[स] ततः कर्णः कुरुषु परद्रुतेषु; वरूथिना शवेतहयेन राजन पाञ्चाल पुत्रान वयधमत सूतपुत्रॊ; महेषुभिर वात इवाभ्रसंघान ॥ 1 ॥
सूतं रथाद अज्ञलिकेन पात्य; जघान चाश्वाञ जनमेजयस्य शतानीकं सुत सॊमं च भल्लैर; अवाकिरद धनुषी चाप्य अकृन्तत ॥ 2 ॥
धृष्टद्युम्नं निर्बिभेदाथ षड्भिर; जघान चाश्वं दक्षिणं तस्य संख्ये हत्वा चाश्वान सात्यकेः सूतपुत्रः; कैकेय पुत्रं नयवधीद विशॊकम ॥ 3 ॥
तम अभ्यधावन निहते कुमारे; कैकेय सेनापतिर उग्रधन्वा शरैर विभिन्नं भृशम उग्रवेगैः; कर्णात्मजं सॊ ऽभयहनत सुषेणम ॥ 4 ॥
तस्यार्ध चन्द्रैस तरिभिर उच्चकर्त; परसह्य बाहू च शिरश च कर्णः स सयन्दनाद गाम अपतद गतासुः; परश्वधैः शाल इवावरुग्णः ॥ 5 ॥
हताश्वम अञ्जॊ गतिभिः सुषेणः; शिनिप्रवीरं निशितैः पृषत्कैः परच्छाद्य नृत्यन्न इव सौति पुत्रः; शैनेय बाणाभिहतः पपात ॥ 6 ॥
पुत्रे हते करॊधपरीत चेताः; कर्णः शिनीनाम ऋषभं जिघांसुः हतॊ ऽसि शैनेय इति बरुवन स; वयवासृजद बाणम अमित्रसाहम ॥ 7 ॥
स तस्य चिच्छेद शरं शिखण्डी; तरिभिस तरिभिश च परतुतॊद कर्णम शिखण्डिनः कर्मुकं स धवजं च; छित्त्वा शराभ्याम अहनत सुजातम ॥ 8 ॥
शिखण्डिनं षड्भिर अविध्यद उग्रॊ; दान्तॊ धर्ष्टद्युम्न शिरश चकर्त अथाभिनत सुत सॊमं शरेण; स संशितेनाधिरथिर महात्मा ॥ 9 ॥
अथाक्रन्दे तुमुले वर्तमाने; धार्ष्टद्युम्ने निहते तत्र कृष्णः अपाञ्चाल्यं करियते याहि पार्थ; कर्णं जहीत्य अब्रवीद राजसिंह ॥ 10 ॥
ततः परहस्याशु नरप्रवीरॊ; रथं रथेनाधिरथेर जगाम भये तेषां तराणम इच्छन सुबाहुर; अभ्याहतानां रथरूथपेन ॥ 11 ॥
विस्फार्य गाण्डीवम अथॊग्र घॊषं; जयया समाहत्य तले भृशं च बाणान्ध कारं सहसैव कृत्वा; जघान नागाश्वरथान नरांश च ॥ 12 ॥
तं भीमसेनॊ ऽनु ययौ रथेन; पृष्ठे रक्षन पाण्डवम एकवीरम तौ राजपुत्रौ तवरितौ रथाभ्यां; कर्णाय याताव अरिभिर विमुक्तौ ॥ 13 ॥
अत्रान्तरे सुमहत सूतपुत्रश; चक्रे युद्धं सॊमकान संप्रमृद्नन रथाश्वमातङ्गगणाञ जघान; परच्छादयाम आस दिशः शरैश च ॥ 14 ॥
तम उत्तमौजा जनमेजयश च; करुद्धौ युधामन्युशिखण्डिनौ च कर्णं विनेदुः सहिताः पृषत्कैः; संमर्दमानाः सह पार्षतेन ॥ 15 ॥
ते पञ्च पाञ्चाल रथाः सुरूपैर; वैकर्तनं कर्णम अभिद्रवन्तः तस्माद रथाच चयावयितुं न शेकुर; धैर्यात कृतात्मानम इवेन्द्रियाणि ॥ 16 ॥
तेषां धनूंषि धवजवाजि सूतांस; तूणं पताकाश च निकृत्य बाणैः तान पञ्चभिः स तव अहनत पृषत्कैः; कर्णस ततः सिंह इवॊन्ननाद ॥ 17 ॥
तस्यास्यतस तान अभिनिघ्नतश च; जया बाणहस्तस्य धनुः सवनेन साद्रि दरुमा सयात पृथिवी विशीर्णा; इत्य एव मत्वा जनता वयषीदत ॥ 18 ॥
स शक्रचापप्रतिमेन धन्वना; भृशाततेनाधिरथिः शरान सृजन बभौ रणे दीप्तमरीचि मण्डलॊ; यथांशु माली परिवृषवांस तथा ॥ 19 ॥
शिखण्डिनं दवादशभिः पराभिनच; छितैः शरैः षड्भिर अथॊत्तमौजसम तरिहिर युधामन्युम अविध्यद आशुगैस; तरिभिस तरिभिः सॊमक पार्षतात्मजौ ॥ 20 ॥
पराजिताः पञ्च महारथास तु ते; महाहवे सूत सूतेन मारिष निरुद्यमास तस्थुर अमित्रमर्दना; यथेन्द्रियार्थात्मवता पराजिताः ॥ 21 ॥
निमज्जतस तान अथ कर्ण सागरे; विपन्ननावॊ वणिजॊ यथार्णवे उद्दध्रिरे नौभिर इवार्णवाद रथैः; सुकल्पितैर दरौपदिजाः सवमातुलान ॥ 22 ॥
ततः शिनीनाम ऋषबः शितैः शरैर; निकृत्य कर्ण परहितान इषून बहून विदार्य कर्णं निशितैर अयॊ मयैस; तवात्मजं जयेष्ठम अविध्यद अष्टभिः ॥ 23 ॥
कृपॊ ऽथ भॊजश च तवात्मजस तथा; सवयं च कर्णॊ निशितैर अताडयत स तैश चतुर्भिर युयुधे यदूत्तमॊ; दिग ईश्वरैर दैत्य पतिर यथातथा ॥ 24 ॥
समानतेनेष्व असनेन कूजता; भृशाततेनामित बाणवर्षिणा बभूव दुर्धर्षतरः स सात्यकिः; शरन नभॊ मध्यगतॊ यथा रविः ॥ 25 ॥
पुनः समासाद्य रथान सुदंशिताः; शिनिप्रवीरं जुगुपुः परंतपः समेत्य पाञ्चाल रथा महारणे; मरुद्गणाः शक्रम इवारि निग्रहे ॥ 26 ॥
ततॊ ऽभवद युद्धम अतीव दारुणं; तवाहितानां तव सैनिकैः सह रथाश्वमातङ्गविनाशनं तथा; यथा सुराणाम असुरैः पुराभवत ॥ 27 ॥
रथद्विपा वाजिपदातयॊ ऽपि वा; भरमन्ति नानाविध शस्त्रवृष्टिताः परस्परेणाभिहताश च चस्खलुर; विनेदुर आर्ता वयसवॊ ऽपतन्त च ॥ 28 ॥
तथागते भीम भीस तवात्मजः; ससार राजावरजः किरञ शरैः तम अभ्यधावत तवरितॊ वृकॊदरॊ; महारुरुं सिंह इवाभिपेतिवान ॥ 29 ॥
ततस तयॊर युद्धम अतीतमानुषं; परदीव्यतॊः पराणदुरॊदरे ऽभवत परस्परेणाभिनिविष्ट रॊषयॊर; उदग्रयॊः शम्बर शक्रयॊर यथा ॥ 30 ॥
शरैः शरीरान्तकरैः सुतेजनैर; निजघ्नतुस ताव इतरेतरं भृशम सकृत परभिन्नाव इव वाशितान्तरे; महागजौ मन्मथ सक्तचेतसौ ॥ 31 ॥
तवात्मजस्याथ वृकॊदरस तवरन; धनुः कषुराभ्यां धवजम एव चाच्छिनत ललाटम अप्य अस्य बिभेद पत्रिणा; शिरश च कायात परजहार सारथेः ॥ 32 ॥
स राजपुत्रॊ ऽनयद अवाप्य कार्मुकं; वृकॊदरं दवादशभिः पराभिनत सवयं नियच्छंस तुरगान अजिह्मगैः; शरैश च भीमं पुनर अभ्यवीवृषत ॥ 33 ॥
कर्णपर्व · Karna Parva
अध्याय 60
Reach this point to mark the section finished.
Continue to अध्याय 61