[धृ] निवृत्ते भीमसेने च पाण्डवे च युधिष्ठिरे वध्यमाने बले चापि मामके पाण्डुसृञ्जयैः ॥ 1 ॥
दरवमाणे बलौघे च निराक्रन्दे मुहुर मुहुः किम अकुर्वन्त कुरवस तन ममाचक्ष्व संजय ॥ 2 ॥
[स] दृष्ट्वा भीमं महाबाहुं सूतपुत्रः परतापवान करॊधरक्तेक्षणॊ राजन भीमसेनम उपाद्रवत ॥ 3 ॥
तावकं च बलं दृष्ट्वा भीमसेनात पराङ्मुखम यत्नेन महता राजन पर्यवस्थापयद बली ॥ 4 ॥
वयवस्थाप्य महाबाहुस तव पुत्रस्य वाहिनीम परत्युद्ययौ तदा कर्णः पाण्डवान युद्धदुर्मदान ॥ 5 ॥
परत्युद्ययुस तु राधेयं पाण्डवानां महारथाः धुन्वानाः कार्मुकाण्य आजौ विक्षिपन्तश च सायकान ॥ 6 ॥
भीमसेनः सिनेर नप्ता शिखण्डी जनमेजयः धृष्टद्युम्नश च बलवान सर्वे चापि परभद्रकाः ॥ 7 ॥
पाञ्चालाश च नरव्याघ्राः समन्तात तव वाहिनीम अभ्यद्रवन्त संक्रुद्धाः समरे जितकाशिनः ॥ 8 ॥
तथैव तावका राजन पाण्डवानाम अनीकिनीम अभ्यद्रवन्त तवरिता जिघांसन्तॊ महारथाः ॥ 9 ॥
रथनागाश्वकलिलं पत्तिध्वजसमाकुलम बभूव पुरुषव्याघ्र सैन्यम अद्भुतदर्शनम ॥ 10 ॥
शिखण्डी च ययौ कर्णं धृष्टद्युम्नः सुतं तव दुःशासनं महाराज महत्या सेनया वृतम ॥ 11 ॥
नकुलॊ वृषसेनं च चित्रसेनं समभ्ययात उलूकं समरे राजन सहदेवः समभ्ययात ॥ 12 ॥
सात्यकिः शकुनिं चापि भीमसेनश च कौरवान अर्जुनं च रणे यत्तं दरॊणपुत्रॊ महारथः ॥ 13 ॥
युधामन्युं महेष्वासं गौतमॊ ऽभयपतद रणे कृतवर्मा च बलवान उत्तमौजसम आद्रवत ॥ 14 ॥
भीमसेनः कुरून सर्वान पुत्रांश च तव मारिष सहानीकान महाबाहुर एक एवाभ्यवारयत ॥ 15 ॥
शिखण्डी च ततः कर्णं विचरन्तम अभीतवत भीष्म हन्ता महाराज वारयाम आस पत्रिभिः ॥ 16 ॥
परतिरब्धस ततः कर्णॊ रॊषात परस्फुरिताधरः शिखण्डिनं तरिभिर बाणैर भरुवॊर मध्ये वयताडयत ॥ 17 ॥
धारयंस तु स तान बाणाञ शिखण्डी बह्व अशॊभत राजतः पर्वतॊ यद्वत तरिभिः शृङ्गैः समन्वितः ॥ 18 ॥
सॊ ऽतिविद्धॊ महेष्वासः सूतपुत्रेण संयुगे कर्णं विव्याध समरे नवत्या निशितैः शरैः ॥ 19 ॥
तस्य कर्णॊ हयान हत्वा सारथिं च तरिभिः शरैः उन्ममाथ धवजं चास्य कषुप्रप्रेण महारथः ॥ 20 ॥
हताश्वात तु ततॊ यानाद अवप्लुत्य महारथः शक्तिं चिक्षेप कर्णाय संक्रुद्धः शत्रुतापनः ॥ 21 ॥
तां छित्त्वा समरे कर्णस तरिभिर भारत सायकैः शिखण्डिनम अथाविध्यन नवभिर निशितैः शरैः ॥ 22 ॥
कर्ण चापच्युतान बाणान वर्जयंस तु नरॊत्तमः अपयातस ततस तूर्णं शिखण्डी जयतां वरः ॥ 23 ॥
ततः कर्णॊ महाराज पाण्डुसैन्यान्य अशातयत तूलराशिं समासाद्य यथा वायुर महाजवः ॥ 24 ॥
धृष्टद्युम्नॊ महाराज तव पुत्रेण पीडितः दुःशासनं तरिभिर बाणैर अभ्यविध्यत सतनान्तरे ॥ 25 ॥
तस्य दुःशासनॊ बाहुं सव्यं विव्याध मारिष शितेन रुक्मपुङ्खेन भल्लेन नतपर्वणा ॥ 26 ॥
धृष्टद्युम्नस तु निर्विद्धः शरं घॊरम अमर्षणः दुःशासनाय संक्रुद्धः परेषयाम आस भारत ॥ 27 ॥
आपतन्तं महावेगं धृष्टद्युम्न समीरितम शरैश चिच्छेद पुत्रस ते तरिभिर एव विशां पते ॥ 28 ॥
अथापरैः सप्त दशैर भल्लैः कनकभूषणैः धृष्टद्युम्नं समासाद्य बाह्वॊर उरसि चार्दयत ॥ 29 ॥
ततः स पार्षतः करुद्धॊ धनुश चिच्छेद मारिष कषुरप्रेण सुतीक्ष्णेन तत उच्चुक्रुशुर जनाः ॥ 30 ॥
अथान्यद धनुर आदाय पुत्रस ते भरतर्षभ धृष्टद्युम्नं शरव्रातैः समन्तात पर्यवारयत ॥ 31 ॥
तव पुत्रस्य ते दृष्ट्वा विक्रमं तं महात्मनः वयहसन्त रणे यॊधाः सिद्धाश चाप्सरसां गणाः ॥ 32 ॥
ततः परववृते युद्धं तावकानां परैः सह घॊरं पराणभृतां काले घॊररूपं परंतप ॥ 33 ॥
नकुलं वृषसेनस तु विद्ध्वा पञ्चभिर आयसैः पितुः समीपे तिष्ठन्तं तरिभिर अन्यैर अविध्यत ॥ 34 ॥
नकुलस तु ततः करुद्धॊ वृषसेनं समयन्न इव नाराचेन सुतीक्ष्णेन विव्याध हृदये दृढम ॥ 35 ॥
सॊ ऽतिविद्धॊ बलवता शत्रुणा शत्रुकर्शनः शत्रुं विव्याध विंशत्या स च तं पञ्चभिः शरैः ॥ 36 ॥
ततः शरसहस्रेण ताव उभौ पुरुषर्षभौ अन्यॊन्यम आच्छादयताम अथाभज्यत वाहिनी ॥ 37 ॥
दृष्ट्वा तु परद्रुतां सेनां धार्तराष्ट्रस्य सूतजः निवारयाम आस बलाद अनुपत्य विशां पते निवृत्ते तु ततः कर्णे नकुलः कौरवान ययौ ॥ 38 ॥
कर्णपुत्रस तु समरे हित्वा नकुलम एव तु जुगॊप चक्रं तवरितं राधेयस्यैव मारिष ॥ 39 ॥
उलूकस तु रणे करुद्धः सहदेवेन वारितः तस्याश्वांश चतुरॊ हत्वा सहदेवः परतापवान सारथिं परेषयाम आस यमस्य सदनं परति ॥ 40 ॥
उलूकस तु ततॊ यानाद अवप्लुत्य विशां पते तरिगर्तानां बलं पूर्णं जगाम पितृनन्दनः ॥ 41 ॥
सात्यकिः शकुनिं विद्ध्वा विंशत्या निशितैः शरैः धवजं चिच्छेद भल्लेन सौबलस्य हसन्न इव ॥ 42 ॥
सौबलस तस्य समरे करुद्धॊ राजन परतापवान विदार्य कवचं भूयॊ धवजं चिच्छेद काञ्चनम ॥ 43 ॥
अथैनं निशितैर बाणैः सात्यकिः परत्यविध्यत सारथिं च महाराज तरिभिर एव समार्दयत अथास्य वाहांस तवरितः शरैर निन्ये यमक्षयम ॥ 44 ॥
ततॊ ऽवप्लुत्य सहसा शकुनिर भरतर्षभ आरुरॊह रथं तूर्णम उलूकस्य महारथः अपॊवाहाथ शीघ्रं स शैनेयाद युद्धशालिनः ॥ 45 ॥
सात्यकिस तु रणे राजंस तावकानाम अनीकिनीम अभिदुद्राव वेगेन ततॊ ऽनीकम अभिद्यत ॥ 46 ॥
शैनेय शरनुन्नं तु ततः सैन्यं विशां पते भेजे दश दिशस तूर्णं नयपतच च गतासुवत ॥ 47 ॥
भीमसेनं तव सुतॊ वारयाम आस संयुगे तं तु भीमॊ मुहूर्तेन वयश्व सूत रथध्वजम चक्रे लॊकेश्वरं तत्र तेनातुष्यन्त चारणाः ॥ 48 ॥
ततॊ ऽपायान नृपस तत्र भीमसेनस्य गॊचरात कुरुसैन्यं ततः सर्वं भीमसेनम उपाद्रवत तत्र रावॊ महान आसीद भीमम एकं जिघांसताम ॥ 49 ॥
युधामन्युः कृपं विद्ध्वा धनुर अस्याशु चिच्छिदे अथान्यद धनुर आदाय कृपः शस्त्रभृतां वरः ॥ 50 ॥
युधामन्यॊर धवजं सूतं छत्रं चापातयत कषितौ ततॊ ऽपायाद रथेनैव युधामन्युर महारथः ॥ 51 ॥
उत्तमौजास तु हार्दिक्यं शरैर भीमपराक्रमम छादयाम आस सहसा मेघॊ वृष्ट्या यथाचलम ॥ 52 ॥
तद युद्धं सुमहच चासीद घॊररूपं परंतप यादृशं न मया युद्धं दृष्टपूर्वं विशां पते ॥ 53 ॥
कृतवर्मा ततॊ राजन्न उत्तमौजसम आहवे हृदि विव्याध स तदा रथॊपस्थ उपाविशत ॥ 54 ॥
सारथिस तम अपॊवाह रथेन रथिनां वरम ततस तु सत्वरं राजन पाण्डुसैन्यम उपाद्रवत ॥ 55 ॥
कर्णपर्व · Karna Parva
अध्याय 44
Reach this point to mark the section finished.
Continue to अध्याय 45