[स] तत्राकरॊद दुष्करं राजपुत्रॊ; दुःशासनस तुमुले युध्यमानः चिच्छेद भीमस्य धनुः कषुरेण; षड्भिः शरैः सारथिम अप्य अविध्यत ॥ 1 ॥
ततॊ ऽभिनद बहुभिः कषिप्रम एव; वरेषुभिर भीमसेनं महात्मा स विक्षरन नाग इव परभिन्नॊ; गदाम अस्मै तुमुले पराहिणॊद वै ॥ 2 ॥
तयाहरद दश धन्वन्तराणि; दुःशासनं भीमसेनः परसह्य तया हतः पतितॊ वेपमानॊ; दुःशासनॊ गदया वेगवत्या ॥ 3 ॥
हयाः ससूताश च हता नरेन्द्र; चूर्णीकृतश चास्य रतः पतन्त्या विध्वस्तवर्माभरणाम्बर सरग; विचेष्टमानॊ भृशवेदनार्तः ॥ 4 ॥
ततः समृत्वा भीमसेनस तरस्वी; सापत्नकं यत परयुक्तं सुतैस ते रथाद अवप्लुत्य गतः स भूमौ; यत्नेन तस्मिन परणिधाय चक्षुः ॥ 5 ॥
असिं समुद्धृत्य शितं सुधारं; कण्ठे समाक्रम्य च वेपमानम उत्कृत्य वक्षः पतितस्य भूमाव; अथापिबच छॊणितम अस्य कॊष्णम आस्वाद्य चास्वाद्य च वीक्षमाणः; करुद्धॊ ऽतिवेलं परजगाद वाक्यम ॥ 6 ॥
सतन्यस्य मातुर मधुसर्पिषॊ वा; माध्वीक पानस्य च सत्कृतस्य दिव्यस्य वा तॊयरसस्य पानात; पयॊ दधिभ्यां मथिताच च मुख्यात सर्वेभ्य एवाभ्यधिकॊ रसॊ ऽयं; मतॊ ममाद्याहित लॊहितस्य ॥ 7 ॥
एवं बरुवाणं पुनर आद्रवन्तम; आस्वाद्य वल्गन्तम अतिप्रहृष्टम ये भीमसेनं ददृशुस तदानीं; भयेन ते ऽपि वयथिता निपेतुः ॥ 8 ॥
ये चापि तत्रापतिता मनुष्यास; तेषां करेभ्यः पतितं च शस्त्रम भयाच च संचुक्रुशुर उच्चकैस ते; निमीलिताक्षा ददृशुश च तन न ॥ 9 ॥
ये तत्र भीमं ददृशुः समन्ताद; दौःशासनं तद्रुधिरं पिबन्तम सर्वे पलायन्त भयाभिपन्ना; नायं मनुष्य इति भाषमाणाः ॥ 10 ॥
शृण्वतां लॊकवीराणाम इदं वचनम अब्रवीत एष ते रुधिरं कण्ठात पिबामि पुरुषाधम बरूहीदानीं सुसंरब्धः पुनर गौर इति गौर इति ॥ 11 ॥
परमाण कॊट्यां शयनं कालकूटस्य भॊजनम दशनं चाहिभिः कष्टं दाहं च जतु वेश्मनि ॥ 12 ॥
दयूतेन राज्यहरणम अरण्ये वसतिश च या इष्वस्त्राणि च संग्रामेष्व असुखानि च वेश्मनि ॥ 13 ॥
दुःखान्य एतानि जानीमॊ न सुखानि कदा चन धृतराष्ट्रस्य दौरात्म्यात सपुत्रस्या सदा वयम ॥ 14 ॥
इत्य उक्त्वा वचनं राजञ जयं पराप्य वृकॊदरः पुनर आह महाराज समयंस तौ केशवार्जुनौ ॥ 15 ॥
दुःशासने यद रणे संश्रुतं मे; तद वै सर्वं कृतम अद्येह वीरौ अद्यैव दास्याम्य अपरं दवितीयं; दुर्यॊधनं यज्ञपशुं विशस्या शिरॊमृदित्वा च पदा दुरात्मनः; शान्तिं लप्स्ये कौरवाणां समक्षम ॥ 16 ॥
एतावद उक्त्वा वचनं परहृष्टॊ; ननाद अचॊच्चै रुधिरार्द्रगात्रः ननर्त चैवातिबलॊ महात्मा; वृत्रं निहत्येव सहस्रनेत्रः ॥ 17 ॥
कर्णपर्व · Karna Parva
अध्याय 61
Reach this point to mark the section finished.
Continue to अध्याय 62