[स] अथ तव इदानीं तुमुले विमर्दे; दविषद्भिर एकॊ बहुभिः समावृतः महाभये सारथिम इत्य उवाच; भीमश चमूं वारयन धार्तराष्ट्रीम तवं सारथे याहि जवेन वाहैर; नयाम्य एतान धार्तराष्ट्रान यमाय ॥ 1 ॥
संचॊदितॊ भीमसेनेन चैवं; स सारथिः पुत्रबलं तवदीयम परायात ततः सारथिर उग्रवेगॊ; यतॊ भीमस तद बलं गन्तुम ऐच्छत ॥ 2 ॥
ततॊ ऽपरे नागरथाश्वपत्तिभिः; परत्युद्ययुः कुरवस तं समन्तात भीमस्य वाहाग्र्यम उदारवेगं; समन्ततॊ बाणगणैर निजघ्नुः ॥ 3 ॥
ततः शरान आपततॊ महात्मा; चिच्छेद बाणैर तपनीयपुङ्खैः ते वै निपेतुस तपनीयपुङ्खा; दविधा तरिधा भीम शरैर निकृत्ताः ॥ 4 ॥
ततॊ राजन नार रथाश्वयूनां; भीमाहतानां तव राजमध्ये घॊरॊ निनादः परबभौ नरेन्द्र; वज्राहतानाम इव पर्वतानाम ॥ 5 ॥
ते वध्यमानाश च नरेन्द्रमुख्या; निर्भिन्ना वै भीमसेनप्रवेकैः भीमं समन्तात समरे ऽधयरॊहन; वृक्षं शकुन्ता इव पुष्पहेतॊः ॥ 6 ॥
ततॊ ऽभिपातं तव सैन्यमध्ये; परादुश्चक्रे वेगम इवात्त वेगः यथान्त काले कषपयन दिधक्षुर; भूतान्त कृत काल इवात्त दण्डः ॥ 7 ॥
तस्यातिवेगस्य रणे ऽतिवेगं; नाशक्नुवन धारयितुं तवदीयाः वयात्ताननस्यापततॊ यथैव; कालस्य काले हरतः परजा वै ॥ 8 ॥
ततॊ बलं भारत भारतानां; परदह्यमानं समरे महात्मन भीतं दिशॊ ऽकीर्यत भीम नुन्नं; महानिलेनाभ्र गणॊ यथैव ॥ 9 ॥
ततॊ धीमान सारथिम अब्रवीद बली; स भीमसेनः पुनर एव हृष्टः सूताभिजानीहि परान सवकान वा; रथान धवजांश चापततः समेतान युध्यन्न अहं नाभिजानामि किं चिन; मा सैन्यं सवं छादयिष्ये पृषत्कैः ॥ 10 ॥
अरीन विशॊकाभिनिरीक्ष्य सर्वतॊ; मनस तु चिन्ता परदुनॊति मे भृशम राजातुरॊ नागम अद्यत किरीटी; बहून दुःखान्य अभिजातॊ ऽसमि सूत ॥ 11 ॥
एतद दुःखं सारथे धर्मराजॊ; यन मां हित्वा यातवाञ शत्रुमध्ये नैनं जीवन नापि जानाम्य अजीवन; बीभत्सुं वा तन ममाद्यातिदुःखम ॥ 12 ॥
सॊ ऽहं दविषत सैन्यम उदग्रकल्पं; विनाशयिष्ये परमप्रतीतः एतान निहत्याजिमध्ये समेतान; परीतॊ भविष्यामि सह तवयाद्य ॥ 13 ॥
सर्वांस तूणीरान मार्गणान वान्ववेक्ष्य; किं शिष्टं सयात सायकानां रथे मे का वाजातिः किंप्रमाणं च तेषां; जञात्वा वयक्तं तन ममाचक्ष्व सूत ॥ 14 ॥
[विषॊक] षण मार्गणानाम अयुतानि वीर; कषुराश च भल्लाश च तथायुताख्याः नाराचानां दवे सहस्रे तु वीर; तरीण्य एव च परदराणां च पार्थ ॥ 15 ॥
अस्त्य आयुधं पाण्डवेयावशिष्टं; न यद वहेच छकटं षड गवीयम एतद विद्वन मुञ्च सहस्रशॊ ऽपि; गदासिबाहुद्रविणं च ते ऽसति ॥ 16 ॥
[भस] सूताद्येमं पश्य भीम परमुक्तैः; संभिन्दद्भिः पार्थिवान आशु वेगैः उग्रैर बाणैर आहवं घॊररूपं; नष्टादित्यं मृत्युलॊकेन तुल्यम ॥ 17 ॥
अद्यैव तद विदितं पार्थिवानां; भविष्यतिय आकुमारं च सूत निमग्नॊ वा समरे भीमसेन; एकः कुरून वा समरे विजेता ॥ 18 ॥
सर्वे संख्ये कुरवॊ निष्पतन्तु; मां वा लॊकाः कीर्तयन्त्व आकुमारम सवान एकस तान अहं पातयिष्ये; ते वा सर्वे भीमसेनं तुदन्तु ॥ 19 ॥
आशास्तारः कर्म चाप्य उत्तमं वा; तन मे देवाः केवलं साधयन्तु आयात्व इहाद्यार्जुनः शत्रुघाती; शक्रस तूर्णं यज्ञ इवॊपहूतः ॥ 20 ॥
ईक्ष्वस्वैतां भारतीं दीर्यमाणाम; एते कस्माद विद्रवन्ते नरेन्द्राः वयक्तं धीमान सव्यसाची नराग्र्यः; सैन्यं हय एतच छादयत्य आशु बाणैः ॥ 21 ॥
पश्य धवजांश च दरवतॊ विशॊक; नागान हयान पत्तिसंघांश च संख्ये राथान विशीर्णाञ शरशक्तिताडितान; पश्यस्वैतान रथिनश चैव सूत ॥ 22 ॥
आपूर्यते कौरवी चाप्य अभीक्ष्णं; सेना हय असौ सुभृशं हन्यमाना धनंजयस्याशनि तुल्यवेगैर; गरस्ता शरैर बर्हि सुवर्णवाजैः ॥ 23 ॥
एते दरवन्ति सम रथाश्वनागाः; पदातिसंघान अवमर्दयन्तः संमुह्यमानाः कौरवाः सर्व एव; दरवन्ति नागा इव दावभीताः हाहाकृताश चैव रणे विशॊक; मुञ्चन्ति नादान विपुलान गजेन्द्राः ॥ 24 ॥
[विषॊक] सर्वे कामाः पाण्डव ते समृद्धाः; कपिध्वजॊ दृश्यते हस्तिसैन्ये नीलाद धनाद विद्युतम उच्चरन्तीं; तथापश्यं विस्फुरद वै धनुस तत ॥ 25 ॥
कपिर हय असौ वीक्ष्यते सर्वतॊ वै; धवजाग्रम आरुह्य धनंजयस्य दिवाकराब्भॊ मणिर एष दिव्यॊ; विभ्राजते चैव किरीटसंस्थः ॥ 26 ॥
पार्श्वे भीमं पाण्डुराभ्रप्रकाशं; पश्येमं तवं देवदत्तं सुघॊषम अभीशु हस्तस्य जनार्दनस्य; विगाहमानस्य चमूं परेषाम ॥ 27 ॥
रविप्रभं वज्रनाभं कषुरान्तं; पार्श्वे सथितं पश्य जनार्दनस्य चक्रं यशॊ वर्धयत केशवस्य; सदार्चितं यदुभिः पश्य वीर ॥ 28 ॥
[भम] ददामि ते गरामवरांश चतुर्दश; परियाख्याने सारथे सुप्रसन्नः दसी शतं चापि रथांश च विंशतिं; यद अर्जुनं वेदयसे विशॊक ॥ 29 ॥
कर्णपर्व · Karna Parva
अध्याय 54
Reach this point to mark the section finished.
Continue to अध्याय 55