[स] दरौणिर युधिष्ठिरं दृष्ट्वा शैनेयेनाभिरक्षितम दरौपदेयैस तथा शूरैर अभ्यवर्तत हृष्टवत ॥ 1 ॥
किरन्न इषुगणान घॊरान सवर्णपुङ्खाञ शिलाशितान दर्शयन विविधान मार्गाञ शिक्षार्थं लघुहस्तवत ॥ 2 ॥
ततः खं पूरयाम आस शरैर दिव्यास्त्रमन्त्रितैः युधिष्ठिरं च समरे पर्यवारयद अस्त्रवित ॥ 3 ॥
दरौणायनि शरच छन्नं न पराज्ञायत किं चन बाणभूतम अभूत सर्वम आयॊधन शिरॊ हि तत ॥ 4 ॥
बाणजालं दिविष्ठं तत सवर्णजालविभूषितम शुशुभे भरतश्रेष्ठ वितानम इव विष्ठितम ॥ 5 ॥
तेन छन्ने रणे राजन बाणजालेन भास्वता अभ्रच छायेव संजज्ञे बाणरुद्धे नभस्तले ॥ 6 ॥
तत्राश्चर्यम अपश्याम बाणभूते तथाविधे न सम संपतते भूमौ दृष्ट्वा दरौणेः पराक्रमम ॥ 7 ॥
लाघवं दरॊणपुत्रस्य दृष्ट्वा तत्र महारथाः वयस्मयन्त महाराज न चैनं परतिवीक्षितुम शेकुस ते सर्वराजानस तपन्तम इव भास्करम ॥ 8 ॥
सात्यकिर यतमानस तु धर्मराजश च पाण्डवः तथेतराणि सैन्यानि न सम चक्रुः पराक्रमम ॥ 9 ॥
वध्यमाने ततः सैन्ये दरौपदेया महारथाः सात्यकिर धर्मराजश च पाञ्चालाश चापि संगताः तयक्त्वा मृत्युभयं घॊरं दरौणायनिम उपाद्रवन ॥ 10 ॥
सात्यकिः पञ्चविंशत्या दरौणिं विद्ध्वा शिला मुखैः पुनर विव्याध नाराचैः सप्तभिः सवर्णभूषितैः ॥ 11 ॥
युधिष्ठिरस तरिसप्तत्या परतिविन्ध्यश च सप्तभिः शरुतकर्मा तरिभिर बाणैः शरुतकीर्तिस तु सप्तभिः ॥ 12 ॥
सुत सॊमश च नवभिः शतानीकश च सप्तभिः अन्ये च बहवः शूरा विव्यधुस तं समन्ततः ॥ 13 ॥
सॊ ऽतिक्रुद्धस ततॊ राजन्न आशीविष इव शवसन सात्यकिं पञ्चविंशत्या पराविध्यत शिलाशितैः ॥ 14 ॥
शरुतकीर्तिं च नवभिः सुत सॊमं च पञ्चभिः अष्टभिः शरुतकर्माणं परतिविन्ध्यं तरिभिः शरैः शतानीकं च नवभिर धर्मपुत्रं च सप्तभिः ॥ 15 ॥
अथेतरांस ततः शूरान दवाभ्यां दवाभ्याम अताडयत शरुतकीर्तेस तथा चापं चिच्छेद निशितैः शरैः ॥ 16 ॥
अथान्यद धनुर आदाय शरुतकीर्तिर महारथः दरौणायनिं तरिभिर विद्ध्वा विव्याधान्यैः शितैः शरैः ॥ 17 ॥
ततॊ दरौणिर महाराज शरवर्षेण भारत छादयाम आस तत सैन्यं समन्ताच च शरैर नृपान ॥ 18 ॥
ततः पुनर अमेयात्मा धर्मराजस्य कार्मुकम दरौणिश चिच्छेद विहसन विव्याध च शरैस तरिभिः ॥ 19 ॥
ततॊ धर्मसुतॊ राजन परगृह्यान्यन महद धनुः दरौणिं विव्याध सप्तत्या बाह्वॊर उरसि चार्दयत ॥ 20 ॥
सात्यकिस तु ततः करुद्धॊ दरौणेः परहरतॊ रणे अर्धचन्द्रेण तीक्ष्णेन धनुश छित्त्वानदद भृशम ॥ 21 ॥
छिन्नधन्वा ततॊ दरौणिः शक्त्या शक्तिमतां वरः सारथिं पातयाम आस शैनेयस्य रथाद दरुतम ॥ 22 ॥
अथान्यद धनुर आदाय दरॊणपुत्रः परतापवान शैनेयं शरवर्षेण छादयाम आस भारत ॥ 23 ॥
तस्याश्वाः परद्रुताः संख्ये पतिते रथसारथौ तत्र तत्रैव धावन्तः समदृश्यन्त भारत ॥ 24 ॥
युधिष्ठिरपुरॊगास ते दरौणिं शस्त्रभृतां वरम अभ्यवर्षन्त वेगेन विसृजन्तः शिताञ शरान ॥ 25 ॥
आगच्छमानांस तान दृष्ट्वा रौद्ररूपान परंतपः परहसन परतिजग्राह दरॊणपुत्रॊ महारणे ॥ 26 ॥
ततः शरशतज्वालः सेना कक्षंमहा रथः दरौणिर ददाह समरे कक्षम अग्निर यथा वने ॥ 27 ॥
तद बलं पाण्डुपुत्रस्य दरॊणपुत्र परतापितम चुक्षुभे भरतश्रेष्ठ तिमिनेव नदी मुखम ॥ 28 ॥
दृष्ट्वा ते च महाराज दरॊणपुत्र पराक्रमम निहतान मेनिरे सर्वान पाण्डून दरॊणसुतेन वै ॥ 29 ॥
युधिष्ठिरस तु तवरितॊ दरौणिं शलिष्य महारथम अब्रवीद दरॊणपुत्रं तु रॊषामर्षसमन्वितः ॥ 30 ॥
नैव नाम तव परीतिर नैव नाम कृतज्ञता यतस तवं पुरुषव्याघ्र माम एवाद्य जिघांससि ॥ 31 ॥
बराह्मणेन तपः कार्यं दानम अध्ययनं तथा कषत्रियेण धनुर नाम्यं स भवान बराह्मण बरुवः ॥ 32 ॥
मिषतस ते महाबाहॊ जेष्यामि युधि कौरवान कुरुष्व समरे कर्म बरह्म बन्धुर असि धरुवम ॥ 33 ॥
एवम उक्तॊ महाराज दरॊणपुत्रः समयन्न इव युक्तत्वं तच च संचिन्त्य नॊत्तरं किं चिद अब्रवीत ॥ 34 ॥
अनुक्त्वा च ततः किं चिच छरवर्षेण पाण्डवम छादयाम आस समरे करुद्धॊ ऽनतक इव परजाः ॥ 35 ॥
संछाद्यमानस तु तदा दरॊणपुत्रेण मारिष पार्थॊ ऽपयातः शीघ्रं वै विहाय महतीं चमूम ॥ 36 ॥
अपयाते ततस तस्मिन धर्मपुत्रे युधिष्ठिरे दरॊणपुत्रः सथितॊ राजन परत्यादेशान महात्मनः ॥ 37 ॥
ततॊ युधिष्ठिरॊ राजा तयक्त्वा दरौणिं महाहवे परययौ तावकं सैन्यं युक्तः करूराय कर्मणे ॥ 38 ॥
कर्णपर्व · Karna Parva
अध्याय 39
Reach this point to mark the section finished.
Continue to अध्याय 40