[धृ] ततॊ भग्नेषु सैन्येषु भीमसेनेन संयुगे दुर्यॊधनॊ ऽबरवीत किं नु सौबलॊ वापि संजय ॥ 1 ॥
कर्णॊ वा जयतां शरेष्ठॊ यॊधा वा मामका युधि कृपॊ वा कृतवर्मा च दरौणिर दुःशासनॊ ऽपि वा ॥ 2 ॥
अत्यद्भुतम इदं मन्ये पाण्डवेयस्य विक्रमम यथाप्रतिज्ञं यॊधानां राधेयः कृतवान अपि ॥ 3 ॥
कुरूणाम अपि सर्वेषां कर्णः शत्रुनिषूदनः शर्म वर्म परतिष्ठा च जीविताशा च संजय ॥ 4 ॥
तत परभग्नं बलं दृष्ट्वा कौन्तेयेनामितौजसा राधेयानाम अधिरथः कर्णः किम अकरॊद युधि ॥ 5 ॥
पुत्रा वा मम दुर्धर्षा राजानॊ वा महारथाः एतन मे सर्वम आचक्ष्व कुशलॊ हय असि संजय ॥ 6 ॥
[स] अपराह्णे महाराज सूतपुत्रः परतापवान जघान सॊमकान सर्वान भीमसेनस्य पश्यतः भीमॊ ऽपय अतिबलः सैन्यं धार्तराष्ट्रं वयपॊथयत ॥ 7 ॥
दराव्यमाणं बलं दृष्ट्वा भीमसेनेन धीमता यन्तारम अब्रवीत कर्णः पाञ्चालान एव मा वह ॥ 8 ॥
मद्रराजस ततः शल्यः शवेतान अश्वान महाजवान पराहिणॊच चेदिपाञ्चालान करूषांश च महाबलः ॥ 9 ॥
परविश्य च स तां सेनां शल्यः परबलार्दनः नययच्छत तुरगान हृष्टॊ यत्र यत्रैच्छद अग्रणीः ॥ 10 ॥
तं रतहं मेघसंकाशं वैयाघ्रपरिवारणम संदृश्य पाण्डुपाञ्चालास तरस्ता आसन विशां पते ॥ 11 ॥
ततॊ रथस्य निनदः परादुरासीन महारणे पर्जन्यसमनिर्घॊषः पर्वतस्येव दीर्यतः ॥ 12 ॥
ततः शरशतैस तीक्ष्णैः कर्णॊ ऽपय आकर्णनिःसृतैः जघान पाण्डव बलं शतशॊ ऽथ सहस्रशः ॥ 13 ॥
तं तथा समरे कर्म कुर्वाणम अतिमानुषम परिवव्रुर महेष्वासाः पाण्डवानां महारथाः ॥ 14 ॥
तं शिखण्डी च भीमश च धृष्टद्युम्नश च पार्षतः नकुलः सहदेवश च दरौपदेयाः ससात्यकाः परिवव्रुर जिघांसन्तॊ राधेयं शरवृष्टिभिः ॥ 15 ॥
सात्यकिस तु ततः कर्णं विंशत्या निशितैः शरैः अताडयद रणे शूरॊ जत्रु देशे नरॊत्तमः ॥ 16 ॥
शिखण्डी पञ्चविंशत्या धृष्टद्युम्नश च पञ्चभिः दरौपदेयाश चतुःषष्ट्या सहदेवश च सप्तभिः नकुलश च शतेनाजौ कर्णं विव्याध सायकैः ॥ 17 ॥
भीमसेनस तु राधेयं नवत्या नतपर्वणाम विव्याध समरे करुद्धॊ जत्रु देशे महाबलः ॥ 18 ॥
ततः परहस्याधिरथिर विक्षिपन धनुर उत्तमम मुमॊच निशितान बाणान पीडयन सुमहाबलः तान परत्यविध्यद राधेयः पञ्चभिः पञ्चभिः शरैः ॥ 19 ॥
सात्यकेस तु धनुश छित्त्वा धवजं च पुरुषर्षभः अथैनं नवभिर बाणैर आजघान सतनान्तरे ॥ 20 ॥
भीमसेनस तु तं करुद्धॊ विव्याध तरिंशता शरैः सारथिं च तरिभिर बाणैर आजघान परंतपः ॥ 21 ॥
विरथान दरौपदेयांश च चकार पुरुषर्षभः अक्ष्णॊर निमेष मात्रेण तद अद्भुतम इवाभवत ॥ 22 ॥
विमुखीकृत्य तान सर्वाञ शरैः संनतपर्वभिः पाञ्चालान अहनच छूरश चेदीनां च महारथान ॥ 23 ॥
ते वध्यमानाः समरे चेदिमत्स्या विशां पते कर्णम एकम अभिद्रुत्य शरसंघैः समार्दयन ताञ जघान शितैर बाणैः सूतपुत्रॊ महारथः ॥ 24 ॥
एतद अत्यद्भुतं कर्णे दृष्टवान अस्मि भारत यद एकः समरे शूरान सूतपुत्रः परतापवान ॥ 25 ॥
यातमानान परं शक्त्यायॊधयत तांश च धन्विनः पाण्डवेयान महाराज शरैर वारितवान रणे ॥ 26 ॥
तत्र भारत कर्णस्य ललाघवेन महात्मनः तुतुषुर देवताः सर्वाः सिद्धाश च परमर्षयः ॥ 27 ॥
अपूजयन महेष्वासा धार्तराष्ट्रा नरॊत्तमम कर्णं रथवरश्रेष्ठं शरेष्ठं सर्वधनुष्मताम ॥ 28 ॥
ततः कर्णॊ महाराज ददाह रिपुवाहिनीम कक्षम इद्धॊ यथा वह्निर निदाघे जवलितॊ महान ॥ 29 ॥
ते वध्यमानाः कर्णेन पाण्डवेयास ततस ततः पराद्रवन्त रणे भीताः कर्णं दृष्ट्वा महाबलम ॥ 30 ॥
तत्राक्रन्दॊ महान आसीत पाञ्चालानां महारणे वध्यतां सायकैस तीक्ष्णैः कर्ण चापवरच्युतैः ॥ 31 ॥
तेन शब्देन वित्रस्ता पाण्डवानां महाचमूः कर्णम एकं रणे यॊधं मेनिरे तत्र शात्रवाः ॥ 32 ॥
तत्राद्भुतं परं चक्रे राधेयः शत्रुकर्शनः यद एकं पाण्डवाः सर्वे न शेकुर अभिवीक्षितुम ॥ 33 ॥
यथौघः पर्वतश्रेष्ठम आसाद्याभिप्रदीर्यतेल तथा तत पाण्डवं सैन्यं कर्णम आस्साद्य दीर्यते ॥ 34 ॥
कर्णॊ ऽपि समरे राजन विधूमॊ ऽगनिर इव जवलन दहंस तस्थौ महाबाहुः पाण्डवानां महाचमूम ॥ 35 ॥
शिरांसि च महाराज कर्णांश चञ्चल कुण्डलान बाहूंश च वीरॊ वीराणां चिच्छेद लघु चेषुभिः ॥ 36 ॥
हस्तिदन्तान तसरून खड्गान धवजाञ शक्तीर हयान गजान रथांश च विविधान राजन पताकाव्यजनानि च ॥ 37 ॥
अक्षेषा युगयॊक्त्राणि चक्राणि विविधानि च चिच्छेद शतधा कर्णॊ यॊधव्रतम अनुष्ठितः ॥ 38 ॥
तत्र भारत कर्णेन निहतैर गजवाजिभिः अगम्यरूपा पृथिवी मांसशॊणितकर्दमा ॥ 39 ॥
विषमं च समं चैव हतैर अश्वपदातिभिः रथैश च कुञ्जरैश चैव न परज्ञायत किं चन ॥ 40 ॥
नापि सवे न परे यॊधाः परज्ञायन्त परस्परम घॊरे शरान्धकारे तु कर्णास्त्रे च विजृम्भिते ॥ 41 ॥
राधेय चापनिर्मुक्तैः शरैः काञ्चनभूषितैः संछादिता महाराज यतमाना महारथाः ॥ 42 ॥
ते पाण्डवेयाः समरे कर्णेन सम पुनः पुनः अभज्यन्त महाराज यतमाना महारथाः ॥ 43 ॥
मृगसंघान यथा करुद्धः सिंहॊ दरावयते वने कर्णस तु समरे यॊधांस तत्र तत्र महायशाः कालयाम आस तत सैन्यं यथा पशुगणान वृकः ॥ 44 ॥
दृष्ट्वा तु पाण्डवीं सेनां धार्तराष्ट्राः पराङ्मुखीम अभिजग्मुर महेष्वासा रुवन्तॊ भैरवान रवान ॥ 45 ॥
दुर्यॊधनॊ हि राजेन्द्र मुदा परमया युतः वादयाम आस संहृष्टॊ नानावाद्यानि सर्वशः ॥ 46 ॥
पाञ्चालापि महेष्वासा भग्नभग्ना नरॊत्तमाः नयवर्तन्त यथा शूरा मृत्युं कृत्वा निवर्तनम ॥ 47 ॥
तान निवृत्तान रणे शूरान राधेयः शत्रुतापनः अनेकशॊ महाराज बभञ्ज पुरुषर्षभः ॥ 48 ॥
तत्र भारत कर्णेन पाञ्चाला विंशती रथाः निहताः सादयः करॊधाच चेदयश च परःशताः ॥ 49 ॥
कृत्वा शून्यान रथॊपस्थान वाजिपृष्ठांश च भारत निर्मनुष्यान गजस्कन्धान पादातांश चैव विद्रुतान ॥ 50 ॥
आदित्य इव मध्याह्ने दुर्निरीक्ष्यः परंतह कालान्तकवपुः करूदः सूतपुत्रश चचाल ह ॥ 51 ॥
एवम एतान महाराज नरवाजि रथा दविपान हत्वा तस्थौ महेष्वासः कर्णॊ ऽरिगणसूदनः ॥ 52 ॥
यथा भूतगणान हत्वा कालस तिष्ठेन महाबलः तथा स सॊमकान हत्वा तस्थाव एकॊ महारथः ॥ 53 ॥
तत्राद्भुतम अपश्याम पाञ्चालानां पराक्रमम वध्यमानापि कर्णेन नाजहू रणमूर्धनि ॥ 54 ॥
राजा दुःशासनश चैव कृपः शारद्वतस तथा अश्वत्थामा कृतवर्मा शकुनिश चापि सौबलः नयहनन पाण्डवीं सेनां शतशॊ ऽथ सहस्रशः ॥ 55 ॥
कर्ण पुत्रौ च राजेन्द्र भरातरौ सत्यविक्रमौ अनाशयेतां बलिनः पाञ्चालान वै ततस ततः तत्र युद्धं तदा हय आसीत करूरं विशसनं महत ॥ 56 ॥
तथैव पाण्डवाः शूरा धृष्टद्युम्न शिखण्डिनौ दरौपदेयाश च संक्रुद्धा अभ्यघ्नंस तावकं बलम ॥ 57 ॥
एवम एष कषयॊ वृत्तः पाण्डवानां ततस ततः तावकानाम अपि रणे भीमं पराप्य महाबलम ॥ 58 ॥
कर्णपर्व · Karna Parva
अध्याय 56
Reach this point to mark the section finished.
Continue to अध्याय 57