धर्मDharmic Data

कर्णपर्व · Karna Parva

अध्याय 5

  1. [ज] शरुत्वा कर्णं हतं युद्धे पुत्रांश चैवापलायिनः नरेन्द्रः किं चिद आश्वस्तॊ दविजश्रेष्ठ किम अब्रवीत ॥ 1 ॥

  2. पराप्तवान परमं दुःखं पुत्रव्यसनजं महत तस्मिन यद उक्तवान काले तन ममाचक्ष्व पृच्छतः ॥ 2 ॥

  3. [वै] शरुत्वा कर्णस्य निधनम अश्रद्धेयम इवाद्भुतम भूतसंमॊहनं भीमं मेरॊः पर्यसनं यथा ॥ 3 ॥

  4. चित्तमॊहम इवायुक्तं भार्गवस्य महामतेः पराजयम इवेन्द्रस्य दविषद्भ्यॊ भीमकर्मणः ॥ 4 ॥

  5. दिवः परपतनं भानॊर उर्व्याम इव महाद्युतेः संशॊषणम इवाचिन्त्यं समुद्रस्याक्षयाम्भसः ॥ 5 ॥

  6. मही वियद दिग ईशानां सर्वनाशम इवाद्भुतम कर्मणॊर इव वैफल्यम उभयॊः पुण्यपापयॊः ॥ 6 ॥

  7. संचिन्त्य निपुणं बुद्ध्या धृतराष्ट्रॊ जनेश्वरः नेदम अस्तीति संचिन्त्य कर्णस्य निधनं परति ॥ 7 ॥

  8. पराणिनाम एतद आत्मत्वात सयाद अपीति विनाशनम शॊकाग्निना दह्यमानॊ धम्यमान इवाशयः ॥ 8 ॥

  9. विध्वस्तात्मा शवसन दीनॊ हाहेत्य उक्त्वा सुदुःखितः विललाप महाराज धृतराष्ट्रॊ ऽमबिका सुतः ॥ 9 ॥

  10. [धृ] संजयाधिरथॊ वीरः सिंहद्विरदविक्रमः वृषम अप्रतिमस्कन्धॊ वृषभाक्ष गतिस्वनः ॥ 10 ॥

  11. वृषभॊ वृषभस्येव यॊ युद्धे न निवर्तते शत्रॊर अपि महेन्द्रस्य वज्रसंहननॊ युवा ॥ 11 ॥

  12. यस्य जयातलशब्देन शरवृष्टिरवेण च रथाश्वनरमातङ्गा नावतिष्ठन्ति संयुगे ॥ 12 ॥

  13. यम आश्रित्य महाबाहुं दविषत संघघ्नम अच्युतम दुर्यॊधनॊ ऽकरॊद वैरं पाण्डुपुत्रैर महाबलैः ॥ 13 ॥

  14. स कथं रथिनां शरेष्ठः कर्णः पार्थेन संयुगे निहतः पुरुषव्याघ्रः परसह्यासह्य विक्रमः ॥ 14 ॥

  15. यॊ नामन्यत वै नित्यम अच्युतं न धनंजयम न वृष्णीन अपि तान अन्यान सवबाहुबलम आश्रितः ॥ 15 ॥

  16. शार्ङ्गगाण्डीवधन्वानौ सहिताव अपराजितौ अहं दिव्याद रथाद एकः पातयिष्यामि संयुगे ॥ 16 ॥

  17. इति यः सततं मन्दम अवॊचल लॊभमॊहितम दुर्यॊधनम अपादीनं राज्यकामुकम आतुलम ॥ 17 ॥

  18. यश चाजैषीद अतिबलान अमित्रान अपि दुर्जयान गान्धारान मद्रकान मत्स्यांस तरिगर्तांस तङ्गणाञ शकान ॥ 18 ॥

  19. पाञ्चालांश च विदेहांश च कुणिन्दान काशिकॊसलान सुह्यान अङ्गांश च पुण्ड्रांश च निषादान वङ्ग कीचकान ॥ 19 ॥

  20. वत्सान कलिङ्गांस तरलान अश्मकान ऋषिकांस तथा यॊ जित्वा समरे वीरश चक्रे बलिभृतः पुरा ॥ 20 ॥

  21. उच्चैःश्रवा वरॊ ऽशवानां राज्ञां वैश्रवणॊ वरः वरॊ महेन्द्रॊ देवानां कर्णः परहरतां वरः ॥ 21 ॥

  22. यं लब्ध्वा मागधॊ राजा सान्त्वमानार्थ गौरवैः अरौत्सीत पार्थिवं कषत्रम ऋते कौरव यादवान ॥ 22 ॥

  23. तं शरुत्वा निहतं कर्णं दवैरथे सव्यसाचिना शॊकार्णवे निमग्नॊ ऽहम अप्लवः सागरे यथा ॥ 23 ॥

  24. ईदृशैर यद्य अहं दुःखैर न विनश्यामि संजय वज्राद दृढतरं मन्ये हृदयं मम दुर्भिदम ॥ 24 ॥

  25. जञातिसंबन्धिमित्राणाम इमं शरुत्वा पराजयम कॊ मद अन्यः पुमाँल लॊके न जह्यात सूत जीवितम ॥ 25 ॥

  26. विषम अग्निं परपातं वा पर्वताग्राद अहं वृणे न हि शक्ष्यामि दुःखानि सॊढुं कष्टानि संजय ॥ 26 ॥

  27. [स] शरिया कुलेन यशसा तपसा च शरुतेन च तवाम अद्य सन्तॊ मन्यन्ते ययातिम इव नाहुषम ॥ 27 ॥

  28. शरुते महर्षिप्रतिमः कृतकृत्यॊ ऽसि पार्थिव पर्यवस्थापयात्मानं मा विषादे मनः कृथाः ॥ 28 ॥

  29. [धृ] दैवम एव परं मन्ये धिक पौरुषम अनर्थकम यत्र राम परतीकाशः कर्णॊ ऽहन्यत संयुगे ॥ 29 ॥

  30. हत्वा युधिष्ठिरानीकं पाञ्चालानां रथव्रजान परताप्य शरवर्षेण दिशः सर्वा महारथः ॥ 30 ॥

  31. मॊहयित्वा रणे पार्थान वज्रहस्त इवासुरान स कथं निहतः शेते वातरुग्ण इव दरुमः ॥ 31 ॥

  32. शॊकस्यान्तं न पश्यामि समुद्रस्येव विप्लुकाः चिन्ता मे वर्धते तीव्रा मुमूर्षा चापि जायते ॥ 32 ॥

  33. कर्णस्य निधनं शरुत्वा विजयं फल्गुनस्य च अश्रद्धेयम अहं मन्ये वधं कर्णस्य संजय ॥ 33 ॥

  34. वज्रसार मयं नूनं हृदयं सुदृढं मम यच छरुत्वा पुरुषव्याघ्रं हतं कर्णं न दीर्यते ॥ 34 ॥

  35. आयुर नूनं सुदीर्घं मे विहितं दैवतैः पुरा यत्र कर्णं हतं शरुत्वा जीवामीह सुदुःखितः ॥ 35 ॥

  36. धिग जीवितम इदं मे ऽदय सुहृद धीनस्य संजय अद्य चाहं दशाम एतां गतः संजय गर्हिताम कृपणं वर्तयिष्यामि शॊच्यः सर्वस्य मन्दधीः ॥ 36 ॥

  37. अहम एव पुरा भूत्वा सर्वलॊकस्य सत्कृतः परिभूतः कथं सूत पुनः शक्ष्यामि जीवितुम दुःखात सुदुःखं वयसनं पराप्तवान अस्मि संजय ॥ 37 ॥

  38. तस्माद भीष्म वधे चैव दरॊणस्य च महात्मनः नात्र शेषं परपश्यामि सूतपुत्रे हते युधि ॥ 38 ॥

  39. स हि पारं महान आसीत पुत्राणां मम संजय युद्धे विनिहतः शूरॊ विसृजन सायकान बहून ॥ 39 ॥

  40. कॊ हि मे जीवितेनार्थस तम ऋते पुरुषर्षभम रथाद अतिरथॊ नूनम अपतत सायकार्दितः ॥ 40 ॥

  41. पर्वतस्येव शिखरं वज्रपात विदारितम शयीत पृथिवीं नूनं शॊभयन रुधिरॊक्षितः मातङ्ग इव मत्तेन मातङ्गेन निपातितः ॥ 41 ॥

  42. यद बलं धार्तराष्ट्राणां पाण्डवानां यतॊ भयम सॊ ऽरजुनेन हतः कर्णः परतिमानं धनुष्मताम ॥ 42 ॥

  43. स हि वीरॊ महेष्वासः पुत्राणाम अभयंकरः शेते विनिहतॊ वीरः शक्रेणेव यथाबलः ॥ 43 ॥

  44. पङ्गॊर इवाध्व गमनं दरिद्रस्येव कामितम दुर्यॊधनस्य चाकूतं तृषितस्येव पिप्लुकाः ॥ 44 ॥

  45. अन्यथा चिन्तितं कार्यम अन्यथा तत तु जायते अहॊ नु बलवद दैवं कालश च दुरतिक्रमः ॥ 45 ॥

  46. पलायमानः कृपणं दीनात्मा दीनपौरुषः कच चिन न निहतः सूतपुत्रॊ दुःशासनॊ मम ॥ 46 ॥

  47. कच चिन न नीचाचरितं कृतवांस तात संयुगे कच चिन न निहतः शूरॊ यथा न कषत्रिया हताः ॥ 47 ॥

  48. युधिष्ठिरस्य वचनं मा युद्धम इति सर्वदा दुर्यॊधनॊ नाभ्यगृह्णान मूढः पथ्यम इवौषधम ॥ 48 ॥

  49. शरतल्पे शयानेन भीष्मेण सुमहात्मना पानीयं याचितः पार्थः सॊ ऽविध्यन मेदिनी तलम ॥ 49 ॥

  50. जलस्य धारां विहितां दृष्ट्वा तां पाण्डवेन ह अब्रवीत स महाबाहुस तात संशाम्य पाण्डवैः ॥ 50 ॥

  51. परशमाद धि भवेच छान्तिर मदन्तं युद्धम अस्तु च भरातृभावेन पृथिवीं भुङ्क्ष्व पाण्डुसुतैः सह ॥ 51 ॥

  52. अकुर्वन वचनं तस्य नूनं शॊचति मे सुतः तद इदं समनुप्राप्तं वचनं दीर्घदर्शिनः ॥ 52 ॥

  53. अहं तु निहतामात्यॊ हतपुत्रश च संजय दयूततः कृच्छ्रम आपन्नॊ लूनपक्ष इव दविजः ॥ 53 ॥

  54. यथा हि शकुनिं गृह्य छित्वा पक्षौ च संजय विसर्जयन्ति संहृष्टाः करीडमानाः कुमारकाः ॥ 54 ॥

  55. छिन्नपक्षतया तस्य गमनं नॊपपद्यते तथाहम अपि संप्राप्तॊ लूनपक्ष इव दविजः ॥ 55 ॥

  56. कषीणः सर्वार्थहीनश च निर्बन्धुर जञातिवर्जितः कां दिशं परतिपत्स्यामि दीनः शत्रुवशं गतः ॥ 56 ॥

  57. दुर्यॊधनस्य वृद्ध्यर्थं पृथिवीं यॊ ऽजयत परभुः स जितः पाण्डवैः शूरैः समर्थैर वीर्यशालिभिः ॥ 57 ॥

  58. तस्मिन हते महेष्वासे कर्णे युधि किरीटिना के वीराः पर्यवर्तन्त तन ममाचक्ष्व संजय ॥ 58 ॥

  59. कच चिन नैकः परित्यक्तः पाण्डवैर निहतॊ रणे उक्तं तवया पुरा वीर यथा वीरा निपातिताः ॥ 59 ॥

  60. भीष्मम अप्रतियुध्यन्तं शिखण्डी सायकॊत्तमैः पातयाम आस समरे सर्वशस्त्रभृतां वरम ॥ 60 ॥

  61. तथा दरौपदिना दरॊणॊ नयस्तसर्वायुधॊ युधि युक्तयॊगॊ महेष्वासः शरैर बहुभिर आचितः निहतः खड्गम उद्यम्य धृष्टद्युम्नेन संजय ॥ 61 ॥

  62. अन्तरेण हताव एतौ छलेन च विशेषतः अश्रौषम अहम एतद वै भीष्मद्रॊणौ निपातितौ ॥ 62 ॥

  63. भीष्मद्रॊणौ हि समरे न हन्याद वज्रभृत सवयम नयायेन युध्यमानौ हि तद वै सत्यं बरवीमि ते ॥ 63 ॥

  64. कर्णं तव अस्यन्तम अस्त्राणि दिव्यानि च बहूनि च कथम इन्द्रॊपमं वीरं मृत्युर युद्धे समस्पृशत ॥ 64 ॥

  65. यस्य विद्युत्प्रभां शक्तिं दिव्यां कनकभूषणाम परायच्छद दविषतां हन्त्रीं कुण्डलाभ्यां पुरंदरः ॥ 65 ॥

  66. यस्य सर्पमुखॊ दिव्यः शरः कनकभूषणः अशेत निहतः पत्री चन्दनेष्व अरिसूदनः ॥ 66 ॥

  67. भीष्मद्रॊणमुखान वीरान यॊ ऽवमन्य महारथान जामदग्न्यान महाघॊरं बराह्मम अस्त्रम अशिक्षत ॥ 67 ॥

  68. यश च दरॊण मुखान दृष्ट्वा विमुखान अर्दिताञ शरैः सौभद्रस्य महाबाहुर वयधमत कार्मुकं शरैः ॥ 68 ॥

  69. यश च नागायुत पराणं वातरंहसम अच्युतम विरथं भरातरं कृत्वा भीमसेनम उपाहसत ॥ 69 ॥

  70. सहदेवं च निर्जित्य शरैः संनतपर्वभिः कृपया विरथं कृत्वा नाहनद धर्मवित्तया ॥ 70 ॥

  71. यश च माया सहस्राणि धवंसयित्वा रणॊत्कटम घटॊत्कचं राक्षसेन्द्रं शक्र शक्त्याभिजघ्निवान ॥ 71 ॥

  72. एतानि दिवसान्य अस्य युद्धे भीतॊ धनंजयः नागमद दवैरथं वीरः स कथं निहतॊ रणे ॥ 72 ॥

  73. रथसङ्गॊ न चेत तस्य धनुर वा न वयशीर्यत न चेद अस्त्राणि निर्णेशुः स कथं निहतः परैः ॥ 73 ॥

  74. कॊ हि शक्तॊ रणे कर्णं विधुन्वानं महद धनुः विमुञ्चन्तं शरान घॊरान दिव्यान्य अस्त्राणि चाहवे जेतुं पुरुषशार्दूलं शार्दूलम इव वेगितम ॥ 74 ॥

  75. धरुवं तस्य धनुश छिन्नं रथॊ वापि गतॊ महीम अस्त्राणि वा परनष्टानि यथा शंससि मे हतम न हय अन्यद अनुपश्यामि कारणं तस्य नाशने ॥ 75 ॥

  76. न हन्याम अर्जुनं यावत तावत पादौ न धावये इति यस्य महाघॊरं वरतम आसीन महात्मनः ॥ 76 ॥

  77. यस्य भीतॊ वने नित्यं धर्मराजॊ युधिष्ठिरः तरयॊदश समा निद्रां न लेभे पुरुषर्षभः ॥ 77 ॥

  78. यस्य वीर्यवतॊ वीर्यं समाश्रित्य महात्मनः मम पुत्रः सभां भार्यां पाण्डूनां नीतवान बलात ॥ 78 ॥

  79. तत्र चापि सभामध्ये पाण्डवानां च पश्यताम दासभार्येति पाञ्चालीम अब्रवीत कुरुसंसदि ॥ 79 ॥

  80. यश च गाण्डीवमुक्तानां सपर्शम उग्रम अचिन्तयन अपतिर हय असि कृष्णेति बरुवन पार्थान अवैक्षत ॥ 80 ॥

  81. यस्य नासीद भयं पार्थैः सपुत्रैः सजनार्दनैः सवबाहुबलम आश्रित्य मुहूर्तम अपि संजय ॥ 81 ॥

  82. तस्य नाहं वधं मन्ये देवैर अपि स वासवैः परतीपम उपधावद्भिः किं पुनस तात पाण्डवैः ॥ 82 ॥

  83. न हि जयां सपृशमानस्य तलत्रे चापि गृह्णतः पुमान आधिरथेः कश चित परमुखे सथातुम अर्हति ॥ 83 ॥

  84. अपि सयान मेदिनी हीना सॊमसूर्यप्रभांशुभिः न वधः पुरुषेन्द्रस्य समरेष्व अपलायिनः ॥ 84 ॥

  85. यदि मन्दः सहायेन भरात्रा दुःशासनेन च वासुदेवस्य दुर्बुद्धिः परत्याख्यानम अरॊचयत ॥ 85 ॥

  86. स नूनम ऋषभस्कन्धं दृष्ट्वा कर्णं निपातितम दुःशासनं च निहतं मन्ये शॊचति पुत्रकः ॥ 86 ॥

  87. हतं वैकर्तनं शरुत्वा दवैरथे सव्यसाचिना जयतः पाण्डवान दृष्ट्वा किंस्विद दुर्यॊधनॊ ऽबरवीत ॥ 87 ॥

  88. दुर्मर्षणं हतं शरुत्वा वृषसेनं च संयुगे परभग्नं च बलं दृष्ट्वा वध्यमानं महारथैः ॥ 88 ॥

  89. पराङ्मुखांस तथा राज्ञः पलायनपरायणान विद्रुतान रथिनॊ दृष्ट्वा मन्ये शॊचति पुत्रकः ॥ 89 ॥

  90. अनेयश चाभिमानेन बाल बुद्धिर अमर्षणः हतॊत्साहं बलं दृष्ट्वा किंस्विद दुर्यॊधनॊ ऽबरवीत ॥ 90 ॥

  91. भरातरं निहतं दृष्ट्वा भीमसेनेन संयुगे रुधिरं पीयमानेन किंस्विद दुर्यॊधनॊ ऽबरवीत ॥ 91 ॥

  92. सह गान्धारराजेन सभायां यद अभाषत कर्णॊ ऽरजुनं रणे हन्ता हते तस्मिन किम अब्रवीत ॥ 92 ॥

  93. दयूतं कृत्वा पुरा हृष्टॊ वञ्चयित्वा च पाण्डवान शकुनिः सौबलस तात हते कर्णे किम अब्रवीत ॥ 93 ॥

  94. कृतवर्मा महेष्वासः सात्वतानां महारथः कर्णं विनिहतं दृष्ट्वा हार्दिक्यः किम अभाषत ॥ 94 ॥

  95. बराह्मणाः कषत्रिया वैश्या यस्य शिक्षाम उपासते धनुर्वेदं चिकीर्षन्तॊ दरॊणपुत्रस्य धीमतः ॥ 95 ॥

  96. युवा रूपेण संपन्नॊ दर्शनीयॊ महायशाः अश्वत्थामा हते कर्णे किम अभाषत संजय ॥ 96 ॥

  97. आचार्यत्वं धनुर्वेदे गतः परमतत्त्ववित कृपः शारद्वतस तात हते कर्णे किम अब्रवीत ॥ 97 ॥

  98. मद्रराजॊ महेष्वासः शल्यः समितिशॊभनः दिष्टं तेन हि तत सर्वं यथा कर्णॊ निपातितः ॥ 98 ॥

  99. ये च के चन राजानः पृथिव्यां यॊद्धुम आगताः वैकर्तनं हतं दृष्ट्वा किम अभाषन्त संजय ॥ 99 ॥

  100. कर्णे तु निहते वीरे रथव्याघ्रे नरर्षभे किं वॊ मुखम अनीकानाम आसीत संजय भागशः ॥ 100 ॥

  101. मद्रराजः कथं शल्यॊ नियुक्तॊ रथिनां वरः वैकर्तनस्य सारथ्ये तन ममाचक्ष्व संजय ॥ 101 ॥

  102. के ऽरक्षन दक्षिणं चक्रं सूतपुत्रस्य संयुगे वामं चक्रं ररक्षुर वा के वा वीरस्य पृष्ठतः ॥ 102 ॥

  103. के कर्णं वाजहुः शूराः के कषुद्राः पराद्रवन भयात कथं च वः समेतानां हतः कर्णॊ महारथः ॥ 103 ॥

  104. पाण्डवाश च कथं शूराः परत्युदीयुर महारथम सृजन्तं शरवर्षाणि वारिधारा इवाम्बुदम ॥ 104 ॥

  105. स च सर्पमुखॊ दिव्यॊ महेषु परवरस तदा वयर्थः कथं समभवत तन ममाचक्ष्व संजय ॥ 105 ॥

  106. मामकस्यास्य सैन्यस्य हृतॊत्सेधस्य संजय अवशेषं न पश्यामि ककुदे मृदिते सति ॥ 106 ॥

  107. तौ हि वीरौ महेष्वासौ मदर्थे कुरुसत्तमौ भीष्मद्रॊणौ हतौ शरुत्वा कॊ नव अर्थॊ जीवितेन मे ॥ 107 ॥

  108. न मृष्यामि च राधेयं हतम आहवशॊभिनम यस्य बाह्वॊर बलं तुल्यं कुञ्जराणां शतं शतम ॥ 108 ॥

  109. दरॊणे हते च यद्वृत्तं कौरवाणां परैः सह संग्रामे नरवीराणां तन ममाचक्ष्व संजय ॥ 109 ॥

  110. यथा च कर्णः कौन्तेयैः सह युद्धम अयॊजयत यथा च दविषतां हन्ता रणे शान्तस तद उच्यताम ॥ 110 ॥

Reach this point to mark the section finished.

Continue to अध्याय 6

Previous: अध्याय 4