धर्मDharmic Data

कर्णपर्व · Karna Parva

अध्याय 46

  1. [स] महासत्त्वौ तु तौ दृष्ट्वा सहितौ केशवार्जुनौ हतम आधिरथिं मेने संख्ये गाण्डीवधन्वना ॥ 1 ॥

  2. ताव अभ्यनन्दत कौन्तेयः साम्ना परमवल्गुना समितपूर्वम अमित्रघ्नः पूजयन भरतर्षभ ॥ 2 ॥

  3. [य] सवागत्वं देवकीपुत्र सवागतं ते धनंजय परियं मे दर्शनं बाढं युवयॊर अच्युतार्जुनौ ॥ 3 ॥

  4. अक्षताब्भ्याम अरिष्टाभ्यां कथं युध्य महारथ आशीविषसमं युद्धे सर्वशस्त्रविशारदम ॥ 4 ॥

  5. अग्रगं धार्तराष्ट्राणां सवेषां शर्म वर्म च रक्षितं वृषसेनेन सुषेणेन च धन्विना ॥ 5 ॥

  6. अनुज्ञातं महावीर्यं रमेणास्त्रेषु दुर्जयम तरातारं धार्तराष्ट्राणां गन्तारं वाहिनीमुखे ॥ 6 ॥

  7. हन्तारम अरिसैन्यानाम अमित्रगणमर्दनम दुर्यॊधन हिते युक्तम अस्मद युद्धाय चॊद्यतम ॥ 7 ॥

  8. अप्रधृष्यं महायुद्धे देवैर अपि सवासवैः अनलानिलयॊस तुल्यं तेजसा च बलेन च ॥ 8 ॥

  9. पातालम इव गम्भीरं सुहृद आनन्दवर्धनम अन्तकाभम अमित्राणां कर्णं हत्वा महाहवे दिष्ट्या युवाम अनुप्राप्तौ जित्वासुरम इवामरौ ॥ 9 ॥

  10. तेन युद्धम अदीनेन मया हय अद्याच्युतार्जुनौ कुपितेनान्तकेनेव परजाः सर्वा जिघांसता ॥ 10 ॥

  11. तेन केतुश च मे छिन्नॊ हतौ च पार्ष्णिसारथी हतवाहः कृतश चास्मि युयुधानस्य पश्यतः ॥ 11 ॥

  12. धृष्टद्युम्नस्य यमयॊर वीरस्य च शिखण्डिनः पश्यतां दरौपदेयानां पाञ्चालानां च सर्वशः ॥ 12 ॥

  13. एताञ जित्वा महावीर्यान कर्णः शत्रुगणान बहून जितवान मां महाबाहॊ यतमानं महारणे ॥ 13 ॥

  14. अनुसृज्य च मां युद्धे परुषाण्य उक्तवान बहु तत्र तत्र युधां शरेष्ठः परिभूय न संशयः ॥ 14 ॥

  15. भीमसेनप्रभावात तु यज जीवामि धनंजय बहुनात्र किम उक्तेन नाहं तत सॊढुम उत्सहे ॥ 15 ॥

  16. तरयॊदशाहं वर्षाणि यस्माद भीतॊ धनंजय न सम निद्रां लभे रात्रौ न चाहनि सुखं कव चित ॥ 16 ॥

  17. तस्य दवेषेण संयुक्तः परिदह्ये धनंजय आत्मनॊ मरणां जानन वाध्रीणस इव दविपः ॥ 17 ॥

  18. यस्यायम अगमत कालश चिन्तयानस्य मे विभॊ कथं शक्यॊ मया कर्णॊ युद्धे कषपयितुं भवेत ॥ 18 ॥

  19. जाग्रत सवपंश च कौन्तेय कर्णम एव सदा हय अहम पश्यामि तत्र तत्रैव कर्ण भूतम इदं जगत ॥ 19 ॥

  20. यत्र यत्र हि गच्छामि कर्णाद भीतॊ धनंजय तत्र तत्र हि पश्यामि कर्णम एवाग्रतः सथितम ॥ 20 ॥

  21. सॊ ऽहं तेनैव वीरेण समरेष्व अपलायिना सहयः सरथः पार्थ जित्वा जीवन विसार्जितः ॥ 21 ॥

  22. कॊ नु मे जीवितेनार्थॊ राज्येनार्थॊ ऽथ वा पुनः ममैवं धिक्कृतस्येह कर्णेनाहव शॊभिना ॥ 22 ॥

  23. न पराप्तपूर्वं यद भीष्मात कृपाद दरॊणाच च संयुगे तत पराप्तम अद्य मे युद्धे सूतपुत्रान महारथात ॥ 23 ॥

  24. तत तवा पृच्छामि कौन्तेय यथा हय अकुशलस तथा तन ममाचक्ष्व कार्त्स्न्येन यथा कर्णस तवया हतः ॥ 24 ॥

  25. शक्र वीर्यसमॊ युद्धे यम तुल्यपराक्रमः राम तुल्यस तथास्त्रे यः स कथं वै निषूदितः ॥ 25 ॥

  26. महारथः समाख्यातः सर्वयुद्धविशारदः धनुर्धराणां परवरः सर्वेषाम एकपूरुषः ॥ 26 ॥

  27. पूजितॊ धृतराष्ट्रेण सपुत्रेण विशां पते सदा तवदर्थं राधेयः स कथं निहतस तवया ॥ 27 ॥

  28. धृतराष्ट्रॊ हि यॊधेषु सर्वेष्व एव सदार्जुन तव मृत्युं रणे कर्णं मन्यते पुरुषर्षभः ॥ 28 ॥

  29. स तवया पुरुषव्याघ्र कथं युद्धे निषूदितः तं ममाचक्ष्व बीभत्सॊ यथा कर्णॊ हतस तवया ॥ 29 ॥

  30. सॊत्सेधम अस्य च शिरः पश्यतां सुहृदां हृतम तवया पुरुषशार्दूल शार्दूलेन यथा रुरॊः ॥ 30 ॥

  31. यः पर्युपासीत परदिशॊ दिशश च; तवां सूतपुत्रः समरे परीप्सन दित्सुः कर्णः समरे हस्तिपूगं; स हीदानीं कङ्कपत्रैः सुतीक्ष्णैः ॥ 31 ॥

  32. तवया रणे निहतः सूतपुत्रः; कच चिच छेते भूमितले दुरात्मा कच चित परियं मे परमं तवयाद्य; कृतं रणे सूतपुत्रं निहत्य ॥ 32 ॥

  33. यः सर्वतः पर्यपतत तवदर्थे; महान्वितॊ गर्वितः सूतपुत्रः सा शूरमानी समरे समेत्य; कच चित तवया निहतः संयुगे ऽदय ॥ 33 ॥

  34. रौक्मं रथं हस्तिवरैश च युक्तं; रथं दित्सुर यःपरेभ्यस तवदर्थे सादा रणे सपर्धते यः स पापः; कच चित तवया निहतस तात युद्धे ॥ 34 ॥

  35. यॊ ऽसौ नित्यं शूर मदेन मत्तॊ; विकत्थते संसदि कौरवाणाम परियॊ ऽतयर्थं तस्य सुयॊधनस्य; कच चित स पापॊ निहतस तवयाद्य ॥ 35 ॥

  36. कच चित समागम्य धनुःप्रमुक्तैस; तवत परेषितैर लॊहितार्थैर विहंगैः शेते ऽदय पापः स विभिन्नगात्रः; कच चिद भग्नॊ धार्तराष्ट्रस्य बाहुः ॥ 36 ॥

  37. यॊ ऽसौ सदा शलाघते राजमध्ये; दुर्यॊधनं हर्षयन दर्पपूर्णः अहं हन्ता फल्गुनस्येति मॊहात; कच्चिद धतस तस्य न वै तथा रथः ॥ 37 ॥

  38. नाहं पादौ धावयिष्ये कदा चिद; यावत सथितः पार्थ इत्य अल्पबुद्धिः वरतं तस्यैतत सर्वदा शक्रसूनॊ; कच चित तवया निहतः सॊ ऽदय कर्णः ॥ 38 ॥

  39. यॊ ऽसौ कृष्णाम अब्रवीद दुष्टबुद्धिः; कर्णः सभायां कुरुवीरमध्ये किं पाण्डवांस तवं न जहासि कृष्णे; सुदुर्बलान पतितान हीनसत्त्वान ॥ 39 ॥

  40. यत तत कर्णः परत्यजानात तवदर्थे; नाहत्वाहं सह कृष्णेन पार्थम इहॊपयातेति स पापबुद्धिः; कच चिच छेते शरसंभिन्न गात्रः ॥ 40 ॥

  41. कच चित संग्रामे विदितॊ वा तदायं; समागमः सृञ्जय कौरवाणाम यत्रावस्थाम ईदृशीं परापितॊ ऽहं; कच चित तवया सॊ ऽदय हतः समेत्य ॥ 41 ॥

  42. कच चित तवया तस्य सुमन्दबुद्धेर; गाण्डीवमुक्तैर विशिखैर जवलद्भिः सकुण्डलं भानुमद उत्तमाङ्गं; कायात परकृत्तं युधि सव्यसाचिन ॥ 42 ॥

  43. यत तन मया बाणसमर्पितेन; धयातॊ ऽसि कर्णस्य वधाय वीर तन मे तवया कच चिद अमॊघम अद्य; धयातं कृतं कर्ण निपातनेन ॥ 43 ॥

  44. यद दर्पपूर्णः स सुयॊधनॊ ऽसमान; अवेक्षते कर्ण समाश्रयेण कच चित तवया सॊ ऽदय समाश्रयॊ ऽसय; भग्नः पराक्रम्य सुयॊधनस्य ॥ 44 ॥

  45. यॊ नः पुरा षण्ढतिलान अवॊचत; सभामध्ये पार्थिवानां समक्षम स दुर्मतिः कच्च चिद उपेत्य संख्ये; तवया हतः सूतपुत्रॊ ऽतयमर्षी ॥ 45 ॥

  46. यः सूतपुत्रः परहसन दुरात्मा; पुराब्रवीन निजितां सौबलेन सवयं परसह्यानय याज्ञसेनीम; अपीह कच्च चित स हतस तवयाद्य ॥ 46 ॥

  47. यः शस्त्रभृच छरेष्ठतमं पृथिव्यां; पितामहं वयाक्षिपद अल्पचेताः संख्यायमानॊ ऽरधरथः स कच चित; तवया हतॊ ऽदयाधिरथिर दुरात्मा ॥ 47 ॥

  48. अमर्षणं निकृतिसमीरणेरितं; हृदि शरितं जवलनम इमं सदा मम हतॊ मया सॊ ऽदय समेत्य पापधीर; इति बरुवन परशमय मे ऽदय फल्गुन ॥ 48 ॥

Reach this point to mark the section finished.

Continue to अध्याय 47

Previous: अध्याय 45