[स] शरुत्वा च रथि निर्घॊषं सिंहनादं च संयुगे अर्जुनः पराह गॊविन्दं शीघ्रं चॊदय वाजिनः ॥ 1 ॥
अर्जुनस्य वचः शरुत्वा गॊविन्दॊ ऽरजुनम अब्रवीत एष गच्छामि सुक्षिप्रं यत्र भीमॊ वयवस्थितः ॥ 2 ॥
आयान्तम अश्वैर हिमशङ्खवर्णैः; सुवर्णमुक्ता मणिजालनद्धैः जम्भं जिघांसुं परगृहीतवज्रं; जयाय देवेन्द्रम इवॊग्रमन्युम ॥ 3 ॥
रथाश्वमातङ्गपदातिसंघा; बाणस्वनैर नेमिखुर सवनैश च संनादयन्तॊ वसुधां दिशश च; करुद्धा नृसिंहा जयम अभ्युदीयुः ॥ 4 ॥
तेषां च पार्थस्य महत तदासीद; देहासु पाप्म कषपणं सुयुद्धम तरैलॊक्यहेतॊर असुरैर यथासीद; देवस्य विष्णॊर जयतां वरस्य ॥ 5 ॥
तैर अस्तम उच्चावचम आयुधौघम; एकः परतिच्छेदे किरीटमाली कषुरार्धचन्द्रैर निशितैश च बाणैः; शिरांसि तेषां बहुधा च बाहून ॥ 6 ॥
छत्राणि वालव्यजनानि केतून; अश्वान रथान पत्तिगणान दविपांश च ते पेतुर उर्व्यां बहुधा विरूपा; वातप्रभग्नानि यथा वनानि ॥ 7 ॥
सुवर्णजालावतता महागजाः; सवैजयन्ती धवजयॊधकल्पिताः सुवर्णपुङ्खैर इषुभिः समाचिताश; चकाशिरे परज्वलिता यथाचलाः ॥ 8 ॥
विदार्य नागांश च रथांश च वाजिनः; शरॊत्तमैर वासव वज्रसंनिभैः दरुतं ययौ कर्ण जिघांसया तथा; यथा मरुत्वान बलभेदने पुरा ॥ 9 ॥
ततः स पुरुषव्याघ्रः सूत सैन्यम अरिंदम परविवेश महाबाहुर मकरः सागरं यथा ॥ 10 ॥
तं दृष्ट्वा तावका राजन रथपत्तिसमन्विताः गजाश्वसादि बहुलाः पाण्डवं समुपाद्रवन ॥ 11 ॥
तत्राभिद्रवतां पार्थम आरावः सुमहान अभूत सागरस्येव मत्तस्य यथा सयात सलिलस्वनः ॥ 12 ॥
ते तु तं पुरुषव्याघ्रं वयाघ्रा इव महारथाः अभ्यद्रवन्त संग्रामे तयक्त्वा पराणकृतं भयम ॥ 13 ॥
तेषाम आपततां तत्र शरवर्षाणि मुञ्चताम अर्जुनॊ वयधमत सैन्यं महावातॊ घनान इव ॥ 14 ॥
ते ऽरजुनं सहिता भूत्वा रथवंशैः परहारिणः अभियाय महेष्वासा विव्यधुर निशितैः शरैः ॥ 15 ॥
ततॊ ऽरजुनः सहस्राणि रथवारणवाजिनाम परेषयाम आस विशिखैर यमस्य सदनं परति ॥ 16 ॥
ते वध्यमानाः समरे पार्थ चापच्युतैः शरैः तत्र तत्र सम लीयन्ते भये जाते महारथाः ॥ 17 ॥
तेषां चतुःशतान वीरान यतमानान महारथान अर्जुनॊ निशितैर बाणैर अनयद यमसादनम ॥ 18 ॥
ते वध्यमानाः समरे नाना लिङ्गैः शितैः शरैः अर्जुनं समभित्यज्य दुद्रुवुर वै दिशॊ भयात ॥ 19 ॥
तेषां शब्दॊ महान आसीद दरवतां वाहिनीमुखे महौघस्येव भद्रं ते गिरिम आसाद्य दीर्यतः ॥ 20 ॥
तां तु सेनां भृशं विद्ध्वा दरावयित्वार्जुनः शरैः परायाद अभिमुखः पार्थः सूतानीकानि मारिष ॥ 21 ॥
तस्य शब्दॊ महान आसीत परान अभिमुखस्य वै गरुडस्येव पततः पन्नगार्थे यथा पुरा ॥ 22 ॥
तं तु शब्दम अभिश्रुत्य भीमसेनॊ महाबलः बभूव परमप्रीतः पार्थ दर्शनलालसः ॥ 23 ॥
शरुत्वैव पार्थम आयान्तं भीमसेनः परतापवान तयक्त्वा पराणान महाराज सेनां तव ममर्द ह ॥ 24 ॥
स वायुवेगप्रतिमॊ वायुवेगसमॊ जवे वायुवद वयचरद भीमॊ वायुपुत्रः परतापवान ॥ 25 ॥
तेनार्द्यमाना राजेन्द्र सेना तव विशां पते वयभ्राम्यत महाराज भिन्ना नौर इव सागरे ॥ 26 ॥
तां तु सेनां तदा भीमॊ दर्शयन पाणिलाघवम शरैर अवचकर्तॊग्रैः परेषयिष्यन यमक्षयम ॥ 27 ॥
तत्र भारत भीमस्य बलं दृष्ट्वातिमानुषम वयत्रस्यन्त रणे यॊधाः कालस्येव युगक्षये ॥ 28 ॥
तथार्दितान भीमबलान भीमसेनेन भारत दृष्ट्वा दुर्यॊधनॊ राजा इदं वचनम अब्रवीत ॥ 29 ॥
सैनिकान स महेष्वासॊ यॊधाश च भरतर्षभ समादिशद रणे सर्वान हतभीमम इति सम ह तस्मिन हते हतं मन्ये सर्वसैन्यम अशेषतः ॥ 30 ॥
परतिगृह्य च ताम आज्ञां तव पुत्रस्य पार्थिवाः भीमं परच्छादयाम आसुः शरवर्षैः समन्ततः ॥ 31 ॥
गजाश च बहुला राजन नराश च जय गृद्धिनः रथा हयाश च राजेन्द्र परिवव्रुर वृकॊदरम ॥ 32 ॥
स तैः परिवृतः शूरैः शूरॊ राजन समन्ततः शुशुभे भरतश्रेष्ठ नक्षत्रैर इव चन्द्रमाः ॥ 33 ॥
स रराज तथा संख्ये दर्शनीयॊ नरॊत्तमः निर्विशेषं महाराज यथा हि विजयस तथा ॥ 34 ॥
तत्र ते पार्थिवाः सर्वे शरवृष्टी समासृजन करॊधरक्तेक्षणाः करूरा हन्तुकामा वृकॊदरम ॥ 35 ॥
स विदार्य महासेनां शरैः संनतपर्वभिः निश्चक्राम रणाद भीमॊ मत्स्यॊ जालाद इवाम्भसि ॥ 36 ॥
हत्वा दशसहस्राणि गजानाम अनिवर्तिनाम नृषां शतसहस्रे दवे दवे शते चैव भारत ॥ 37 ॥
पञ्च चाश्वसहस्राणि रथानां शतम एव च हत्वा परास्यन्दयद भीमॊ नदीं शॊणितकर्दमा ॥ 38 ॥
शॊणितॊदां रथावर्तां हस्तिग्राहसमाकुलाम नरमीनाम अश्वनक्रां केशशैवलशाद्वलाम ॥ 39 ॥
संछिन्नभुज नागेन्द्रां बहुरत्नापहारिणीम ऊरुग्राहां मज्ज पङ्कां शीर्षॊपल समाकुलाम ॥ 40 ॥
धनुष्काशां शरावापां गदापरिघकेतनाम यॊधव्रातवतीं संख्ये वहन्तीं यमसादनम ॥ 41 ॥
कषणेन पुरुषव्याघ्रः परावर्तयत निम्नगाम यथा वैतरणीम उग्रां दुस्तराम अकृतात्मभिः ॥ 42 ॥
यतॊ यतः पाण्डवेयः परवृत्तॊ रथसत्तमः ततस ततॊ ऽपातयत यॊधाञ शतसहस्रशः ॥ 43 ॥
एवं दृष्ट्वा कृतं कर्म भीमसेनेन संयुगे दुर्यॊधनॊ महाराज शकुनिं वाक्यम अब्रवीत ॥ 44 ॥
जय मातुलसंग्रामे भीमसेनं महाबलम अस्मिञ जिते जितं मन्ये पाण्डवेयं महाबलम ॥ 45 ॥
ततः परायान महाराज सौबलेयः परतापवान रणाय महते युक्तॊ भरातृभिः परिवारितः रणाय महते युक्तॊ भरातृभिः पारिवारितः ॥ 46 ॥
स समासाद्य संग्रामे भीमं भीमपराक्रमम वारयाम आस तं वीरॊ वेलेव मकरालयम स नयवर्तत तं भीमॊ वार्यमाणः शितैः शरैः ॥ 47 ॥
शकुनिस तस्य राजेन्द्र वामे पार्श्वे सतनान्तरे परेषयाम आस नाराचान रुक्मपुङ्खाञ शिलाशितान ॥ 48 ॥
वर्म भित्त्वा तु सौवर्णं बाणास तस्य महात्मनः नयमज्जन्त महाराज कङ्कबर्हिण वाससः ॥ 49 ॥
सॊ ऽतिविद्धॊ रणे भीमः शरं हेमविभूषितम परेषयाम आस सहसा सौबलं परति भारत ॥ 50 ॥
तम आयान्तं शरं घॊरं शकुनिः शत्रुतापनः चिच्छेद शतधा राजन कृतहस्तॊ महाबलः ॥ 51 ॥
तस्मिन निपतिते भूमौ भीमः करुद्धॊ विशां पते धनुश चिच्छेद भल्लेन सौबलस्य हसन्न इव ॥ 52 ॥
तद अपास्य धनुश छिन्नं सौबलेयः परतापवान अन्यद आदत्त वेगेन धनुर भल्लांश च षॊडश ॥ 53 ॥
तैस तस्य तु महाराज भल्लैः संनतपर्वभिः चतुर्भिः सारथिं हय आर्च्छद भीमं पञ्चभिर एव च ॥ 54 ॥
धवजम एकेन चिच्छेद छत्रं दवाभ्यां विशां पते चतुर्भिश चतुरॊ वाहान विव्याध सुबलात्मजः ॥ 55 ॥
ततः करुद्धॊ महाराज भीमसेनः परतापवान शक्तिं चिक्षेप समरे रुक्मदण्डाम अयॊ मयीम ॥ 56 ॥
सा भीम भुजनिर्मुक्ता नागजिह्वेव चञ्चला निपपात रथे तूर्णं सौबलस्य महात्मनः ॥ 57 ॥
ततस ताम एव संगृह्य शक्तिं कनकभूषणाम भीमसेनाय चिक्षेप करुद्ध रूपॊ विशां पते ॥ 58 ॥
सा निर्भिद्य भुजं सव्यं पाण्डवस्य महात्मनः पपात च ततॊ भूमौ यथा विद्युन नभश चयुता ॥ 59 ॥
अथॊत्क्रुष्टं महाराज धार्तराष्ट्रैः समन्ततः न तु तं ममृषे भीमः सिंहनादं तरस्विनाम ॥ 60 ॥
स संगृह्य धनुः सज्यं तवरमाणॊ महारथः मुहूर्ताद इव राजेन्द्र छादयाम आस सायकैः सौबलस्य बलं संख्ये तयक्त्वात्मानं महाबलः ॥ 61 ॥
तस्याश्वांश चतुरॊ हत्वा सूतं चैव विशां पते धवजं चिच्छेद मल्लेन तवरमाणः पराक्रमी ॥ 62 ॥
हताश्वं रथम उत्सृज्य तवरमाणॊ नरॊत्तमः तस्थौ विस्फारयंश चापं करॊधरक्तेक्षणः शवसन शरैश च बहुधा राजन भीमम आर्च्छत समन्ततः ॥ 63 ॥
परतिहत्य तु वेगेन भीमसेनः परतापवान धनुश चिच्छेद संक्रुद्धॊ विव्याध च शितैः शरैः ॥ 64 ॥
सॊ ऽतिविद्धॊ बलवता शत्रुणा शत्रुकर्शनः निपपात ततॊ भूमौ किं चित पराणॊ नराधिप ॥ 65 ॥
ततस तं विह्वलं जञात्वा पुत्रस तव विशां पते अपॊवाह रथेनाजौ भीमसेनस्य पश्यतः ॥ 66 ॥
रथस्थे तु नरव्याघ्रे धार्तराष्ट्राः पराङ्मुखाः परदुद्रुवुर दिशॊ भीता भीमाञ जाते महाभये ॥ 67 ॥
सौबले निर्जिते राजन भीमसेनेन धन्विना भयेन महता भग्नः पुत्रॊ दुर्यॊधनस तव अपायाज जवनैर अश्वैः सापेक्षॊ मातुलं परति ॥ 68 ॥
पराङ्मुखं तु राजानं दृष्ट्वा सैन्यानि भारत विप्रजग्मुः समुत्सृज्य दवैरथानि समन्ततः ॥ 69 ॥
तान दृष्ट्वातिरथान सर्वान धार्तराष्ट्रान पराङ्मुखान जवेनाभ्यपतद भीमः किरञ शरशतान बहून ॥ 70 ॥
ते वध्यमाना भीमेन धार्तराष्ट्राः पराङ्मुखाः कर्णम आसाद्य समरे सथिता राजन समन्ततः स हि तेषां महावीर्यॊ दवीपॊ ऽभूत सुमहाबलः ॥ 71 ॥
भिन्ननौका यथा राजन दवीपम आसाद्य निर्वृताः भवन्ति पुरुषव्याघ्र नाविकाः कालपर्यये ॥ 72 ॥
तथा कर्णं समासाद्य तावका भरतर्षभ समाश्वस्ताः सथिता राजन संप्रहृष्टाः परस्परम समाजग्मुश च युद्धाय मृत्युं कृत्वा निवर्तनम ॥ 73 ॥
कर्णपर्व · Karna Parva
अध्याय 55
Reach this point to mark the section finished.
Continue to अध्याय 56