धर्मDharmic Data

कर्णपर्व · Karna Parva

अध्याय 6

  1. [स] हते दरॊणे महेष्वासे तस्मिन्न अहनि भारत कृते च मॊघसंकल्पे दरॊणपुत्रे महारथे ॥ 1 ॥

  2. दरवमाणे महाराज कौरवाणां बले तथा वयूह्य पार्थः सवकं सैन्यम अतिष्ठद भरातृभिः सह ॥ 2 ॥

  3. तम अवस्थितम आज्ञाय पुत्रस ते भरतर्षभ दरवच च सवबलं दृष्ट्वा पौरुषेण नयवारयत ॥ 3 ॥

  4. सवम अनीकम अवस्थाप्य बाहुवीर्ये वयवस्थितः युद्ध्वा च सुचिरं कालं पाण्डवैः सह भारत ॥ 4 ॥

  5. लब्धलक्षैः परैर हृष्टैर वयायच्छद्भिश चिरं तदा संध्याकालं समासाद्य परत्याहारम अकारयत ॥ 5 ॥

  6. कृत्वावहारं सैन्यानां परविश्य शिबिरं सवकम कुरवॊ ऽऽतमहितं मन्त्रं मन्त्रयां चक्रिरे तदा ॥ 6 ॥

  7. पर्यङ्केषु परार्ध्येषु सपर्ध्यास्तरणवत्सु च वरासनेषूपविष्टाः सुखशय्यास्व इवामराः ॥ 7 ॥

  8. ततॊ दुर्यॊधनॊ राजा साम्ना परमवल्गुना तान आभाष्य महेष्वासान पराप्तकालम अभाषत ॥ 8 ॥

  9. मतिं मतिमतां शरेष्ठाः सर्वे परब्रूत माचिरम एवंगते तु यत कार्यं भवेत कार्यकरं नृपाः ॥ 9 ॥

  10. एवम उक्ते नरेन्द्रेण नरसिंहा युयुत्सवः चक्रुर नानाविधाश चेष्टाः सिंहासनगतास तदा ॥ 10 ॥

  11. तेषां निशम्येङ्गितानि युद्धे पराणाञ जुहूषताम समुद्वीक्ष्य मुखं राज्ञॊ बालार्कसमवर्चसः आचार्य पुत्रॊ मेधावी वाक्यज्ञॊ वाक्यम आददे ॥ 11 ॥

  12. रागॊ यॊगस तथा दाक्ष्यं नयश चेत्य अर्थसाधकाः उपायाः पण्डितैः परॊक्ताः सर्वे दैवसमाश्रिताः ॥ 12 ॥

  13. लॊकप्रवीरा ये ऽसमाकं देवकल्पा महारथाः नीतिमन्तस तथायुक्ता दक्षा रक्ताश च ते हताः ॥ 13 ॥

  14. न तव एव कार्यं नैराश्यम अस्माभिर विजयं परति सुनीतैर इह सर्वार्थैर दैवम अप्य अनुलॊम्यते ॥ 14 ॥

  15. ते वयं परवरं नॄणां सर्वैर गुणगुणैर युतम कर्णं सेनापतिं कृत्वा परमथिष्यामहे रिपून ॥ 15 ॥

  16. ततॊ दुर्यॊधनः परीतः परियं शरुत्वा वचस तदा परीतिसंस्कार संयुक्तं तथ्यम आत्महितं शुभम ॥ 16 ॥

  17. सवं मनः समवस्थाप्य बाहुवीर्यम उपाश्रितः दुर्यॊधनॊ महाराज राधेयम इदम अब्ब्रवीत ॥ 17 ॥

  18. कर्ण जानामि ते वीर्यं सौहृदं च परं मयि तथापि तवां महाबाहॊ परवक्ष्यामि हितं वचः ॥ 18 ॥

  19. शरुत्वा यथेष्टं च कुरुवीर यत तव रॊचते भवान पराज्ञतमॊ नित्यं मम चैव परा गतिः ॥ 19 ॥

  20. भीष्मद्रॊणाव अतिरथौ हतौ सेनापती मम सेनापतिर भवान अस्तु ताभ्यां दरविणवत्तरः ॥ 20 ॥

  21. वेद्धौ च तौ महेष्वासौ सापेक्षौ च धनंजये मानितौ च मया वीरौ राधेय वचनात तव ॥ 21 ॥

  22. पितामहत्वं संप्रेक्ष्य पाण्डुपुत्रा महारणे रक्षितास तात भीष्मेण दिवसानि दशैव ह ॥ 22 ॥

  23. नयस्तशस्त्रे च भवति हतॊ भीष्मः पितामहः शिखण्डिनं पुरस्कृत्य फल्गुनेन महाहवे ॥ 23 ॥

  24. हते तस्मिन महाभागे शरतल्पगते तदा तवयॊक्ते पुरुषव्याघ्र दरॊणॊ हय आसीत पुरःसरः ॥ 24 ॥

  25. तेनापि रक्षिताः पार्थाः शिष्यत्वाद इह संयुगे स चापि निहतॊ वृद्धॊ धृष्टद्युम्नेन स तवरम ॥ 25 ॥

  26. निहताभ्यां परधानाभ्यां ताभ्याम अमितविक्रम तवत्समं समरे यॊद्धं नान्यं पश्यामि चिन्तयन ॥ 26 ॥

  27. भवान एव तु नः शक्तॊ विजयाय न संशयः पूर्वं मध्ये च पश्च्चाच च तवैव विदितं हि तत ॥ 27 ॥

  28. स भवान धुर्यवत संख्ये दुरम उद्वॊढुम अर्हसि अभिषेचय सेनान्ये सवयम आत्मानम आत्मना ॥ 28 ॥

  29. देवतानां यथा सकन्दः सेनानीः परभुर अव्ययः तथा भवान इमां सेनां धार्तराष्ट्रीं बिभर्तु मे जहि शत्रुगणान सर्वान महेन्द्र इव दानवान ॥ 29 ॥

  30. अवस्थितं रणे जञात्वा पाण्डवास तवां महारथम दरविष्यन्ति स पाञ्चाला विष्णुं दृष्ट्वेव दानवाः तस्मात तवं पुरुषव्याघ्र परकर्षेथा महाचमूम ॥ 30 ॥

  31. भवत्य अवस्थिते यत ते पाण्डवा गतचेतसः भविष्यन्ति सहामात्याः पाञ्चालैः सृञ्जयैः सह ॥ 31 ॥

  32. यथा हय अभ्युदितः सूर्यः परतपन सवेन तेजसा वयपॊहति तमस तीव्रं तथा शत्रून वयपॊह नः ॥ 32 ॥

  33. [कर्ण] उक्तम एतन मया पूर्वं गान्धरे तव संनिधौ जेष्यामि पाण्डवान राजन सपुत्रान सजनार्दनान ॥ 33 ॥

  34. सेनापतिर भविष्यामि तवाहं नात्र संशयः सथिरॊ भव महाराज जितान विद्धि च पाण्डवान ॥ 34 ॥

  35. [स] एवम उक्तॊ महातेजास ततॊ दुर्यॊधनॊ नृपः उत्तस्थौ राजभिः सार्धं देवैर इव शतक्रतुः सेनापत्येन सत्कर्तुं कर्णं सकन्दम इवामराः ॥ 35 ॥

  36. ततॊ ऽभिषिषिचुस तूर्णं विधिदृष्टेन कर्मणा दुर्यॊधनमुखा राजन राजानॊ विजयैषिणः शातकौम्भ मयैः कुम्भैर माहेयैश चाभिमन्त्रितैः ॥ 36 ॥

  37. तॊयपूर्णैर विषाणैश च दवीपिखड्गमहर्षभैः मणिमुक्ता मयैश चान्यैः पुण्यगन्धैस तथौषधैः ॥ 37 ॥

  38. औदुम्बरे समासीनम आसने कषौमसंवृतम शास्त्रदृष्टेन विधिना संभारैश च सुसंभृतैः ॥ 38 ॥

  39. जय पार्थान स गॊविन्दान सानुगांस तवं महाहवे इति तं बन्दिनः पराहुर दविजाश च भरतर्षभ ॥ 39 ॥

  40. जहि पार्थान सपाञ्चालान राधेय विजयाय नः उद्यन्न इव सदा भानुस तमांस्य उग्रैर गभस्तिभिः ॥ 40 ॥

  41. न हय अलं तवद विसृष्टानां शराणां ते स केशवाः कृतघ्नाः सूर्यरश्मीनां जवलताम इव दर्शने ॥ 41 ॥

  42. न हि पार्थाः सपाञ्चालाः सथातुं शक्तास तवाग्रतः आत्तशस्त्रस्य समरे महेन्द्रस्येव दानवाः ॥ 42 ॥

  43. अभिषिक्तस तु राधेयः परभया सॊ ऽमितप्रभः वयत्यरिच्यत रूपेण दिवाकर इवापरः ॥ 43 ॥

  44. सेनापत्येन राधेयम अभिषिच्य सुतस तव अमन्यत तदात्मानं कृतार्थं कालचॊदितः ॥ 44 ॥

  45. कर्णॊ ऽपि राजन संप्राप्य सेनापत्यम अरिंदमः यॊगम आज्ञापयाम आस सूर्यस्यॊदयनं परति ॥ 45 ॥

  46. तव पुत्रैर वृतः कर्णः शुशुभे तत्र भारत देवैर इव यथा सकन्दः संग्रामे तारका मये ॥ 46 ॥

Reach this point to mark the section finished.

Continue to अध्याय 7

Previous: अध्याय 5