[स] स केशवस्या बीभत्सुः शरुत्वा भारत भाषितम विशॊकः संप्रहृष्टश च कषणेन समपद्यत ॥ 1 ॥
ततॊ जयाम अनुमृज्याशु वयाक्षिपद गाण्डिवं धनुः दध्रे कर्ण विनाशाय केशवं चाभ्यभाषत ॥ 2 ॥
तवया नाथेन गॊविन्द धरुव एष जयॊ मम परसन्नॊ यस्य मे ऽदय तवं भूतभव्य भवत परभुः ॥ 3 ॥
तवत्सहायॊ हय अहं कृष्ण तरीँल लॊकान वै समागतान परापयेयं परं लॊकं किम उ कर्णं महारणे ॥ 4 ॥
पश्यामि दरवतीं सेनां पाञ्चालानां जनार्दन पश्यामि कर्णं समरे विचरन्तम अभीतवत ॥ 5 ॥
भार्गवास्त्रं च पश्यामि विचरन्तं समन्ततः सृष्टं कर्णेन वार्ष्णेय शक्रेणेव महाशनिम ॥ 6 ॥
अयं खलु स संग्रामॊ यत्र कृष्ण मया कृतम कथयिष्यन्ति भूतानि यावद भूमिर धरिष्यति ॥ 7 ॥
अद्य कृष्ण विकर्णा मे कर्णं नेष्यन्ति मृत्यवे गाण्डीवमुक्ताः कषिण्वन्तॊ मम हस्तप्रचॊदिताः ॥ 8 ॥
अद्य राजा धृतराष्ट्रः सवां बुद्धिम अवमंस्यते दुर्यॊधनम अराज्यार्हं यया राज्ये ऽभिषेचयत ॥ 9 ॥
अद्य राज्यात सुखाच चैव शरियॊ राष्ट्रात तथा पुरात पुत्रेभ्यश च महाबाहॊ धृतराष्ट्रॊ वियॊक्ष्यते ॥ 10 ॥
अद्य दुर्यॊधनॊ राजा जीविताच च निराशकः भविष्यति हते कर्णे कृष्ण सत्यं बरवीमि ते ॥ 11 ॥
अद्य दृष्ट्वा मया कर्णं शरैर विशकलीकृतम समरतां तव वाक्यानि शमं परति जनेश्वरः ॥ 12 ॥
अद्यासौ सौबलः कृष्ण गलहं जानातु वै शरान दुरॊदरं च गाण्डीवं मण्डलं च रथं मम ॥ 13 ॥
यॊ ऽसौ रणे नरं नान्यं पृथिव्याम अभिमन्यते तस्याद्य सूतपुत्रस्य भूमिः पास्यति शॊणितम गाण्डीवसृष्टा दास्यन्ति कर्णस्य परमां गतिम ॥ 14 ॥
अद्य तप्स्यति राधेयः पाञ्चालीं यत तदाब्रवीत सभामध्ये वचः करूरं कुत्सयन पाण्डवान परति ॥ 15 ॥
ये वै षण्ढतिलास तत्र भवितारॊ ऽदय ते तिलाः हते वैकर्तने कर्णे सूतपुत्रे दुरात्मनि ॥ 16 ॥
अहं वः पाण्डुपुत्रेभ्यस तरास्यामीति यद अब्रवीत अनृतं तत करिष्यन्ति मामका निशिताः शराः ॥ 17 ॥
हन्ताहं पाण्डवान सर्वान सपुत्रान इति यॊ ऽबरवीत तम अद्य कर्णं हन्तास्मि मिषतां सर्वधन्विनाम ॥ 18 ॥
यस्य वीर्ये समाश्वस्य धार्तराष्ट्रॊ बृहन मनाः अवामन्यत दुर्बुद्धिर नित्यम अस्मान दुरात्मवान तम अद्य कर्णं राधेयं हन्तास्मि मधुसूदन ॥ 19 ॥
अद्य कर्णे हते कृष्ण धार्तराष्ट्राः सराजकाः विद्रवन्तु दिशॊ भीताः सिंहत्रस्ता मृगा इव ॥ 20 ॥
अद्य दुर्यॊधनॊ राजा पृथिवीम अन्ववेक्षताम हते कर्णे मया संख्ये सपुत्रे ससुहृज्जने ॥ 21 ॥
अद्य कर्णं हतं दृष्ट्वा धार्तराष्ट्रॊ ऽतयमर्षणः जानातु मां रणे कृष्ण परवरं सर्वधन्विनाम ॥ 22 ॥
अद्याहम अनृणः कृष्ण भविष्यामिधनुर भृताम करॊधस्य च कुरूणां च शराणां गाण्डिवस्य च ॥ 23 ॥
अद्य दुःखम अहं मॊक्ष्ये तरयॊदश समार्जितम हत्वा कर्णं रणे कृष्ण शम्बरं मघवान इव ॥ 24 ॥
अद्य कर्णे हते युद्धे सॊमकानां महारथाः कृतं कार्यं च मन्यन्तां मित्रकार्येप्सवॊ युधि ॥ 25 ॥
न जाने च कथं परीतिः शैनेयस्याद्य माधव भविष्यान्ति हते कर्णे मयि चापि जयाधिके ॥ 26 ॥
अहं हत्वा रणे कर्णं पुत्रं चास्य महारथम परीतिं दास्यामि भीमस्य यमयॊः सात्यकेर अपि ॥ 27 ॥
धृष्टद्युम्न शिखण्डिभ्यां पाञ्चालानां च माधव अध्यानृण्यं गमिष्यामि हत्वा कर्णं महारणे ॥ 28 ॥
अद्य पश्यन्तु संग्रामे धनंजयम अमर्षणम युध्यन्तं कौरवान संख्ये पातयन्तं च सूतजम भवत सकाशे वक्ष्ये च पुनर एवात्म संस्तवम ॥ 29 ॥
धनुर्वेदे मत्समॊ नास्ति लॊके; पराक्रमे वा मम कॊ ऽसति तुल्यः कॊ वाप्य अन्यॊ मत्समॊ ऽसति कषमायां; तथा करॊधे सदृशॊ ऽनयॊ न मे ऽसति ॥ 30 ॥
अहं धनुष्मान असुरान सुरांश च; सर्वाणि भूतानि च संगतानि सवबाहुवीर्याद गमये पराभवं; मत्पौरुषं विद्धि परः परेभ्यः ॥ 31 ॥
शरार्चिषा गाण्डिवेनाहम एकः; सर्वान कुरून बाह्लिकांश चाभिपत्य हिमात्यये कक्षगतॊ यथाग्निस; तहा दहेयं सगणान परसह्य ॥ 32 ॥
पाणौ पृषत्का लिखिता ममैते; धनुश च सव्ये निहितं सबाणम पादौ च मे सरथौ सध्वजौ च; न मादृशं युद्धगतं जयन्ति ॥ 33 ॥
कर्णपर्व · Karna Parva
अध्याय 52
Reach this point to mark the section finished.
Continue to अध्याय 53