[स] तद धर्मशीलस्य वचॊ निशम्य; राज्ञः करुद्धस्याधिरथौ महात्मा उवाच दुर्धर्षम अदीनसत्त्वं; युधिष्ठिरं जिष्णुर अनन्तवीर्यः ॥ 1 ॥
संशप्तकैर युध्यमानस्य मे ऽदय; सेनाग्रयायी कुरुसैन्यस्य राजन आशीविषाभान खगमान परमुञ्चन; दरौणिः पुरस्तात सहसा वयतिष्ठत ॥ 2 ॥
दृष्ट्वा रथं मेघनिभं ममेमम; अम्बष्ठ सेना मरणे वयतिष्ठत तेषाम अहं पञ्च शतानि हत्वा; ततॊ दरौणिम अगमं पार्थिवाग्र्य ॥ 3 ॥
ततॊ ऽपरान बाणसंघान अनेकान; आकर्णपूर्णायत विप्रमुक्तान ससर्ज शिक्षास्त्र बलप्रयत्नैर; तथा यथा परावृषि काममेघः ॥ 4 ॥
नैवाददानं न च संदधानं; जानीमहे कतरेणास्यति इति वामेन वा यदि वा दक्षिणेन; स दरॊणपुत्रः समरे पर्यवर्तत ॥ 5 ॥
अविध्यन मां पञ्चभिर दरॊणपुत्रः; शितैः शरैः पञ्चभिर वासुदेवम अहं तु तं तरिंशता वज्रकल्पैः; समार्दयं निमिषस्यान्तरेण ॥ 6 ॥
स विक्षरन रुधिरं सर्वगात्रै; रथानीकं सूत सूनॊर विवेश मयाभिभूतः सैनिकानां परबर्हान; असाव अपश्यन रुधिरेण परदिग्धान ॥ 7 ॥
ततॊ ऽभिभूतं युधि वीक्ष्य सैन्यं; विध्वस्तयॊधं दरुतवाजिनागम पञ्चाशता रथमुखैः समेतः; कर्णस तवरन माम उपायात परमाथी ॥ 8 ॥
तान सूदयित्वाहम अपास्य कर्णं; दरष्टुं भवन्तं तवरयाभियातः सर्वे पाञ्चाला हय उद्विजन्ते सम कर्णाद; गन्धाद गावः केसरिणॊ यथैव ॥ 9 ॥
महाझषस्येव मुखं परपन्नाः; परभद्रकाः कर्णम अभि दरवन्ति मृत्यॊर आस्यं वयात्तम इवान्वपद्यन; परभद्रकाः कर्णम आसाद्य राजन ॥ 10 ॥
आयाहि पश्याद्य युयुत्समानं; मां सूतपुत्रं च वृतौ जयाय षट साहस्रा भारत राजपुत्राः; सवर्गाय लॊकाय रथा निमग्नाः ॥ 11 ॥
समेत्याहं सूतपुत्रेण संख्ये; वृत्रेण वज्रीव नरेन्द्रमुख्य यॊत्स्ये भृशं भारत सूतपुत्रम; अस्मिन संग्रामे यदि वै दृश्यते ऽदय ॥ 12 ॥
कर्णं न चेद अद्य निहन्मि राजन; सबान्धवं युध्यमानं परसह्य परतिश्रुत्याकुर्वतां वै गतिर या; कष्टां गच्छेयं ताम अहं राजसिंह ॥ 13 ॥
आमन्त्रये तवां बरूहि जयं रणे मे; पुरा भीमं धार्तराष्ट्रा गरसन्ते सौतिं हनिष्यामि नरेन्द्र सिंह; सैन्यं तथा शत्रुगणांश च सर्वान ॥ 14 ॥
कर्णपर्व · Karna Parva
अध्याय 47
Reach this point to mark the section finished.
Continue to अध्याय 48