धर्मDharmic Data

कर्णपर्व · Karna Parva

अध्याय 58

  1. [स] राजन कुरूणां परवरैर बलैर भीमम अभिद्रुतम मज्जन्तम इव कौन्तेयम उज्जिहीर्षुर धनंजयः ॥ 1 ॥

  2. विमृद्य सूतपुत्रस्य सेनां भारत सायकैः पराहिणॊन मृत्युलॊकाय परवीरान धनंजयः ॥ 2 ॥

  3. ततॊ ऽसयाम्बरम आवृत्य शरजालानि भागशः अदृश्यन्त तथान्ये च निघ्नन्तस तव वाहिनीम ॥ 3 ॥

  4. स पक्षिसंघाचरितम आकाशं पूरयञ शरैः धनंजयॊ महाराज कुरूणाम अन्तकॊ ऽभवत ॥ 4 ॥

  5. ततॊ भल्लैः कषुरप्रैश च नाराचैर निर्मलैर अपि गात्राणि पराक्षिणॊत पार्थः शैरांसि च चकर्त ह ॥ 5 ॥

  6. छिन्नगात्रैर विकवचैर विशिरस्कैः समन्ततः पतितैश चपतद्भिश च यॊधैर आसीत समावृतम ॥ 6 ॥

  7. धनंजय शराभ्यस्तैः सयन्दनाश्वनरद्विपैः रणभूमिर अभूद राजन महावैतरणी यथा ॥ 7 ॥

  8. इषा चक्राक्षभङ्गैश च वयश्वैः साश्वैश च युध्यताम ससूतैर हतसूतैश च रथैः सतीर्णाभवन मही ॥ 8 ॥

  9. सुवर्णवर्म संनाहैर यॊधैः कनकभूषणैः आस्थिताः कृतवर्माणॊ भद्रा नित्यमदा दविपाः करुद्धाः करुद्धैर महामात्रैः परेषितार्जुनम अभ्ययुः ॥ 9 ॥

  10. चतुःशताः शरवर्षैर हताः पेतुः किरीटिना पर्यस्तानीव शृङ्गाणि ससत्त्वानि महागिरेः ॥ 10 ॥

  11. धनंजय शराभ्यस्तैः सतीर्णा भूर वरवारणैः अभिपेदे ऽरजुन रथॊ घनान भिन्दन्निवांशुमान ॥ 11 ॥

  12. हतैर गजमनुष्याश्वैर भग्नैश च बहुधा रथैः विशस्त्र पत्रकवचैर युद्धशौण्डैर गतासुभिः अपविद्धायुधैर मार्गः सतीर्णॊ ऽभूत फल्गुनेन वै ॥ 12 ॥

  13. वयस्फूर्जयच च गाण्डीवं सुमहद भैरवस्वनम घॊरॊ वज्रविनिष्पेषः सतनयित्नॊर इवाम्बरे ॥ 13 ॥

  14. ततः परदीर्यत चमूर धनंजय शराहता महावातसमाविद्धा महानौर इव सागरे ॥ 14 ॥

  15. नानारूपाः परहरणाः शरा गाण्डीवचॊदिताः अलातॊल्काशनि परख्यास तव सैन्यं विनिर्दहन ॥ 15 ॥

  16. महागिरौ वेणुवनं निशि परज्वलितं यथा तथा तव महत सैन्यं परास्फुरच छरपीडितम ॥ 16 ॥

  17. संपिष्ट दग्धविध्वस्तं तव सैन्यं किरीटिना हतम्प्रविहतं बाणैः सर्वतः परद्रुतं दिशः ॥ 17 ॥

  18. महावने मृगगणा दावाग्निग्रसिता यथा कुरवः पर्यवर्तन्त निर्दग्धाः सव्यसाचिना ॥ 18 ॥

  19. उत्सृज्य हि महाबाहुं भीमसेनं तदा रणे बलं कुरूणाम उद्विग्नं सर्वम आसीत पराङ्मुखम ॥ 19 ॥

  20. ततः कुरुषु भग्नेषु बीभत्सुर अपराजितः भीमसेनं समासाद्य मुहूर्तं सॊ ऽभयवर्तत ॥ 20 ॥

  21. समागम्य स भीमेन मन्त्रयित्वा च फल्गुनः विशल्यम अरुजं चास्मै कथयित्वा युधिष्ठिरम ॥ 21 ॥

  22. भीमसेनाभ्यनुज्ञातस ततः परायाद धनंजयः नादयन रथघॊषेण पृथिवीं दयां च भारत ॥ 22 ॥

  23. ततः परिवृतॊ भीमैर दशभिः शत्रुपुङ्गवैः दुःशासनाद अवरजैस तव पुत्रैर धनंजयः ॥ 23 ॥

  24. ते तम अभ्यर्दयन बाणैर उल्काभिर इव कुञ्जरम आततेष्व असनाः करूरा नृत्यन्त इव भारत ॥ 24 ॥

  25. अपसव्यांस तु तांश चक्रे रथेन मधुसूदनः ततस ते पराद्रवञ शूराः पराङ्मुख रथे ऽरजुने ॥ 25 ॥

  26. तेषाम आपततां केतून रथांश चापानि सायकान नाराचैर अर्धचन्द्रैश च कषिप्रं पार्थॊ नयपातयत ॥ 26 ॥

  27. अथान्यैर दशभिर भल्लैः शिरांस्य एषां नयपातयत रॊषसंरक्त नेत्राणि संदष्टौष्ठानि भूतले तानि वक्त्राणि विबभुर वयॊम्नि तारागणा इव ॥ 27 ॥

  28. तांस तु भल्लैर महावेगैर दशभिर दश कौरवान रुक्माङ्गदान रुक्मपुङ्खैर विद्ध्वा परायाद अमित्रहा ॥ 28 ॥

Reach this point to mark the section finished.

Continue to अध्याय 59

Previous: अध्याय 57