धर्मDharmic Data

कर्णपर्व · Karna Parva

अध्याय 4

  1. [वै] एतच छरुत्वा महाराज धृतराष्ट्रॊ ऽमबिका सुतः अब्रवीत संजयं सूतं शॊकव्याकुल चेतनः ॥ 1 ॥

  2. दुष्प्रणीतेन मे तात मनसाभिप्लुतात्मनः हतं वैकर्तनं शरुत्वा शॊकॊ मर्माणि कृन्तति ॥ 2 ॥

  3. कृतास्त्र परमाः शल्ये दुःखपारं तितीर्षवः कुरूणां सृञ्जयानां च के नु जीवन्ति के मृताः ॥ 3 ॥

  4. [स] हतः शांतनवॊ राजन दुराधर्षः परतापवान हत्वा पाण्डव यॊधानाम अर्बुदं दशभिर दिनैः ॥ 4 ॥

  5. ततॊ दरॊणॊ महेष्वासः पाञ्चालानां रथव्रजान निहत्य युधि दुर्धर्षः पश्चाद रुक्मरथॊ हतः ॥ 5 ॥

  6. हतशिष्टस्य भीष्मेण दरॊणेन च महात्मना अर्धं निहत्य सैन्यस्य कर्णॊ वैकर्तनॊ हतः ॥ 6 ॥

  7. विविंशतिर महाराज राजपुत्रॊ महाबलः आनर्तयॊधाञ शतशॊ निहत्य निहतॊ रणे ॥ 7 ॥

  8. अथ पुत्रॊ विकर्णस ते कषत्रव्रतम अनुस्मरन कषीणवाहायुधः शूरः सथितॊ ऽभिमुखतः परान ॥ 8 ॥

  9. घॊररूपान परिक्लेशान दुर्यॊधनकृतान बहून परतिज्ञां समरता चैव भीमसेनेन पातितः ॥ 9 ॥

  10. विन्दानुविन्दाव आवन्त्यौ राजपुत्रौ महाबलौ कृत्वा न सुकरं कर्म गतौ वैवस्वतक्षयम ॥ 10 ॥

  11. सिन्धुराष्ट्रमुखानीह दश राष्ट्राणि यस्य वै वशे तिष्ठन्ति वीरस्य यः सथितस तव शासने ॥ 11 ॥

  12. अक्षौहिणीर दशैकां च निर्जित्य निशितैः शरैः अर्जुनेन हतॊ राजन महावीर्यॊ जयद्रथः ॥ 12 ॥

  13. तथा दुर्यॊधन सुतस तरस्वी युद्धदुर्मदः वर्तमानः पितुः शास्त्रे सौभद्रेण निपातितः ॥ 13 ॥

  14. तथा दौःशासनिर वीरॊ बाहुशाली रणॊत्कटः दरौपदेयेन विक्रम्य गमितॊ यमसादनम ॥ 14 ॥

  15. किरातानाम अधिपतिः सागरानूपवासिनाम देवराजस्य धर्मात्मा परियॊ बहुमतः सखा ॥ 15 ॥

  16. भगदत्तॊ महीपालः कषत्रधर्मरतः सदा धनंजयेन विक्रम्य गमितॊ यमसादनम ॥ 16 ॥

  17. तथा कौरव दायादः सौमदत्तिर महायशाः हतॊ भूरिश्रवा राजञ शूरः सात्यकिना युधि ॥ 17 ॥

  18. शरुतायुर अपि चाम्बष्ठः कषत्रियाणां धनुर्धरः चरन्न अभीतवत संख्ये निहतः सव्यसाचिना ॥ 18 ॥

  19. तव पुत्रः सदा संख्ये कृतास्त्रॊ युद्धदुर्मदः दुःशासनॊ महाराज भीमसेनेन पातितः ॥ 19 ॥

  20. यस्य राजन गजानीकं बहुसाहस्रम अद्भुतम सुदक्षिणः स संग्रामे निहतः सव्यसाचिना ॥ 20 ॥

  21. कॊसलानाम अधिपतिर हत्वा बहुशतान परान सौभद्रेण हि विक्रम्य गमितॊ यमसादनम ॥ 21 ॥

  22. बहुशॊ यॊधयित्वा च भीमसेनं महारथः चित्रसेनस तव सुतॊ भीमसेनेन पातितः ॥ 22 ॥

  23. मद्रराजात्मजः शूरः परेषां भयवर्धनः असि चर्म धरः शरीमान सौभद्रेण निपातितः ॥ 23 ॥

  24. समः कर्णस्य समरे यः स कर्णस्य पश्यतः वृषसेनॊ महातेजाः शीघ्रास्त्रः कृतनिश्चयः ॥ 24 ॥

  25. अभिमन्यॊर वधं समृत्वा परतिज्ञाम अपि चात्मनः धनंजयेन विक्रम्य गमितॊ यमसादनम ॥ 25 ॥

  26. नित्यप्रसक्तवैरॊ यः पाण्डवैः पृथिवीपतिः विश्राव्य वैरं पार्थेन शरुतायुः स निपातितः ॥ 26 ॥

  27. शल्य पुत्रस तु विक्रान्तः सहदेवेन मारिष हतॊ रुक्मरथॊ राजन भराता मातुलजॊ युधि ॥ 27 ॥

  28. राजा भगीरथॊ वृद्धॊ बृहत कषत्रश च केकयः पराक्रमन्तौ विक्रान्तौ निहतौ वीर्यवत्तरौ ॥ 28 ॥

  29. भगदत्तसुतॊ राजन कृतप्रज्ञॊ महाबलः शयेनवच चरता संख्ये नकुलेन निपातितः ॥ 29 ॥

  30. पितामहस तव तथा बाह्लिकः सह बाह्लिकैः भीमसेनेन विक्रम्य गमितॊ यमसादनम ॥ 30 ॥

  31. जयत्सेनस तथा राजञ जारासंधिर महाबलः मागधॊ निहतः संख्ये सौभद्रेण महात्मना ॥ 31 ॥

  32. पुत्रस ते दुर्मुखॊ राजन दुःसहश च महारथः गदया भीमसेनेन निहतौ शूरमानिनौ ॥ 32 ॥

  33. दुर्मर्षणॊ दुर्विषहॊ दुर्जयश च महारथः कृत्वा न सुकरं कर्म गता वैवस्वतक्षयम ॥ 33 ॥

  34. सचिवॊ वृषवर्मा ते सूतः परमवीर्यवान भीमसेनेन विक्रम्य गमितॊ यमसादनम ॥ 34 ॥

  35. नागायुत बलॊ राजा नागायुत बलॊ महान सगणः पाण्डुपुत्रेण निहतः सव्यसाचिना ॥ 35 ॥

  36. वसातयॊ महाराज दविसाहस्राः परहारिणः शूरसेनाश च विक्रान्ताः सर्वे युधि निपातिताः ॥ 36 ॥

  37. अभीषाहाः कवचिनः परहरन्तॊ महॊत्कटाः शिबयश च रथॊदाराः कलिङ्ग सहिता हताः ॥ 37 ॥

  38. गॊकुले नित्यसंवृद्धा युद्धे परमकॊविदाः शरेणयॊ बहुसाहस्राः संशप्तक गणाश च ये ते सर्वे पार्थम आसाद्य गता वैवस्वतक्षयम ॥ 38 ॥

  39. सयालौ तव महाराज राजानौ वृषकाचलौ तवदर्थे संपराक्रान्तौ निहतौ सव्यसाचिना ॥ 39 ॥

  40. उग्रकर्मा महेष्वासॊ नामतः कर्मतस तथा शाल्वराजॊ महाराज भीमसेनेन पातितः ॥ 40 ॥

  41. ओघवांश च महाराज बृहन्तः सहितॊ रणे पराक्रमन्तौ मित्रार्थे गतौ वैवस्वतक्षयम ॥ 41 ॥

  42. तथैव रथिनां शरेष्ठः कषेमधूर्तिर विशां पते निहतॊ गदया राजन भीमसेनेन संयुगे ॥ 42 ॥

  43. तथा राजा महेष्वासॊ जलसंधॊ महाबलः सुमहत कदनं कृत्त्वा हतः सात्यकिना रणे ॥ 43 ॥

  44. अलायुधॊ राक्षसेन्द्रः खरबन्धुर यानगः घटॊत्कचेन विक्रम्य गमितॊ यमसादनम ॥ 44 ॥

  45. राधेयाः सूतपुत्राश च भरातरश च महारथाः केकयाः सर्वशश चापि निहताः सव्यसाचिना ॥ 45 ॥

  46. मालवा मद्रकाश चैव दरविडाश चॊग्रविक्रमाः यौधेयाश च ललित्थाश च कषुद्रकाश चाप्य उशीनराः ॥ 46 ॥

  47. मावेल्लकास तुण्डिकेराः सावित्री पुत्र काञ्चलाह पराच्यॊदीच्याः परतीच्याश च दाक्षिणात्याश च मारिष ॥ 47 ॥

  48. पत्तीनां निहताः संघा हयानाम अयुतानि च रथव्रजाश च निहता हताश च वरवारणाः ॥ 48 ॥

  49. स धवजाः सायुधाः शूराः स वर्माम्बर भूषणाः कालेन महता यत्ताः कुले ये च विवर्धिताः ॥ 49 ॥

  50. ते हताः समरे राजन पार्थेनाक्लिष्ट कर्मणा अन्ये तथामित बलाः परस्परवधैषिणः ॥ 50 ॥

  51. एते चान्ये च बहवॊ राजानः सगणा रणे हताः सहस्रशॊ राजन यन मां तवं परिपृच्छसि एवम एष कषयॊ वृत्तः कर्णार्जुन समागमे ॥ 51 ॥

  52. महेन्द्रेण यथा वृत्रॊ यथा रामेण रावणः यथा कृष्णेन निहतॊ मुरॊ रणनिपातितः कार्तवीर्यश च रामेण भार्गवेण हतॊ यथा ॥ 52 ॥

  53. स जञातिबान्धवः शूरः समरे युद्धदुर्मदः रणे कृत्वा महायुद्धं घॊरं तरैलॊक्यविश्रुतम ॥ 53 ॥

  54. तथार्जुनेन निहतॊ दवैरथे युद्धदुर्मदः सामात्यबान्धवॊ राजन कर्णः परहरतां वरः ॥ 54 ॥

  55. जयाशा धार्तराष्ट्राणां वैरस्य च मुखं यतः तीर्णं तत पाण्डवै राजन यत पुरा नावबुध्यसे ॥ 55 ॥

  56. उच्यमानॊ महाराज बन्धुभिर हितकाङ्क्षिभिः तद इदं समनुप्राप्तं वयसनं तवां महात्ययम ॥ 56 ॥

  57. पुत्राणां राज्यकामानां तवया राजन हितैषिणा अहितानीव चीर्णानि तेषां ते फलम आगतम ॥ 57 ॥

  58. [धृ] आख्याता मामकास तात निहता युधि पाण्डवैः निहतान पाण्डवेयानां मामकैर बरूहि संजय ॥ 58 ॥

  59. [स] कुन्तयॊ युधि विक्रान्ता महासत्त्वा महाबलाः सानुबन्धाः सहामात्या भीष्मेण युधि पातिताः ॥ 59 ॥

  60. समः किरीटिना संख्ये वीर्येण च बलेन च सत्यजित सत्यसंधेन दरॊणेन निहतॊ रणे ॥ 60 ॥

  61. तथा विराटद्रुपदौ वृद्धौ सह सुतौ नृपौ पराक्रमन्तौ मित्रार्थे दरॊणेन निहतौ रणे ॥ 61 ॥

  62. यॊ बाल एव समरे संमितः सव्यसाचिना केशवेन च दुर्धर्षॊ बलदेवेन चाभिभूः ॥ 62 ॥

  63. स एष कदनं कृत्वा महद रणविशारदः परिवार्य महामात्रैः षड्भिः परमकै रथैः अशक्नुवद्भिर बीभत्सुम अभिमन्युर निपातितः ॥ 63 ॥

  64. तं कृतं विरथं वीरं कषत्रधर्मे वयवस्थितम दौःशासनिर महाराज सौभद्रं हतवान रणे ॥ 64 ॥

  65. बृहन्तस तु महेष्वासः कृतास्त्रॊ युद्धदुर्मदः दुःशासनेन विक्रम्य गमितॊ यमसादनम ॥ 65 ॥

  66. मणिमान दण्डधारश च राजानौ युद्धदुर्मदौ पराक्रमन्तौ मित्रार्थे दरॊणेन विनिपातितौ ॥ 66 ॥

  67. अंशुमान भॊजराजस तु सह सैन्यॊ महारथः भारद्वाजेन विक्रम्य गमितॊ यमसादनम ॥ 67 ॥

  68. चित्रायुधश चित्रयॊधी कृत्वा तौ कदनं महत चित्रमार्गेण विक्रम्य कर्णेन निहतौ युधि ॥ 68 ॥

  69. वृकॊदर समॊ युद्धे दृढः केकयजॊ युधि केकयेनैव विक्रम्य भरात्रा भराता निपातितः ॥ 69 ॥

  70. जनमेजयॊ गदायुधी पार्वतीयः परतापवान दुर्मुखेन महाराज तव पुत्रेण पातितः ॥ 70 ॥

  71. रॊचमानौ नरव्याघ्रौ रॊचमानौ गरहाव इव दरॊणेन युगपद राजन दिवं संप्रेषितौ शरैः ॥ 71 ॥

  72. नृपाश च परतियुध्यन्तः पराक्रान्ता विशां पते कृत्वा न सुकरं कर्म गता वैवस्वतक्षयम ॥ 72 ॥

  73. पुरुजित कुन्तिभॊजश च मातुलः सव्यसाचिनः संग्रामनिर्जिताँल लॊकान गमितॊ दरॊण सायकैः ॥ 73 ॥

  74. अभिभूः काशिराजश च काशिकैर बहुभिर वृतः वसु दानस्य पुत्रेण नयासितॊ देहम आहवे ॥ 74 ॥

  75. अमितौजा युधामन्युर उत्तमौजाश च वीर्यवान निहत्य शतशः शूरान परैर विनिहतौ रणे ॥ 75 ॥

  76. कषत्रधर्मा च पाञ्चाल्यः कषत्रवर्मा च मारिष दरॊणेन परमेष्वासौ गमितौ यमसादनम ॥ 76 ॥

  77. शिखण्डितनयॊ युद्धे कषत्रदेवॊ युधां पतिः लक्ष्मणेन हतॊ राजंस तव पौत्रेण भारत ॥ 77 ॥

  78. सुचित्रश चित्रधर्मा च पिता पुत्रौ महारथौ परचरन्तौ महावीर्यौ दरॊणेन निहतौ रणे ॥ 78 ॥

  79. वार्धक्षेमिर महाराज कृत्वा कदनम आहवे बाह्लिकेन महाराज कौरवेण निपातितः ॥ 79 ॥

  80. धृष्टकेतुर महाराज चेदीनां परवरॊ रथः कृत्वा न सुकरं कर्म गतॊ वैवस्वतक्षयम ॥ 80 ॥

  81. तथा सत्यधृतिस तात कृत्वा कदनम आहवे पाण्डवार्थे पराक्रान्तॊ गमितॊ यमसादनम ॥ 81 ॥

  82. पुत्रस तु शिशुपालस्य सुकेतुः पृथिवीपते निहत्य शात्रवान संख्ये दरॊणेन निहतॊ युधि ॥ 82 ॥

  83. तथा सत्यधृतिर वीरॊ मदिराश्वश च वीर्यवान सूर्यदत्तश च विक्रान्तॊ निहतॊ दरॊण सायकैः ॥ 83 ॥

  84. शरेणिमांश च महाराज युध्यमानः पराक्रमी कृत्वा न सुकरं कर्म गतॊ वैवस्वतक्षयम ॥ 84 ॥

  85. तथैव युधि विक्रान्तॊ मागधः परवीरहा भीष्मेण निहतॊ राजन्युध्यमानः पराक्रमी ॥ 85 ॥

  86. वसु दानश च कदनं कुर्वाणॊ ऽतीव संयुगे भारद्वाजेन विक्रम्य गमितॊ यमसादनम ॥ 86 ॥

  87. एते चान्ये च बहवः पाण्डवानां महारथाः हता दरॊणेन विक्रम्य यन मां तवं परिपृच्छसि ॥ 87 ॥

  88. [धृ] हतप्रवीरे सैन्ये ऽसमिन मामके वदतां वर अहताञ शंस मे सूत ये ऽतर जीवन्ति के चन ॥ 88 ॥

  89. एतेषु निहतेष्व अद्य ये तवया परिकीर्तिताः अहतान मन्यसे यांस तवं ते ऽपि सवर्गजितॊ मताः ॥ 89 ॥

  90. [स] यस्मिन महास्त्राणि समर्पितानि; चित्राणि शुभ्राणि चतुर्विधानि दिव्यानि राजन निहितानि चैव; दरॊणेन वीर दविजसत्तमेन ॥ 90 ॥

  91. महारथः कृतिमान कषिप्रहस्तॊ; दृढायुधॊ दृढमुष्टिर दृढेषुः स वीर्यवान दरॊणपुत्रस तरस्वी; वयवस्थितॊ यॊद्धुकामस तवदर्थे ॥ 91 ॥

  92. आनर्तवासी हृदिकात्मजॊ ऽसौ; महारथः सात्वतानां वरिष्ठः सवयं भॊजः कृतवर्मा कृतास्त्रॊ; वयवस्थितॊ यॊद्धुकामस तवदर्थे ॥ 92 ॥

  93. शारद्वतॊ गौतमश चापि राजन; महाबलॊ बहु चित्रास्त्र यॊधी धनुश चित्रं सुमहद भारसाहं; वयवस्थितॊ यॊत्स्यमानः परगृह्य ॥ 93 ॥

  94. आर्तायनिः समरे दुष्प्रकम्प्यः; सेनाग्रणीः परथमस तावकानाम सवस्रेयांस तान पाण्डवेयान विसृज्य; सत्यां वाचं तां चिकीर्षुस तरस्वी ॥ 94 ॥

  95. तेजॊवधं सूतपुत्रस्य संख्ये; परतिश्रुत्वाजात शत्रॊः पुरस्तात दुराधर्षः शक्रसमानवीर्यः; शल्यः सथितॊ युद्दु कामस तवदर्थे ॥ 95 ॥

  96. आजानेयैः सैन्धवैः पार्वतीयैर; नदीज काम्बॊजवनायु बाह्लिकैः गान्धारराजः सवबलेन युक्तॊ; वयवस्थितॊ यॊद्धुकामस तवदर्थे ॥ 96 ॥

  97. तथा सुतस ते जवलनार्कवर्णं; रथं समास्थाय कुरुप्रवीर वयवस्थितः कुरु मित्रॊ नरेन्द्र; वयभ्रे सूर्यॊ भराजमानॊ यथा वै ॥ 97 ॥

  98. दुर्यॊधनॊ नागकुलस्य मध्ये; महावीर्यः सह सैन्यप्रवीरैः रथेन जाम्बूनदभूषणेन; वयवस्थितः समरे यॊद्धुकामः ॥ 98 ॥

  99. स राजमध्ये पुरुषप्रवीरॊ; रराज जाम्बूनदचित्रवर्मा पद्मप्रभॊ वह्निर इवाल्पधूमॊ; मेघान्तरे सूर्य इव परकाशः ॥ 99 ॥

  100. तथा सुषेणॊ ऽपय असि चर्म पाणिस; तवात्मजः सत्यसेनश च वीरः वयवस्थितौ चित्रसेनेन सार्धं; हृष्टात्मानौ समरे यॊद्धुकामौ ॥ 100 ॥

  101. हरीनिषेधा भरता राजपुत्राश; चित्रायुधः शरुतकर्मा जयश च शलश च सत्यव्रतदुःशलौ च; वयवस्थिता बलिनॊ यॊद्धुकामाः ॥ 101 ॥

  102. कैतव्यानाम अधिपः शूरमानी; रणे रणे शत्रुहा राजपुत्रः पत्री हयी नागरथप्रयायी; वयवस्थितॊ यॊद्धुकामस तवदर्थे ॥ 102 ॥

  103. वीरः शरुतायुश च शरुतायुधश च; चित्राङ्गदश चित्रवर्मा स वीरः वयवस्थिता ये तु सैन्ये नराग्र्याः; परहारिणॊ मानिनः सत्यसंधाः ॥ 103 ॥

  104. कर्णात्मजः सत्यसेनॊ महात्मा; वयवस्थितः समरे यॊद्धुकामः अथापरौ कर्णसुतौ वरार्हौ; वयवस्थितौ लघुहस्तौ नरेन्द्र बलं महद दुर्भिदम अल्पधैर्यैः; समाश्रितौ यॊत्स्यमानौ तवदर्थे ॥ 104 ॥

  105. एतैश च मुख्यैर अपरैश च राजन; यॊधप्रवीरैर अमितप्रभावैः वयवस्थितॊ नागकुलस्य मध्ये; यथा महेन्द्रः कुरुराजॊ जयाय ॥ 105 ॥

  106. [धृ] आख्याता जीवमाना ये परेभ्यॊ ऽनये यथातथम इतीदम अभिगच्छामि वयक्तम अर्थाभिपत्तितः ॥ 106 ॥

  107. [वै] एवं बरुवन्न एव तदा धृतराष्ट्रॊ ऽबमिका सुतः हतप्रवीरं विध्वस्तं किं चिच छेषं सवकं बलम शरुत्वा वयामॊहम अगमच छॊकव्याकुलितेन्द्रियः ॥ 107 ॥

  108. मुह्यमानॊ ऽबरवीच चापि मुहूर्तं तिष्ठ संजय वयाकुलं मे मनस तात शरुत्वा सुमहद अप्रियम नष्टचित्तस ततः सॊ ऽथ बभूव जगतीपतिः ॥ 108 ॥

Reach this point to mark the section finished.

Continue to अध्याय 5

Previous: अध्याय 3