धर्मDharmic Data

कर्णपर्व · Karna Parva

अध्याय 3

  1. [वै] एतच छरुत्वा महाराज धृतराष्ट्रॊ ऽमबिका सुतः शॊकस्यान्तम अपश्यन वै हतं मत्वा सुयॊधनम विह्वलः पतितॊ भूमौ नष्टचेता इव दविपः ॥ 1 ॥

  2. तस्मिन निपतिते भूमौ विह्वले राजसत्तमे आर्तनादॊ महान आसीत सत्रीणां भरतसत्तम ॥ 2 ॥

  3. स शब्दः पृथिवीं सर्वां पूरयाम आस सर्वशः शॊकार्णवे महाघॊरे निमग्ना भरत सत्रियः ॥ 3 ॥

  4. राजानं च समासाद्य गान्धारी भरतर्षभ निःसंज्ञा पतिता भूमौ सर्वाण्य अन्तःपुराणि च ॥ 4 ॥

  5. ततस ताः संजयॊ राजन समाश्वासयद आतुराः मुह्यमानाः सुबहुशॊ मुञ्चन्त्यॊ वारि नेत्रजम ॥ 5 ॥

  6. समाश्वस्ताः सत्रियस तास तु वेपमाना मुहुर मुहुः कदल्य इव वातेन धूयमानाः समन्ततः ॥ 6 ॥

  7. राजानं विदुरश चापि परज्ञा चक्षुषम ईश्वरम आश्वासयाम आस तदा सिञ्चंस तॊयेन कौरवम ॥ 7 ॥

  8. स लब्ध्वा शनकैः संज्ञां ताश च दृष्ट्वा सत्रियॊ नृप उन्मत्त इव राजा स सथितस तूष्णीं विशां पते ॥ 8 ॥

  9. ततॊ धयात्वा चिरं कालं निःश्वसंश च पुनः पुनः सवान पुत्रान गर्हयाम आस बहु मेने च पाण्डवान ॥ 9 ॥

  10. गर्हयित्वात्मनॊ बुद्धिं शकुनेः सौबलस्य च धयात्वा च सुचिरं कालं वेपमानॊ मुहुर मुहुः ॥ 10 ॥

  11. संस्तभ्य च मनॊ भूयॊ राजा धैर्यसमन्वितः पुनर गावल्गणिं सूतं पर्यपृच्छत संजयम ॥ 11 ॥

  12. यत तवया कथितं वाक्यं शरुतं संजय तन मया कच चिद दुर्यॊधनः सूत न गतॊ वै यमक्षयम बरूहि संजय तत्त्वेन पुनर उक्तां कथाम इमाम ॥ 12 ॥

  13. एवम उक्तॊ ऽबरवीत सूतॊ राजानं जनमेजय हतॊ वैकर्तनॊ राजन सह पुत्रैर महारथैः भरातृभिश च महेष्वासैः सूतपुत्रैस तनुत्यजैः ॥ 13 ॥

  14. दुःशासनश च निहतः पाण्डवेन यशस्विना पीतं च रुधिरं कॊपाद भीमसेनेन संयुगे ॥ 14 ॥

Reach this point to mark the section finished.

Continue to अध्याय 4

Previous: अध्याय 2