[स] तेषाम अनीकानि बृहद धवजानि; रणे समृद्धानि समागतानि गर्जन्ति भेरी निनदॊन्मुखानि; मेघैर यथा मेघगणास तपान्ते ॥ 1 ॥
महागजाभ्राकुलम अस्त्रतॊयं; वादित्रनेमी तलशब्दवच च हिरण्यचित्रायुध वैद्युतं च; महारथैर आवृतशब्दवच च ॥ 2 ॥
तद भीमवेगं रुधिरौघवाहि; खड्गाकुलं कषत्रिय जीव वाहि अनार्तवं करूरम अनिष्ट वर्षं; बभूव तत संहरणं परजानाम ॥ 3 ॥
रथान ससूतान सहयान गजांश च; सर्वान अरीन मृत्युवशं शरौघैः निन्ये हयांश चैव तथा ससादीन; पदातिसंघांश च तथैव पार्थः ॥ 4 ॥
कृपः शिखण्डी च रणे समेतौ; दुर्यॊधनं सात्यकिर अभ्यगच्छत शरुतश्रवा दरॊणसुतेन सार्धं; युधामन्युश चित्रसेनेन चापि ॥ 5 ॥
कर्णस्य पुत्रस तु रथी सुषेणं; समागतः सृञ्जयांश चॊत्तमौजाः गान्धारराजं सहदेवः कषुधार्तॊ; महर्षभं सिंह इवाभ्यधावत ॥ 6 ॥
शतानीकॊ नाकुलिः कर्ण पुत्रं; युवा युवानं वृषसेनं शरौघैः समार्दयत कर्णसुतश च वीरः; पाञ्चालेयं शरवर्षैर अनेकैः ॥ 7 ॥
रथर्षभः कृतवर्माणम आर्च्छन; माद्रीपुत्रॊ नकुलश चित्रयॊधी पाञ्चालानाम अधिपॊ याज्ञसेनिः; सेनापतिं कर्णम आर्च्छत ससैन्यम ॥ 8 ॥
दुःशासनॊ भारत भारती च; संशप्तकानां पृतना समृद्धा भीमं रणे शस्त्रभृतां वरिष्ठं; तदा समार्च्छत तम असह्य वेगम ॥ 9 ॥
कर्णात्मजं तत्र जघान शूरस; तथाछिन्नच चॊत्तमौजाः परसह्य तस्यॊत्तमाङ्गं निपपात भूमौ; जञिनादयद गां निनदेन खं च ॥ 10 ॥
सुषेण शीर्षं पतितं पृथिव्यां; विलॊक्य कर्णॊ ऽथ तदार्तरूपः करॊधाद धयांस तस्य रथं धवजं च; बाणैः सुधारैर निशितैर नयकृन्तत ॥ 11 ॥
स तूत्तमौजा निशितैः पृषत्कैर; विव्याध खड्गेन च भास्वरेण पार्ष्णिं हयांश चैव कृपस्य हत्वा; शिखण्डिवाहं स ततॊ ऽभयरॊहत ॥ 12 ॥
कृपं तु दृष्ट्वा विरथं रथस्थॊ; नैच्छच छरैस ताडयितुं शिखण्डी तं दरौणिर आवार्य रथं कृपं सम; समुज्जह्रे पङ्कगतां यथा गाम ॥ 13 ॥
हिरण्यवर्मा निशितैः पृषत्कैस; तवात्मजानाम अनिलात्मजॊ वै अतापयत सैन्यम अतीव भीमः; काले शुचौ मध्यगतॊ यथार्कः ॥ 14 ॥
कर्णपर्व · Karna Parva
अध्याय 53
Reach this point to mark the section finished.
Continue to अध्याय 54