धर्मDharmic Data

कर्णपर्व · Karna Parva

अध्याय 43

  1. [स] एतस्मिन्न अन्तरे कृष्णः पार्थं वचनम अब्रवीत दर्शयन्न इव कौन्तेयं धर्मराजं युधिष्ठिरम ॥ 1 ॥

  2. एष पाण्डव ते भराता धार्तराष्ट्रैर महाबलैः जिघांसुभिर महेष्वासैर दरुतं पार्थानुसर्यते ॥ 2 ॥

  3. तथानुयान्ति संरब्धाः पाञ्चाला युद्धदुर्मदाः युधिष्ठिरं महात्मानं परीप्सन्तॊ महाजवाः ॥ 3 ॥

  4. एष दुर्यॊधनः पार्थरथानीकेन दंशितः राजा सर्वस्य लॊकस्य राजानम अनुधावति ॥ 4 ॥

  5. जिघांसुः पुरुषव्याघ्रं भरातृभिः सहितॊ बली आशीविषा समस्पर्शैः सर्वयुद्धविशारदैः ॥ 5 ॥

  6. एते जिघृक्षवॊ यान्ति दविपाश्वरथपत्तयः युधिष्ठिरं धार्तराष्ट्रा रत्नॊत्तमम इवार्थिनः ॥ 6 ॥

  7. पश्य सात्वत भीमाभ्यां निरुद्धाधिष्ठितः परभुः जिहीर्षवॊ ऽमृतं दैत्याः शक्राग्निभ्याम इवावशाः ॥ 7 ॥

  8. एते बहुत्वात तवरिताः पुनर गच्छन्ति पाण्डवम समुद्रम इव वार्यॊघाः परावृट्काले महारथः ॥ 8 ॥

  9. नदन्तः सिंहनादांश च धमन्तश चापि वारिजान बलवन्तॊ महेष्वासा विधुन्वन्तॊ धनूंषि च ॥ 9 ॥

  10. मृत्यॊर मुखगतं मन्ये कुन्तीपुत्रं युधिष्ट्ष्हिरम हुतम अग्नौ च भद्रं ते दुर्यॊधन वशंगतम ॥ 10 ॥

  11. यथा युक्तम अनीकं हि धार्तराष्ट्रस्य पाण्डव नास्य शक्रॊ ऽपि मुच्येत संप्राप्तॊ बाणगॊच्चरम ॥ 11 ॥

  12. दुर्यॊधनस्य शूरस्य दरौणेः शारद्वतस्य च कर्णस्य चेषु वेगॊ वै पर्वतान अपि दारयेत ॥ 12 ॥

  13. दुर्यॊधनस्य शूरस्य शरौघाञ शीघ्रम अस्यतः संक्रुद्धस्यान्तकस्येव कॊ वेगं संसहेद रणे ॥ 13 ॥

  14. कर्णेन च कृतॊ राजा विमुखः शत्रुतापनः बलवाँल लघु तस्तश च कृती युद्धविशारदः ॥ 14 ॥

  15. राधेयः पाण्डवश्रेष्ठं शक्तः पीडयितुं रणे सहितॊ धृतराष्ट्रस्य पुत्रैः शूरॊ महात्मभिः ॥ 15 ॥

  16. तस्यैवं युध्यमानस्य संग्रामे संयतात्मनः अन्यैर अपि च पार्थस्य हृतं वर्म महारथैः ॥ 16 ॥

  17. उपवासकृशॊ राजा भृशं भरतसत्तम बराह्मे बले सथितॊ हय एष न कषत्रे ऽतिबले विभॊ ॥ 17 ॥

  18. न जीवति महाराजॊ मन्ये पार्थ युधिष्ठिरः यद भीमसेनः सहते सिंहनादम अमर्षणः ॥ 18 ॥

  19. नर्दतां धार्तराष्ट्राणां पुनः पुनर अरिंदम धमतां च महाशङ्खान संग्रामे जितकर्शिनाम ॥ 19 ॥

  20. युधिष्ठिरं पाण्डवेयं हतेति भरतर्षभ संचॊदयत्य असौ कर्णॊ धार्तराष्ट्रान महाबलान ॥ 20 ॥

  21. सथूणाकर्णेन्दु जालेन पार्थ पाशुपतेन च परच्छादयन्तॊ राजानम अनुयान्ति महारथाः आतुरॊ मे मतॊ राजा संनिषेव्यश च भारत ॥ 21 ॥

  22. यथैनम अनुवर्तन्ते पाञ्चालाः सह पाण्डवैः तवरमाणास तवरा काले सर्वशस्त्रभृतां वराः मज्जन्तम इव पाताले बलिनॊ ऽपय उज्जिहीर्षवः ॥ 22 ॥

  23. न केतुर दृश्यते राज्ञः कर्णेन निहतः शरैः पश्यतॊर यमयॊः पार्थ सात्यकेश च शिखण्डिनः ॥ 23 ॥

  24. धृष्टद्युम्नस्य भीमस्य शतानीकस्य वा विभॊ पाञ्चालानां च सर्वेषां चेदीनां चैव भारत ॥ 24 ॥

  25. एष कर्णॊ रणे पार्थ पाण्डवानाम अनीकिनीम शरैर विध्वंसयति वै नलिनीम इव कुञ्जरः ॥ 25 ॥

  26. एते दरवन्ति रथिनस तवदीयाः पाण्डुनन्दन पश्य पश्य यथा पार्थ गच्छन्त्य एते महारथाः ॥ 26 ॥

  27. एते भारत मातङ्गाः कर्णेनाभिहता रणे आर्तनादान विकुर्वाणा विद्रवन्ति दिशॊ दश ॥ 27 ॥

  28. रथानां दरवतां वृन्दं पश्य पार्थ समन्ततः दराव्यमाणं रणे चैव कर्णेनामित्र कर्शिना ॥ 28 ॥

  29. हस्तिकक्ष्यां रणे पश्य चरन्तीं तत्र तत्र ह रथस्थं सूतपुत्रस्य केतुं केतुमतां वर ॥ 29 ॥

  30. असौ धावति राधेयॊ भीमसेनरथं परति किरञ शरशतानीव विनिघ्नंस तव वाहिनीम ॥ 30 ॥

  31. एतान पश्य च पाञ्चालान दराव्यमाणान महात्मना शक्रेणेव यथा दैत्यान हन्यमानान महाहवे ॥ 31 ॥

  32. एष कर्णॊ रणे जित्वा पाञ्चालान पाण्डुसृञ्जयान दिशॊ विप्रेक्षते सर्वास तवदर्थम इति मे मतिः ॥ 32 ॥

  33. पश्य पार्थधनुःश्रेष्ठं विकर्षन साधु शॊभते शत्रूञ जित्वा यथा शक्रॊ देवसंघैः समावृतः ॥ 33 ॥

  34. एते नदन्ति कौरव्या दृष्ट्वा कर्णस्य विक्रमम तरासयन्तॊ रणे पार्थान सृञ्जयांश च सहस्रशः ॥ 34 ॥

  35. एष सर्वात्मना पाण्डूंस तरासयित्वा महारणे अभिभाषति राधेयः सर्वसैन्यानि मानद ॥ 35 ॥

  36. अभिद्रवत गच्छध्वं दरुतं दरवत कौरवाः यथा जीवन न वः कश चिन मुच्यते युधि सृञ्जयः ॥ 36 ॥

  37. तथा कुरुत संयत्ता वयं यास्याम पृष्ठतः एवम उक्त्वा ययाव एष पृष्ठतॊ विकिरञ शरैः ॥ 37 ॥

  38. पश्य कर्णं रणे पार्थ शवेतच्छवि विराजितम उदयं पर्वतं यद्वच छॊभयन वै दिवाकरः ॥ 38 ॥

  39. पूर्णचन्द्र निकाशेन मूर्ध्नि छत्रेण भारत धरियमाणेन समरे तथा शतशलाकिना ॥ 39 ॥

  40. एष तवां परेक्षते कर्णः सकताक्षॊ विशां पते उत्तमं यत्नम आस्थाय धरुवाम एष्यति संयुगे ॥ 40 ॥

  41. पश्य हय एनं महाबाहॊ विधुन्वानं महद धनुः शरांश चाशीविषाकारान विसृजन्तं महाबलम ॥ 41 ॥

  42. असौ निवृत्तॊ राधेयॊ दृश्यते वानरध्वज वधाय चात्मनॊ ऽभयेति दीपस्य शलभॊ यथा ॥ 42 ॥

  43. कर्णम एकाकिनं दृष्ट्वा रथानीकेन भारत रिरक्षिषुः सुसंयत्तॊ धार्तराष्ट्रॊ ऽभिवर्तते ॥ 43 ॥

  44. सार्वैः सहैभिर दुष्टात्मा वध्य एष परयत्नतः तवया यशश च राज्यं च सुखं चॊत्तमम इच्छता ॥ 44 ॥

  45. आत्मानं च कृतात्मानं समीक्ष्य भरतर्षभ कृतागसं च राधेयं धर्मात्मनि युधिष्ठिरे ॥ 45 ॥

  46. परतिपद्यस्व राधेयं पराप्तकालम अनन्तरम आर्यां युद्धे मतिं कृत्वा परत्येहि रथयूथपम ॥ 46 ॥

  47. पञ्च हय एतानि मिख्यानां रथानां रथसत्तम शतान्य आयान्ति वेगेन बलिनां भीम तेजसाम ॥ 47 ॥

  48. पञ्च नागसहस्राणि दविगुणा वाजिनस तथा अभिसंहत्य कौन्तेय पदातिप्रयुतानि च अन्यॊन्यरक्षितं वीर बलं तवाम अभिवर्तते ॥ 48 ॥

  49. सूतपुत्रे महेष्वासे दर्शयात्मानम आत्मना उत्तमं यत्नम आस्थाय परत्येहि भरतर्षभ ॥ 49 ॥

  50. असौ कर्णः सुसंरब्धः पाञ्चालान अभिधावति केतुम अस्य हि पश्यामि धृष्टद्युम्न रथं परति समुच्छेत्स्यति पाञ्चालान इति मन्ये परंतप ॥ 50 ॥

  51. आचक्षे ते परियं पार्थ तद एवं भरतर्षभ राजा जीवति कौरव्यॊ धर्मपुत्रॊ युधिष्ठिरः ॥ 51 ॥

  52. असौ भिमॊ महाबाहुह्ल संनिवृत्तश चमूमुखे वृतः सृञ्जय सैन्येन सात्यकेन च भातत ॥ 52 ॥

  53. वध्यन्त एते समरे कौरवा निशितैः शरैः भीमसेनेन कौन्तेय पाञ्चालैश च महात्मभिः ॥ 53 ॥

  54. सेना हि धार्तराष्ट्रस्य विमुखा चाभवद रणात विप्रधावति वेगेन भीमस्य निहता शरैः ॥ 54 ॥

  55. विपन्नसस्येव मही रुधिरेण समुक्षिता भारती भरतश्रेष्ठ सेना कृपण दर्शना ॥ 55 ॥

  56. निवृत्तं पश्य कौन्तेय भीमसेनं युधां पतिम आशीविषम इव करुद्धं तस्माद दरवति वाहिनी ॥ 56 ॥

  57. पीतरक्तासित सितास तारा चन्द्रार्क मण्डिताः पताकाविप्रकीर्यन्ते छत्राण्य एतानि चार्जुन ॥ 57 ॥

  58. सौवर्णा राजताश चैव तैजसाश च पृथग्विधाः केतवॊ विनिपात्यन्ते हस्त्यश्वं विप्रकीर्यते ॥ 58 ॥

  59. रथेभ्यः परपतन्त्य एते रथिनॊ विगतासवः नानावर्णैर हता बाणैः पाञ्चालैर अपलायिभिः ॥ 59 ॥

  60. निर्मनुष्यान गजान अश्वान रथांश चैव धनंजय समाद्रवन्ति पाञ्चाला धार्तराष्ट्रांस तरस्विनः ॥ 60 ॥

  61. मृद्नन्ति च नरव्याघ्रा भीमसेनव्यपाश्रयात बलं परेषां दुर्धर्षं तयक्त्वा पराणान अरिंदम ॥ 61 ॥

  62. एते नदन्ति पाञ्चाला धमन्त्य अपि च वारिजान अभिद्रवन्ति च रणे निघ्नन्तः सायकैः परान ॥ 62 ॥

  63. पश्य सवर्गस्य माहात्म्यं पाञ्चाला हि परंतप धार्तराष्ट्रान विनिघ्नन्ति करुद्धाः सिंहा इव दविपान ॥ 63 ॥

  64. सर्वतश चाभिपन्नैषा धार्तराष्ट्री महाचमूः पाञ्चालैर मानसाद एत्य हंसैर गङ्गेव वेगितैः ॥ 64 ॥

  65. सुभृशं च पराक्रान्ताः पाञ्चालानां निवारणे कृप कर्णादयॊ वीरा ऋषभाणाम इवर्षभाः ॥ 65 ॥

  66. सुनिमग्नांश च भीमास्त्रैर धार्तराष्ट्रान महारथान धृष्टद्युम्नमुखा वीरा घनन्ति शत्रून सहस्रशः विषण्णभूयिष्ठ रथा धार्तराष्ट्री महाचमूः ॥ 66 ॥

  67. पश्य भीमेन नाराचैश छिन्ना नागाःपतन्त्य अमी वज्रिवज्राहतानीव शिखराणि महीभृताम ॥ 67 ॥

  68. भीमसेनस्य निर्विद्धा बाणैः संनतपर्वभिः सवान्य अनीकानि मृद्नन्तॊ दरवत्य एते महागजाः ॥ 68 ॥

  69. नाभिजानासि भीमस्य सिंहनादं दुरुत्सहम नदतॊ ऽरजुन संग्रामे वीरस्य जितकाशिनः ॥ 69 ॥

  70. एष नैषादिर अब्भ्येति दविपमुख्येन पाण्डवम जिघांसुस तॊमरैः करुद्धॊ दण्डा पाणिर इवान्तकः ॥ 70 ॥

  71. सतॊमराव अस्य भुजौ छिन्नौ भीमेन गर्जतः तीक्ष्णैर अग्निशिखा परख्यैर नाराचैर दशभिर हतः ॥ 71 ॥

  72. हत्वैनं पुनर आयाति नागान अन्यान परहारिणः पश्य नीलाम्बुदनिभान महामात्रैर अधिष्ठितान शक्तितॊमरसंकाशैर विनिघ्नन्तं वृकॊदरम ॥ 72 ॥

  73. सप्त सप्त च नागंस तान वैजयन्तीश च सध्वजाः निहत्य निशितैर बाणैश छिन्नाः पार्थाग्रजेन ते दशभिर दशभिश चैकॊ नाराचैर निहतॊ गजः ॥ 73 ॥

  74. न चासौ धार्तराष्ट्राणां शरूयते निनदस तथा पुरंदरसमे करुद्धे निवृत्ते भरतर्षभे ॥ 74 ॥

  75. अक्षौहिण्यस तथा तिस्रॊ धार्तराष्ट्रस्य संहताः करुद्धेन नरसिंहेन भीमसेनेन वारिताः ॥ 75 ॥

  76. [स] भीमसेनेन तत कर्मकृतं दृष्ट्वा सुदुष्करम अर्जुनॊ वयधमच छिष्टान अहितान निशितैः शरैः ॥ 76 ॥

  77. ते वध्यमानाः समरे संशप्तक गणाः परभॊ शक्रस्यातिथितां गत्वा विशॊका हय अभवन मुदा ॥ 77 ॥

  78. पार्थश च पुरुषव्याघ्रः शरैः संनतपर्वभिः जघान धार्तराष्ट्रस्य चतुर्विध बलां चमूम ॥ 78 ॥

Reach this point to mark the section finished.

Continue to अध्याय 44

Previous: अध्याय 42