धर्मDharmic Data

कर्णपर्व · Karna Parva

अध्याय 57

  1. [स] अर्जुनस तु महाराज कृत्वा सैन्यं पृथग्विधाम सूतपुत्रं सुसंरब्धं दृष्ट्वा चैव महारणे ॥ 1 ॥

  2. शॊणितॊदां महीं कृत्वा मांसमज्जास्थि वाहिनीम वासुदेवम इदं वाक्यम अब्रवीत पुरुषर्षभ ॥ 2 ॥

  3. एष केतू रणे कृष्ण सूतपुत्रस्य दृश्यते भीमसेनादयश चैते यॊधयन्ति महारथान एते दरवन्ति पाञ्चालाः कर्णास तरस्ता जनार्दन ॥ 3 ॥

  4. एष दुर्यॊधनॊ राजा शवेतच छत्रेण भास्वता कर्णेन भग्नान पाञ्चालान दरावयन बहु शॊभते ॥ 4 ॥

  5. कृपश च कृतवर्मा च दरौणिश चैव महाबलः एते रक्षन्ति राजानं सूतपुत्रेण रक्षिताः अवध्यमानास ते ऽसमाभिर घातयिष्यन्ति सॊमकान ॥ 5 ॥

  6. एष शल्यॊ रथॊपस्थे रश्मिसंचार कॊविदः सूतपुत्र रथं कृष्ण वाहयन बहु शॊभते ॥ 6 ॥

  7. तत्र मे बुद्धिर उत्पन्ना वाहयात्र महारथम नाहत्वा समरे कर्णं निवर्तिष्ये कथं चन ॥ 7 ॥

  8. राधेयॊ ऽपय अन्यथा पर्थान सृञ्जयांश च महारथान निःशेषान समरे कुर्यात पश्यातॊर नौ जनार्दन ॥ 8 ॥

  9. ततः परायाद रथेनाशु केशवस तव वाहिनीम कर्णं परति महेष्वासं दवैरथे सव्यसाचिना ॥ 9 ॥

  10. परयातश च महाबाहुः पाण्डवानुज्ञया हरिः आश्वासयन रथेनैव पाण्डुसैन्यानि सर्वशः ॥ 10 ॥

  11. रथघॊषः स संग्रामे पाण्डवेयस्य संबभौ वासवाशनि तुल्यस्य महौघस्येव मारिष ॥ 11 ॥

  12. महता रथघॊषेण पाण्डवः सत्यविक्रमः अभ्ययाद अप्रमेयात्मा विजयस तव वाहिनीम ॥ 12 ॥

  13. तम आयान्तं समीक्ष्यैव शवेताश्वं कृष्णसारथिम मद्रराजॊ ऽबरवीत कृष्णं केतुं दृष्ट्वा महात्मनः ॥ 13 ॥

  14. अयं स रथ आयाति शवेताश्वः कृष्णसारथिः निघ्नन्न अमित्रान समरे यं कर्ण परिपृच्छसि ॥ 14 ॥

  15. एष तिष्ठति कौन्तेयः संस्पृशन गाण्डिवं धनुः तं हनिष्यसि चेद अद्य तन नः शरेयॊ भविष्यति ॥ 15 ॥

  16. एषा विदीर्यते सेना धार्तराष्ट्री समन्ततः अर्जुनस्य भयात तूर्णं निघ्नतः शात्रवान बहून ॥ 16 ॥

  17. वर्जयन सर्वसैन्यानि तवरते हि धनंजयः तवदर्थम इति मन्ये ऽहं यथास्यॊदीर्यते वपुः ॥ 17 ॥

  18. न हय अवस्थाप्यते पार्थॊ युयुत्सुः केन चित सह तवाम ऋते करॊधदीप्तॊ हि पीड्यमाने वृकॊदरे ॥ 18 ॥

  19. विरथं धर्मराजं च दृष्ट्वा सुदृढ विक्षतम शिखण्डिनं सात्यकिं च धृष्टद्युम्नं च पार्षतम ॥ 19 ॥

  20. दरौपदेयान युधामन्युम उत्तमौजसम एव च नकुलं सहदेवं च भरातरौ दवौ समीक्ष्य च ॥ 20 ॥

  21. सहसैक रथः पार्थस तवाम अभ्येति परंतप करॊधरक्तेक्षणः करुद्धॊ जिघांसुः सर्वधन्विनाम ॥ 21 ॥

  22. तवरितॊ ऽभिपतत्य अस्मांस तयक्त्वा सैन्यान्य असंशयम तवं कर्ण परतियाह्य एनं नास्त्य अन्यॊ हि धनुर्धरः ॥ 22 ॥

  23. न तं पश्यामि लॊके ऽसमिंस तवत्तॊ ऽपय अन्यं धनुर्धरम अर्जुनं समरे करुद्धां यॊ वेलाम इव धारयेत ॥ 23 ॥

  24. न चास्य रक्षां पश्यामि पृष्ठतॊ न च पार्श्वतः एक एवाभियाति तवां पश्य साफल्यम आत्मनः ॥ 24 ॥

  25. तवं हि कृष्णौ रणे शक्तः संसाधयितुम आहवे तवैष भारॊ राधेय परत्युद्याहि धनंजयम ॥ 25 ॥

  26. तवं कृतॊ हय एव भीष्मेण दरॊण दरौणिकृपैर अपि सव्यसाचि परतिरथस तं निवर्तत पाण्डवम ॥ 26 ॥

  27. लेलिहानं यथा सर्पं गर्जन्तम ऋषभं यथा लयस्थितं यथा वयाघ्रं जहि कर्ण धनंजयम ॥ 27 ॥

  28. एते दरवन्ति समरे धार्तराष्ट्रा महारथाः अर्जुनस्या भयात तूर्णं निरपेक्षा जनाधिपाः ॥ 28 ॥

  29. दरवताम अथ तेषां तु युधि नान्यॊ ऽसति मानवः भयहा यॊ भवेद वीर तवाम ऋते सूतनन्दन ॥ 29 ॥

  30. एते तवां कुरवः सर्वे दीपम आसाद्य संयुगे विष्ठिताः पुरुषव्याघ्र तवात्तः शरण काङ्क्षिणः ॥ 30 ॥

  31. वैदेहाम्बष्ठ काम्बॊजास तथा नग्न जितस तवया गान्धाराश च यया धृत्या जिताः संख्ये सुदुर्जयाः ॥ 31 ॥

  32. तां धृतिं कुरु राधेय ततः परत्येहि पाण्डवम वासुदेवं च वार्ष्णेयं परीयमाणं किरीटिना ॥ 32 ॥

  33. [कर्ण] परकृतिस्थॊ हि मे शल्य इदानीं संमतस तथा परतिभासि महाबाहॊ विभीश चैव धनंजयात ॥ 33 ॥

  34. पश्य बाह्वॊर बलं मे ऽदय शिक्षितस्य च पश्य मे एकॊ ऽदय निहनिष्यामि पाण्डवानां महाचमूम ॥ 34 ॥

  35. कृष्णौ च पुरुषव्याघ्रौ तच च सत्यं बरवीमि ते नाहत्वा युधि तौ वीराव अपयास्ये कथं चन ॥ 35 ॥

  36. सवप्स्ये वा निह्यतस ताभ्याम असत्यॊ हि रणे जयः कृतार्थॊ वा भविष्यामि हत्वा ताव अथ वा हतः ॥ 36 ॥

  37. नैतादृशॊ जातु बभूव लॊके; रथॊत्तमॊ यावद अनुश्रुतं नः तम ईदृशं परतियॊत्स्यामि पार्थं; महाहवे पश्य च पौरुषं मे ॥ 37 ॥

  38. रथे चरत्य एष रथप्रवीरः; शीघ्रैर हयैः कौरव राजपुत्रः स वाद्य मां नेष्यति कृच्छ्रम एतत; कर्णस्यान्ताद एतद अन्ताः सथ सर्वे ॥ 38 ॥

  39. अस्वेदिनौ राजपुत्रस्य हस्ताव; अवेपिनौ जातकिणौ बृहन्तौ दृढायुधः कृतिमान कषिप्रहस्तॊ; न पाण्डवेयेन समॊ ऽसति यॊधः ॥ 39 ॥

  40. गृह्णात्य अनेकान अपि कङ्कपत्रान; एकं यथा तान कषितिपान परमथ्य ते करॊशमात्रं निपतन्त्य अमॊघाः; कस तेन यॊधॊ ऽसति समः पृथिव्याम ॥ 40 ॥

  41. अतॊषयत पाण्डवेयॊ हुताशं; कृष्ण दवितीयॊ ऽतिरथस तरस्वी लेभे चक्रं यत्र कृष्णॊ महात्मा; धनुर गाण्डीवं पाण्डवः सव्य साची ॥ 41 ॥

  42. शवेताश्वयुक्तं च सुघॊषम अग्र्यं; रथं महाबाहुर अदीनसत्त्वः महेषुधी चाक्षयौ दिव्यरूपौ; शस्त्राणि दिव्यानि च हव्यवाहात ॥ 42 ॥

  43. तथेन्द्र लॊके निजघान दैत्यान; असंख्येयान कालकेयांश च सर्वान लेभे शङ्खं देवदत्तं सम तत्र; कॊ नाम तेनाभ्यधिकः पृथिव्याम ॥ 43 ॥

  44. महादेवं तॊषयाम आस चैव; साक्षात सुयुद्धेन महानुभावः लेभे ततः पाशुपतं सुघॊरं; तरैलॊक्यसंहार करं महास्त्रम ॥ 44 ॥

  45. पृथक्पृथग लॊकपालाः समेता; ददुर हय अस्त्राण्य अप्रमेयाणि यस्य यैस ताञ जघानाशु रणे नृसिंहान; स कालखञ्जान असुरान समेतान ॥ 45 ॥

  46. तथा विराटस्य पुरे समेतान; सर्वान अस्मान एकरथेन जित्वा जहार तद गॊधनम आजिमध्ये; वस्त्राणि चादत्त महारथेभ्यः ॥ 46 ॥

  47. तम ईदृश्म वीर्यगुणॊपपन्नं; कृष्ण दवितीयं वरये रणाय अनन्तवीर्येण च केशवेन; नारायणेनाप्रतिमेन गुप्तम ॥ 47 ॥

  48. वर्षायुतैर यस्य गुणा न शक्या; वक्तुं समेतैर अपि सर्वलॊकैः महात्मनः शङ्खचक्रासि पाणेर; विष्णॊर जिष्णॊर वसुदेवात्मजस्य भयं मे वै जायते साध्वसं च; दृष्ट्वा कृष्णाव एकरथे समेतौ ॥ 48 ॥

  49. उभौ हि शूरौ कृतिनौ दृढास्त्रौ; महारथौ संहननॊपपन्नौ एतादृशौ फल्गुन वासुदेवौ; कॊ ऽनयः परतीयान मद ऋते नु शल्य ॥ 49 ॥

  50. एताव अहं युधि वा पातयिष्ये; मां वा कृष्णौ निहनिष्यतॊ ऽदय इति बरुवञ शक्यम अमित्रहन्ता; कर्णॊ रणे मेघ इवॊन्ननाद ॥ 50 ॥

  51. अभ्येत्य पुत्रेण तवाभिनन्दितः; समेत्य चॊवाच कुरुप्रवीरान कृपं च भॊजं च महाभुजाव उभौ; तथैव गान्धार नृपं सहानुजम गुरॊः सुतं चावरजं तथात्मनः; पदातिनॊ ऽथ दविपसादिनॊ ऽनयान ॥ 51 ॥

  52. निरुन्धताभिद्रवताच्युतार्जुनौ; शरमेण संयॊजयताशु सर्वतः यथा भवद्भिर भृशविक्षताव उभौ; सुखेन हन्याम अहम अद्य भूमिपाः ॥ 52 ॥

  53. तथेति चॊक्त्वा तवरिताः सम ते ऽरजुनं; जिघांसवॊ वीरतमाः समभ्ययुः नदीनदान भूरि जलॊ महार्णवॊ; यथातथा तान समरे ऽरजुनॊ ऽगरसत ॥ 53 ॥

  54. न संदधानॊ न तथा शरॊत्तमान; परमुञ्चमानॊ रिपुभिः परदृश्यते धनंजयस तस्य शरैश च दारिता; हताश च पेतुर नरवाजि कुञ्जराः ॥ 54 ॥

  55. शरार्चिषं गाण्डिवचारु मण्डलं; युगान्तसूर्यप्रतिमान तेजसम न कौरवाः शेकुर उदीक्षितुं जयं; यथा रविं वयाधित चक्षुषॊ जनाः ॥ 55 ॥

  56. तम अभ्यधावद विसृजञ शरान कृपस; तथैव भॊजस तव चात्मजः सवयम जिघांसुभिस तान कुशलैः शरॊत्तमान; महाहवे संजवितान परयत्नतः शरैः परचिच्छेद च पाण्डवस तवरन; पराभिनद वक्षसि च तरिभिस तरिभिः ॥ 56 ॥

  57. स गाण्डिवाभ्यायत पूर्णमण्डलस; तपन रिपून अर्जुन भास्करॊ बभौ शरॊग्र रश्मिः शुचि शुक्रमध्यगॊ; यथैव सूर्यः परिवेषगस तथा ॥ 57 ॥

  58. अथाग्र्य बाणैर दशभिर धनंजयं; पराभिनद दरॊणसुतॊ ऽचयुतं तरिभिः चतुर्भिर अश्वांश चतुरः कपिं तथा; शरैः स नाराचवरैर अवाकिरत ॥ 58 ॥

  59. तथा तु तत तत सफुरद आत्तकार्मुकं; तरिभिः शरैर यन्तृशिरः कषुरेण हयांश चतुर्भिश चतुरस तरिभिर धवजं; धनंजयॊ दरौणिरथान नयपातयत ॥ 59 ॥

  60. स रॊषपूर्णॊ ऽशनिवज्रहाटकैर; अलंकृतं तक्षक भॊगवर्चसम सुबन्धनं कार्मुकम अन्यद आददे; यथा महाहिप्रवरं गिरेस तथा ॥ 60 ॥

  61. सवम आयुधं चॊपविकीर्य भूतले; धनुश च कृत्वा सगुणं गुणाधिकः समानयानाव अजितौ नरॊत्तमौ; शरॊत्तमैर दरौणिर अविध्यद अन्तिकात ॥ 61 ॥

  62. कृपश च भॊजश च तथात्मजश च ते; तमॊनुदं वारिधरा इवापतन कृपस्य पार्थः सशरं शरासनं; हयान धवजं सारथिम एव पत्रिभिः ॥ 62 ॥

  63. शरैः परचिच्छेद तवात्मजस्य; धवजं धनुश च परचकर्त नर्दतः जघान चाश्वान कृतवर्मणः शुभान; धवजं च चिच्छेद ततः परतापवान ॥ 63 ॥

  64. सवाजिसूतेष्व असनान सकेतनाञ; जघान नागाश्वरथांस तवरंश च सः ततः परकीर्णं सुमहद बलं तव; परदारितं सेतुर इवाम्भसा यथा ततॊ ऽरजुनस्याशु रथेन केशवश; चकार शत्रून अपसव्य मातुरान ॥ 64 ॥

  65. तथ परयान्तं तवरितं धनंजयं; शतक्रतुं वृत्र निजघ्नुषं यथा समन्वधावन पुनर उच्छ्रितैर धवजै; रथैः सुयुक्तैर अपरे युयुत्सवः ॥ 65 ॥

  66. अथाभिसृत्य परतिवार्य तान अरीन; धनंजयस्याभि रथं महारथाः शिखण्डिशैनेय यमाः शितैः शरैर; विदारयन्तॊ वयनदन सुभौरवम ॥ 66 ॥

  67. ततॊ ऽभिजघ्नुः कुपिताः परस्परं; शरैस तदाञ्जॊ गतिभिः सुतेजनैः कुरुप्रवीराः सह सृञ्जयैर यथा; असुराः पुरा देववरैर अयॊधयन ॥ 67 ॥

  68. जयेप्सवः सवर्गमनाय चॊत्सुकाः; पतन्ति नागाश्वरथाः परंतप जगर्जुर उच्चैर बलवच च विव्यधुः; शरैः सुमुक्तैर इतरेतरं पृथक ॥ 68 ॥

  69. शरान्धकारे तु महात्मभिः कृते; महामृधे यॊधवरैः परस्परम बभुर दशाशा न दिवं च पार्थिव; परभा च सूर्यस्य तमॊवृताभवत ॥ 69 ॥

Reach this point to mark the section finished.

Continue to अध्याय 58

Previous: अध्याय 56