[स] ततः पुनर अमेयात्मा केशवॊ ऽरजुनम अब्रवीत कृतसंकल्पम आयस्तं वधे कर्णस्य सर्वशः ॥ 1 ॥
अद्य सप्त दशाहानि वर्तमानस्य भारत विनाशस्यातिघॊरस्य नरवारणवाजिनाम ॥ 2 ॥
भूत्वा हि विपुला सेना तावकानां परैः सह अन्यॊन्यं समरे पराप्य किं चिच छेषा विशां पते ॥ 3 ॥
भूत्वा हि कौरव्याः पार्थ परभूतगजवाजिनः तवां वै शत्रुं समासाद्य विनष्टा रणमूर्धनि ॥ 4 ॥
एते च सर्वे पाञ्चालाः सृञ्जयाश च सहान्वयाः तवां समासाद्य दुर्धर्षं पाण्डवाश च वयवस्थिताः ॥ 5 ॥
पाञ्चालैः पाण्डवैर मत्स्यैः कारूषैश चेदिकेकयैः तवया गुप्तैर अमित्रघ्न कृतः शत्रुगणक्षयः ॥ 6 ॥
कॊ हि शक्तॊ रणे जेतुं कौरवांस तात संगतान अन्यत्र पाण्डवान युद्धे तवया गुप्तान महारथान ॥ 7 ॥
तवं हि शक्तॊ रणे जेतुं स सुरासुरमानुषान तरीँल लॊकान समम उद्युक्तान किं पुनः कौरवं बलम ॥ 8 ॥
भगदत्तं हि राजानं कॊ ऽनयः शक्तस तवया विना जेतुं पुरुषशार्दूल यॊ ऽपि सयाद वासवॊपमः ॥ 9 ॥
तथेमां विपुलां सेनां गुप्तां पार्थ तवयानघ न शेकुः पार्थिवाः सर्वे चक्षुर्भिर अभिवीक्षितुम ॥ 10 ॥
तथैव सततं पार्थ रक्षिताभ्यां तवया रणे धृष्टद्युम्न शिखण्डिभ्यां भीष्मद्रॊणौ निपातितौ ॥ 11 ॥
कॊ हि शक्तॊ रणे पार्थ पाञ्चालानां महारथौ भीष्मद्रॊणौ युधा जेतुं शक्रतुल्यपराक्रमौ ॥ 12 ॥
कॊ हि शांतनवं संख्ये दरॊणं वैकर्तनं कृपम दरौणिं च सौमदत्तिं च कृतवर्माणम एव च सौन्धवं मद्रराजं च राजानं च सुयॊधनम ॥ 13 ॥
वीरान कृतास्त्रान समरे सर्वान एवानुवर्तिनः अक्षौहिणीपतीन उग्रान संरब्धान युद्धदुर्मदान ॥ 14 ॥
शरेण्यश च बहुलाः कषीणाः परदीर्णाश्वरथद्विपाः नानाजनपदाश चॊग्राः कषत्रियाणाम अमर्षिणाम ॥ 15 ॥
गॊवास दासम ईयानां वसातीनां च भारत वरात्यानां वाटधानानां भॊजानां चापि मानिनाम ॥ 16 ॥
उदीर्णाश च महासेना बरह्मक्षत्रस्य भारत तवां समासाद्य निधनं गताः साश्वरथद्विपाः ॥ 17 ॥
उग्राश च करूरकर्माणस तुखारा यवनाः खशाः दार्वाभिसारा दरदाः शका रमठ तङ्गणाः ॥ 18 ॥
अन्ध्रकाश च पुलिन्दाश च किराताश चॊग्रविक्रमाः मलेच्छाश च पार्वतीयाश च सागरानूपवासिनः संरम्भिणॊ युद्धशौण्डा बलिनॊ दृब्ध पाणयः ॥ 19 ॥
एते सुयॊधनस्यार्थे संरब्धाः कुरुभिः सह न शक्या युधि निर्जेतुं तवदन्येन परंतप ॥ 20 ॥
धार्तराष्ट्रम उदग्रं हि वयूढं दृष्ट्वा महाबलम यस्य तवं न भवेस तराता परतीयात कॊ नु मानवः ॥ 21 ॥
तत सागरम इवॊद्धूतं रजसा संवृतं बलम विदार्य पाण्डवैः करुद्धैस तवया गुप्तैर हतं विभॊ ॥ 22 ॥
मागधानाम अधिपतिर जयत्सेनॊ महाबलः अद्य सप्तैव चाहानि हतः संख्ये ऽभिमन्युना ॥ 23 ॥
तदॊ दशसहस्राणि गजानां भीमकर्मणाम जघान गदया भीमस तस्य राज्ञः परिच्छदम ततॊ ऽनये ऽपि हता नागा रथाश च शतशॊ बलात ॥ 24 ॥
तद एवं समरे तात वर्तमाने महाभये भीमसेनं समासाद्य तवां च पाण्डव कौरवाः सवाजिरथनागाश च मृत्युलॊकम इतॊ गताः ॥ 25 ॥
तथा सेनामुखे तत्र निहते पार्थ पाडवैः भीष्मः परासृजद उग्राणि शरवर्षाणि मारिष ॥ 26 ॥
स चेदिकाशिपाञ्चालान करूषान मत्स्यकेकयान शरैः परच्छाद्य निधनम अनयत परुषास्त्रवित ॥ 27 ॥
तस्य चापच्युतैर बाणैः परदेहविदारणैः पूर्णम आकाशम अभवद रुक्मपुङ्खरजिह्मगैः ॥ 28 ॥
गत्या दशम्या ते गत्वा जघ्नुर वाजिरथद्विपान हित्वा नव गतीर दुष्टाः स बाणान वयायतॊ ऽमुचत ॥ 29 ॥
दिनानि दश भीष्मेण निघ्नता तावकं बलम शून्याः कृता रथॊपस्था हताश च गजवाजिनः ॥ 30 ॥
दर्शयित्वात्मनॊ रूपं रुद्रॊपेन्द्र समं युधि पाण्डवानाम अनीकानि परविगाह्य वयशातयत ॥ 31 ॥
विनिघ्नन पृथिवीपालांश चेदिपाञ्चालकेकयान वयदहत पाण्डवीं मन्दम उज्जिहीर्षुः सुयॊधनम ॥ 32 ॥
तथा चरन्तं समरे तपन्तम इव भास्करम न शेकुः सृञ्जया दरष्टुं तथैवान्ये महीक्षितः ॥ 33 ॥
विचरन्तं तथा तं तु संग्रामे जितकाशिनम सवाद यॊगेन सहसा पाण्डवा समुपाद्रवन ॥ 34 ॥
स तु विद्राव्य समरे पाण्डवान सृञ्जयान अपि एक एव रणे भीष्म एक वीरत्वम आगतः ॥ 35 ॥
तं शिखण्डी समासाद्य तवया गुप्तॊ महारथम जघान पुरुषव्याघ्रं शरैः संनतपर्वभिः ॥ 36 ॥
स एष पतितः शेते शरतल्पे पितामहः तवां पराप्य पुरुषव्याघ्र गृध्रः पराप्येव वायसम ॥ 37 ॥
दरॊणः पञ्च दिनान्य उग्रॊ विधम्य रिपुवाहिनीः कृत्वा वयूहं महायुद्धे पातयित्वा महारथान ॥ 38 ॥
जयद्रथस्य समरे कृत्वा रक्षां महारथः अन्तकप्रतिमश चॊग्रां रात्रिं युद्ध्वादहत परजाः ॥ 39 ॥
अद्येति दवे दिने वीरॊ भारद्वाजः परतापवान धृष्टद्युम्नं समासाद्य स गतः परमां गतिम ॥ 40 ॥
यदि चैव परान्य युद्धे सूतपुत्र मुखान रथान नावारयिष्यः संग्रामे न सम दरॊणॊ वयनङ्क्ष्यत ॥ 41 ॥
भवता तु बलं सर्वं धार्तराष्ट्रस्य वारितम ततॊ दरॊणॊ हतॊ युद्धे पार्षतेन धनंजय ॥ 42 ॥
क इवान्यॊ रणे कुर्यात तवदन्यः कषत्रियॊ युधि यादृशं ते कृतं पार्थ जयद्रथवधं परति ॥ 43 ॥
निवार्य सेनां महतीं हत्वा शूरांश च पार्थिवान निहतः सैन्धवॊ राजा तवयास्त्र बलतेजसा ॥ 44 ॥
आश्चर्यं सिन्धुराजस्य वधं जानन्ति पार्थिवाः अनाश्चर्यं हि तत तवत्तस तवं हि पार्थ महारथः ॥ 45 ॥
तवां हि पराप्य रणे कषत्रम एकाहाद इति भारत तप्यमानम असंयुक्तं न भवेद इति मे मतिः ॥ 46 ॥
सेयं पार्थ चमूर घॊरा धार्तराष्ट्रस्य संयुगे हता ससर्व वीरा हि भीष्मद्रॊणौ यदा हतौ ॥ 47 ॥
शीर्णप्रवर यॊधा अद्य हतवाजि नरद्विपा हीना सूर्येन्दु नक्षत्रैर दयौर इवाभाति भारती ॥ 48 ॥
विध्वस्ता हि रणे पार्थ सेनेयं भीमविक्रमात आसुरीव पुरा सेना शक्रस्येव पराक्रमैः ॥ 49 ॥
तेषां हतावशिष्टास तु पञ्च सन्ति महारथाः अश्वत्थामा कृतवर्मा कर्णॊ मद्राधिपः कृपः ॥ 50 ॥
तांस तवम अद्य नरव्याघ्र हत्वा पञ्च महारथान हतामित्रः परयच्छॊर्वीं राज्ञः सद्वीप पत्तनाम ॥ 51 ॥
साकाश जलपातालां सपर्वतमहावनाम पराप्नॊत्व अमितवीर्यश्रीर अद्य पार्थॊ वसुंधराम ॥ 52 ॥
एतां पुरा विष्णुर इव हत्वा दैतेय दानवान परयच्छ मेदिनीं राज्ञे शक्रायेव यथा हरिः ॥ 53 ॥
अद्य मॊदन्तु पाञ्चाला निहतेष्व अरिषु तवया विष्णुना निहतेष्व एव दानवेयेषु देवताः ॥ 54 ॥
यदि वा दविपदां शरेष्ठ दरॊणं मानयतॊ गुरुम अश्वत्थाम्नि कृपा ते ऽसति कृपे चाचार्य गौरवात ॥ 55 ॥
अत्यन्तॊपचितान वा तवं मानयन भरातृबान्धवान कृतवर्माणम आसाद्य न नेष्यामि यमक्षयम ॥ 56 ॥
भरातरं मातुर आसाद्य शल्यं मद्रजनाधिपम यदि तवम अरविन्दाक्ष दयावान न जिघांससि ॥ 57 ॥
इमं पापमतिं कषुद्रम अत्यन्तं पाण्डवान परति कर्णम अद्य नरश्रेष्ठ जह्य आशु निशितैः शरैः ॥ 58 ॥
एतत ते सुकृतं कर्म नात्र किं चिन न युज्यते वयम अप्य अत्र जानीमॊ नात्र दॊषॊ ऽसति कश चन ॥ 59 ॥
दहने यत सपुत्राया निशि मातुस तवानघ दयूतार्थे यच च युष्मासु परावर्तत सुयॊधनः तत्र सर्वत्र दुष्टात्मा कर्णॊ मूलम इहार्जुन ॥ 60 ॥
कर्णाद धि मन्यते तराणं नित्यम एव सुयॊधनः ततॊ माम अपि संरब्धॊ निग्रहीतुं परचक्रमे ॥ 61 ॥
सथिरा बुद्धिर नरेन्द्रस्य धार्तराष्ट्रस्य मानद कर्णः पार्थान रणे सर्वान विजेष्यति न संशयः ॥ 62 ॥
कर्णम आश्रित्य कौन्तेय धार्तराष्ट्रेण विग्रहः रॊचितॊ भवता सार्धं जानतापि बलं तव ॥ 63 ॥
कर्णॊ हि भाषते नित्यम अहं पार्थान समागतान वासुदेवं सराजानं विजेष्यामि महारणे ॥ 64 ॥
परॊत्साहयन दुरात्मानं धार्तराष्ट्रं सुदुर्मतिः समतौ गर्जते कर्णस तम अद्य जहि भारत ॥ 65 ॥
यच च युष्मासु पापं वै धार्तराष्ट्रः परयुक्तवान तत्र सर्वत्र दुष्टात्मा कर्णः पापमतिर मुखम ॥ 66 ॥
यच च तद धार्तराष्ट्राणां करूरैः षड्भिर महारथैः अपश्यं निहतं वीरं सौभद्रम ऋषभेक्षणम ॥ 67 ॥
दरॊण दरौणिकृपान वीरान कम्पयन्तॊ महारथान निर्मनुष्यांश च मातङ्गान्विरथांश च महारथान ॥ 68 ॥
वयश्वारॊहांश च तुरगान पत्तीन वयायुध जीवितान कुर्वन्तम ऋषभस्कन्धं कुरु वृष्णियशः करम ॥ 69 ॥
विधमन्तम अनीकानि वयथयन्तं महारथान मनुष्यवाजि मातङ्गान परहिण्वन्तं यमक्षयम ॥ 70 ॥
शरैः सौभद्रम आयस्तं दहन्तम इव वाहिनीम तन मे दहति गात्राणि सखे सत्येन ते शपे ॥ 71 ॥
यत तत्रापि च दुष्टात्मा कर्णॊ ऽभयद्रुह्यत परभॊ अशक्नुवंश चाभिमन्यॊः कर्णः सथातुं रणे ऽगरतः ॥ 72 ॥
सौभद्र शरनिर्भिन्नॊ विसंज्ञः शॊणितॊक्षितः निःश्वसन करॊधसंदीप्तॊ विमुखः सायकार्दितः ॥ 73 ॥
अपयान कृतॊत्साहॊ निराशश चापि जीविते तस्थौ सुविह्वलः संख्ये परहार जनितश्रमः ॥ 74 ॥
अथ दरॊणस्य समरे तत कालसदृशं तदा शरुत्वा कर्णॊ वचः करूरं ततश चिच्छेद कार्मुकम ॥ 75 ॥
ततश छिन्नायुधं तेन रणे पञ्च महारथाः स चैव निकृतिप्रज्ञः परावधीच छरवृष्टिभिः ॥ 76 ॥
यच च कर्णॊ ऽबरवीत कृष्णां सभायां परुषं वचः परमुखे पाण्डवेयानां कुरूणां च नृशंसवत ॥ 77 ॥
विनष्टाः पाण्डवाः कृष्णे शाश्वतं नरकं गताः पतिम अन्यं पृथुश्रॊणिवृणीष्व मित भाषिणि ॥ 78 ॥
लेखाभ्रु धृतराष्ट्रस्य दासी भूत्वा निवेशनम परविशाराल पक्ष्माक्षि न सन्ति पतयस तव ॥ 79 ॥
इत्य उक्तवान अधर्मज्ञस तदा परमदुर्मतिः पापः पापं वचः कर्णः शृण्वतस तव भारत ॥ 80 ॥
तस्य पापस्य तद वाक्यं सुवर्णविकृताः शराः शमयन्तु शिला धौतास तवयास्ता जीवितच छिदः ॥ 81 ॥
यानि चान्यानि दुष्टात्मा पापानि कृतवांस तवयि तान्य अद्य जीवितं चास्य शमयन्तु शरास तव ॥ 82 ॥
गाण्डीवप्रहितान घॊरान अद्य गात्रैः सपृशञ शरान कर्णः समरतु दुष्टात्मा वचनं दरॊण भीष्मयॊः ॥ 83 ॥
सुवर्णपुङ्खा नाराचाः शत्रुघ्ना वैद्युत परभाः तवयास्तास तस्य मर्माणि भित्त्वा पास्यन्ति शॊणितम ॥ 84 ॥
उग्रास तवद भुजनिर्मुक्ता मर्म भित्त्वा शिताः शराः अद्य कर्णं महावेगाः परेषयन्तु यमक्षयम ॥ 85 ॥
अद्य हाहाकृता दीना विषण्णास तवच छरार्दिताः परपतन्तं रथा कर्णं पश्यन्तु वसुधाधिपाः ॥ 86 ॥
अद्य सवशॊणिते मग्नं शयानं पतितं भुवि अपविद्धायुधं कर्णं पश्यन्तु सुहृदॊ निजाः ॥ 87 ॥
हस्तिकक्ष्यॊ महान अस्य भल्लेनॊन्मथितस तवया परकम्पमानः पततु भूमाव आधिरथेर धवजः ॥ 88 ॥
तवया शरशतैश छिन्नं रथं हेमविभूषितम हतयॊधं समुत्सृज्य भीतः शल्यः पलायताम ॥ 89 ॥
ततः सुयॊधनॊ दृष्ट्वा हतम आधिरथिं तवया निराशॊ जीविते तव अद्य राज्ये चैव धनंजय ॥ 90 ॥
एते दरवन्ति पाञ्चाला वध्यमानाः शितैः शरैः कर्णेन भरतश्रेष्ठ पाण्डवान उज्जिहीर्षवः ॥ 91 ॥
पाञ्चालान दरौपदेयांश च धृष्टद्युम्न शिखण्डिनौ धृष्टद्युम्न तनूजांश च शतानीकं च नाकुलिम ॥ 92 ॥
नकुलं सहदेवं च दुर्मुखं जनमेजयम सुवर्माणं सात्यकिं च विद्धि कर्ण वशंगतान ॥ 93 ॥
अभ्याहतानां कर्णेन पाञ्चालानां महारणे शरूयते निनदॊ घॊरस तद बन्धूनां परंतप ॥ 94 ॥
न तव एव भीताः पाञ्चालाः कथं चित सयुः पराङ्मुखाः न हि मृत्युं महेष्वासा गणयन्ति महारथाः ॥ 95 ॥
य एकः पाण्डवीं सेनां शरौघैः समवेष्टयत तं समासाद्य पाञ्चाला भीष्मं नासान पराङ्मुखाः ॥ 96 ॥
तथा जवलन्तम अस्त्राग्निं गुरुं सर्वधनुष्मताम निर्दहन्तं समारॊहन दुर्धर्षं दरॊणम ओजसा ॥ 97 ॥
ते नित्यम उदिता जेतुं युद्धे शत्रून अरिंदमाः न जात्व आधिरथेर भीताः पाञ्चालाः सयुः पराङ्मुखाः ॥ 98 ॥
तेषाम आपततां शूरः पाञ्चालानां तरस्विनाम आदत्ते ऽसूञ शरैः कर्णः पतंगानाम इवानलः ॥ 99 ॥
तांस तथाभिमुखान वीरान मित्रार्थे तयक्तजीवितान कषयं नयति राधेयः पाञ्चालाञ शतशॊ रणे ॥ 100 ॥
अस्त्रं हि रामात कर्णेन भार्गवाद ऋषिसत्तमात यद उपात्तं पुरा घॊरं तस्य रूपम उदीर्यते ॥ 101 ॥
तापनं सर्वसैन्यानां घॊररूपं सुदारुणम समावृत्य महासेनां जवलति सवेन तेजसा ॥ 102 ॥
एते चरन्ति संग्रामे कर्ण चापच्युताः शराः भरमराणाम इव वरातास तापयन्तः सम तावकान ॥ 103 ॥
एते चरन्ति पाञ्चाला दिक्षु सर्वासु भारत कर्णास्त्रं समरे पराप्य दुर्निवारम अनात्मभिः ॥ 104 ॥
एष भीमॊ दृढक्रॊधॊ वृतः पार्थ समन्ततः सृञ्जयैर यॊधयन कर्णं पीड्यते सम शितैः शरैः ॥ 105 ॥
पाण्डवान सृञ्जयांश चैव पाञ्चालांश चैव भारत हन्याद उपेक्षितः कर्णॊ रॊगॊ देहम इवाततः ॥ 106 ॥
नान्यं तवत्तॊ ऽभिपश्यामि यॊधं यौधिष्ठिरे बले यः समासाद्य राधेयं सवस्तिमान आव्रजेद गृहम ॥ 107 ॥
तम अद्य निशितैर बाणैर निहत्य भरतर्षभ यथाप्रतिज्ञं पार्थ तवं कृत्वा कीर्तिम अवाप्नुहि ॥ 108 ॥
तवं हि शक्तॊ रणे जेतुं सकर्णान अपि कौरवान नान्यॊ युधि युधां शरेष्ठ सत्यम एतद बरवीमि ते ॥ 109 ॥
एत कृत्वा महत कर्महत्वा कर्णं महारथम कृतार्थः सफलः पार्थ सुखी भव नरॊत्तम ॥ 110 ॥
कर्णपर्व · Karna Parva
अध्याय 51
Reach this point to mark the section finished.
Continue to अध्याय 52