; महाहवे बाणसहस्रधारिणम अभ्यापतत कर्णसुतॊ महारथॊ; यथैव चेन्द्रं नमुचिः पुरातने ॥ 56 ॥

  57. ततॊ ऽदभुतेनैक शतेन पार्थं; शरैर विद्ध्वा सूतपुत्रस्य पुत्रः ननाद नादं सुमहानुभावॊ; विद्ध्वेव शक्रं नमुचिः पुरा वै ॥ 57 ॥

  58. पुनः स पार्थं वृषसेन उग्रैर; बाणैर अविध्यद भुजमूलमध्ये तथैव कृष्णं नवभिः समार्दयत; पुनश च पार्थं दशभिः शिताग्रैः ॥ 58 ॥

  59. ततः किरीटी रणमूर्ध्नि कॊपात; कृत्वा तरिशाखां भरुकुटिं ललाटे मुमॊच बाणान विशिखान महात्मा; वधाय राजन सूतपुत्रस्य संख्ये ॥ 59 ॥

  60. विव्याध चैनं दशभिः पृषत्कैर; मर्मस्व असक्तं परसभं किरीटी चिच्छेद चास्येष्व असनं भुजौ च; कषुरैर चतुर्भिः शिर एव चॊग्रैः ॥ 60 ॥

  61. स पार्थ बाणाभिहतः पपात; रथाद विबाहुर विशिरा धरायाम सुपुष्पितः पर्णधरॊ ऽतिकायॊ; वातेरितः शाल इवाद्रिशृङ्गात ॥ 61 ॥

  62. तं परेक्ष्य बाणाभिहतं पतन्तं; रथात सुतं सूतजः कषिप्रकारी रथं रथेनाशु जगाम वेगात; किरीटिनः पुत्र बधाभितप्तः ॥ 62 ॥

Reach this point to mark the section finished.

Continue to अध्याय 63

Previous: अध्याय 61