धर्मDharmic Data

कर्णपर्व · Karna Parva

अध्याय 40

  1. [स] भीमसेनं सपाञ्चाल्यं चेदिकेकयसंवृतम वैकर्तनः सवयं रुद्ध्वा वरयाम आस सायकैः ॥ 1 ॥

  2. ततस तु चेदिकारूषान सृञ्जयांश च महारथान कर्णॊ जघान संक्रुद्धॊ भीमसेनस्य पश्यतः ॥ 2 ॥

  3. भीमसेनस ततः कर्णं विहाय रथसत्तमम परययौ कौरवं सैन्यं कक्षम अग्निर इव जवलन ॥ 3 ॥

  4. सूतपुत्रॊ ऽपि समरे पाञ्चालान केकयांस तथा सृञ्जयांश च महेष्वासान निजघान सहस्रशः ॥ 4 ॥

  5. संशप्तकेषु पार्थाश च कौरवेषु वृकॊदरः पाञ्चालेषु तथा कर्णः कषयं चक्रूर महारथाः ॥ 5 ॥

  6. ते कषत्रिया दह्यमानास तरिभिस तैः पावकॊपमैः जग्मुर विनाशं समरे राजन दुर्मन्त्रिते तव ॥ 6 ॥

  7. ततॊ दुर्यॊधनः करुद्धॊ नकुलं नवभिः शरैः विव्याध भरतश्रेष्ठ चतुरश चास्य वाजिनः ॥ 7 ॥

  8. ततः पुनर अमेयात्मा तव पुत्रॊ जनाधिपः कषुरेण सहदेवस्य धवजं चिच्छेद काञ्चनम ॥ 8 ॥

  9. नकुलस तु ततः करुद्धस तव पुत्रं तरिसप्तभिः जघान समरे राजन सहदेवश च पञ्चभिः ॥ 9 ॥

  10. ताव उभौ भरतश्रेष्ठौ शरेष्ठौ सर्वधनुष्मताम विव्याधॊरसि संक्रुद्धः पञ्चभिः पञ्चभिः शरैः ॥ 10 ॥

  11. ततॊ ऽपराभ्यां भल्लाभ्यां धनुषी समकृन्तत यमयॊः परहसन राजन विव्याधैव च सप्तभिः ॥ 11 ॥

  12. ताव अन्ये धनुषी शरेष्ठे शक्रचापनिभे शुभे परगृह्य रेजतुः शूरौ देवपुत्रसमौ युधि ॥ 12 ॥

  13. ततस तौ रभसौ युद्धे भरातरौ भरातरं नृप शरैर ववर्षतुर घॊरैर महामेघौ यथाचलम ॥ 13 ॥

  14. ततः करुद्धॊ महाराज तव पुत्रॊ महारथः पाण्डुपुत्रौ महेष्वासौ वारयाम आस पत्रिभिः ॥ 14 ॥

  15. धनुर्मण्डलम एवास्य दृश्यते युधि भारत सायकाश चैव दृश्यन्ते निश्चरन्तः समन्ततः ॥ 15 ॥

  16. तस्य सायकसंछन्नौ चकाशेतां च पाण्डवौ मेघच छन्नौ यथा वयॊम्नि चन्द्रसूर्यौ हतप्रभौ ॥ 16 ॥

  17. ते तु बाणा महाराज हेमपुङ्खाः शिलाशिताः आछादयन दिशः सर्वाः सूर्यस्येवांशवस तदा ॥ 17 ॥

  18. बाणभूते ततस तस्मिन संछन्ने च नभस्तले यमाभ्यां ददृशे रूपं कालान्तकयमॊपमम ॥ 18 ॥

  19. पराक्रमं तु तं दृष्ट्वा तव सूनॊर महारथाः मृत्यॊर उपान्तिकं पराप्तौ माद्रीपुत्रौ सम मेनिरे ॥ 19 ॥

  20. ततः सेनापती राजन पाण्डवस्य महात्मनः पार्षतः परययौ तत्र यत्र राजा सुयॊधनः ॥ 20 ॥

  21. माद्रीपुत्रौ ततः शूरौ वयतिक्रम्य महारथौ धृष्टद्युम्नस तव सुतं ताडयाम आस सायकैः ॥ 21 ॥

  22. तम अविध्यद अमेयात्मा तव पुत्रॊ ऽतयमर्षणः पाञ्चाल्यं पञ्चविंशत्या परहस्य पुरुषर्षभ ॥ 22 ॥

  23. ततः पुनर अमेयात्मा पुत्रस ते पृथिवीपते विद्ध्वा ननाद पाञ्चाल्यं षष्ट्या पञ्चभिर एव च ॥ 23 ॥

  24. अथास्य सशरं चापं हस्तावापं च मारिष कषुरप्रेण सुतीक्ष्णेन राजा चिच्छेद संयुगे ॥ 24 ॥

  25. तद अपास्य धनुश छिन्नं पाञ्चाल्यः शक्र कर्शनः अन्यद आदत्त वेगेन धनुर भारसहं नवम ॥ 25 ॥

  26. परज्वलन्न इव वेगेन संरम्भाद रुधिरेक्षणः अशॊभत महेष्वासॊ धृष्टद्युम्नः कृतव्रणः ॥ 26 ॥

  27. स पञ्चदश नाराचाञ शवसतः पन्नगान इव जिघांसुर भरतश्रेष्ठं धृष्टद्युम्नॊ वयवासृजत ॥ 27 ॥

  28. ते वर्म हेमविकृतं भित्त्वा राज्ञः शिलाशिताः विविशुर वसुधां वेगात कङ्कबर्हिण वाससः ॥ 28 ॥

  29. सॊ ऽतिविद्धॊ महाराज पुत्रस ते ऽतिव्यराजत वसन्ते पुष्पशबलः सपुष्प इव किंशुकः ॥ 29 ॥

  30. स छिन्नवर्मा नाराचैः परहारैर जर्जरच्छविः धृष्टद्युम्नस्य भल्लेन करुद्धश चिच्छेद कार्मुकम ॥ 30 ॥

  31. अथैनं छिन्नधन्वानं तवरमाणॊ महीपतिः सायकैर दशभी राजन भरुवॊर मध्ये समार्दयत ॥ 31 ॥

  32. तस्य ते ऽशॊभयन वक्त्रं कर्मार परिमार्जिताः परफुल्लं चम्पकं यद्वद भरमरा मधु लिप्सवः ॥ 32 ॥

  33. तद अपास्य धनुश छिन्नं धृष्टद्युम्नॊ महामनाः अन्यद आदत्त वेगेन धनुर भल्लांश च षॊडश ॥ 33 ॥

  34. ततॊ दुर्यॊधनस्याश्वान हत्वा सूतं च पञ्चभिः धनुश चिच्छेद भल्लेन जातरूपपरिष्कृतम ॥ 34 ॥

  35. रथं सॊपस्करं छत्रं शक्तिं खड्गं गदां धवजम भल्लैश चिच्छेद नवभिः पुत्रस्य तव पार्षतः ॥ 35 ॥

  36. तपनीयाङ्गदं चित्रं नागं मणिमयं शुभम धवजं कुरुपतेश छिन्नं ददृशुः सर्वपार्थिवाः ॥ 36 ॥

  37. दुर्यॊधनं तु विरथं छिन्नसर्वायुधं रणे भरातरः पर्यरक्षन्त सॊदर्या भरतर्षभ ॥ 37 ॥

  38. तम आरॊप्य रथे राजन दण्डधारॊ जनाधिपम अपॊवाह च संभ्रान्तॊ धृष्टद्युम्नस्य पश्यतः ॥ 38 ॥

  39. कर्णस तु सात्यकिं जित्वा राजगृद्धी महाबलः दरॊण हन्तारम उग्रेषुं ससाराभिमुखं रणे ॥ 39 ॥

  40. तं पृष्ठतॊ ऽभययात तूर्णं शैनेयॊ वितुदञ शरैः वारणं जघनॊपान्ते विषाणाभ्याम इव दविपः ॥ 40 ॥

  41. स भारत महान आसीद यॊधानां सुमहात्मनाम कर्ण पार्षतयॊर मध्ये तवदीयानां महारणः ॥ 41 ॥

  42. न पाण्डवानां नास्माकं यॊधः कश्च चित पराङ्मुखः परत्यदृश्यत यत कर्णः पाञ्चालांस तवरितॊ ययौ ॥ 42 ॥

  43. तस्मिन कषणे नरश्रेष्ठ गजवाजिन रक्षयः परादुरासीद उभयतॊ राजन मध्यं गते ऽहनि ॥ 43 ॥

  44. पाञ्चालास तु महाराज तवरिता विजिगीषवः सर्वतॊ ऽभयद्रवन कर्णं पतत्रिण इव दरुमम ॥ 44 ॥

  45. तेषाम आधिरथिः करुद्धॊ यतमानान मनस्विनः विचिन्वन्न एव बाणाग्रैः समासादयद अग्रतः ॥ 45 ॥

  46. वयाघ्रकेतुं सुशर्माणं शङ्कुं चॊग्रं धनंजयम शुक्लं च रॊचमानं च सिंहसेनं च दुर्जयम ॥ 46 ॥

  47. ते वीरा रथवेगेन परिवव्रुर नरॊत्तरम सृजन्तं सायकान करुद्धं कर्णम आहवशॊभिनम ॥ 47 ॥

  48. युध्यमानांस तु ताञ शूरान मनुजेन्द्रः परतापवान अष्टाभिर अष्टौ राधेयॊ नयहनन निशितैः शरैः ॥ 48 ॥

  49. अथापरान महाराज सूतपुत्रः परतापवान जघान बहुसाहस्रान यॊधान युद्धविशारदः ॥ 49 ॥

  50. विष्णुं च विष्णुकर्माणं देवापिं भद्रम एव च दण्डं च समरे राजंश चित्रं चित्रायुधं हरिम ॥ 50 ॥

  51. सिंहकेतुं रॊचमानं शलभं च महारथम निजघान सुसंक्रुद्धश चेदीनां च महारथान ॥ 51 ॥

  52. तेषाम आददतः पराणान आसीद आधिरथेर वपुः शॊणिताभ्युक्षिताङ्गस्य रुद्रस्येवॊर्जितं महत ॥ 52 ॥

  53. तत्र भारत कर्णेन मातङ्गास ताडिताः शरैः सर्वतॊ ऽभयद्रवन भीताः कुर्वन्तॊ महद आकुलम ॥ 53 ॥

  54. निपेतुर उर्व्यां समरे कर्ण सायकपीडिताः कुर्वन्तॊ विविधान नादान वज्रनुन्ना इवाचलाः ॥ 54 ॥

  55. गजवाजिमनुष्यैश च निपतद्भिः समन्ततः रथैश चावगतैर मार्गे पर्यस्तीर्यत मेदिनी ॥ 55 ॥

  56. नैव भीष्मॊ न च दरॊणॊ नाप्य अन्ये युधि तावकाः चक्रुः सम तादृशं कर्म यादृशं वै कृतं रणे ॥ 56 ॥

  57. सूतपुत्रेण नागेषु रथेषु च हयेषु च नरेषु च नरव्याघ्र कृतं सम कदनं महत ॥ 57 ॥

  58. मृगमध्ये यथा सिंहॊ दृश्यते निर्भयश चरन पाञ्चालानां तथा मध्ये कर्णॊ ऽचरद अभीतवत ॥ 58 ॥

  59. यथा मृगगणांस तरस्तान सिंहॊ दरावयते दिशः पाञ्चालानां रथव्रातान कर्णॊ दरावयते तथा ॥ 59 ॥

  60. सिंहास्यं च यथा पराप्य न जीवन्ति मृगाः कव चित तथा कर्णम अनुप्राप्य न जीवन्ति महारथाः ॥ 60 ॥

  61. वैश्वानरं यथा दीप्तं दह्यन्ते पराप्य वै जनाः कर्णाग्निना रणे तद्वद दग्धा भारत सृञ्जयाः ॥ 61 ॥

  62. कर्णेन चेदिष्व एकेन पाञ्चालेषु च भारत विश्राव्य नाम निहता बहवः शूर संमताः ॥ 62 ॥

  63. मम चासीन मनुष्येन्द्र दृष्ट्वा कर्णस्य विक्रमम नैकॊ ऽपय आधिरथेर जीवन पाञ्चाल्यॊ मॊक्ष्यते युधि ॥ 63 ॥

  64. पाञ्चालान विधमन संख्ये सूतपुत्रः परतापवान अभ्यधावत संक्रुद्धॊ धर्मपुत्रं युधिष्ठिरम ॥ 64 ॥

  65. धृष्टद्युम्नश च राजानं दरौपदेयाश च मारिष परिवव्रुर अमित्रघ्नं शतशश चापरे जनाः ॥ 65 ॥

  66. शिखण्डी सहदेवश च नकुलॊ नाकुलिस तथा जनमेजयः शिनेर नप्ता बहवश च परभद्रकाः ॥ 66 ॥

  67. एते पुरॊगमा भूत्वा धृष्टद्युम्नस्य संयुगे कर्णम अस्यन्तम इष्वस्त्रैर विचेरुर अमितौजसः ॥ 67 ॥

  68. तांस तत्राधिरथिः संख्ये चेदिपाञ्चालपाण्डवान एकॊ बहून अभ्यपतद गरुत्मन पान्नगान इव ॥ 68 ॥

  69. भीमसेनस तु संक्रुद्धः कुरून मद्रान सकेकयान एकः संख्ये महेष्वासॊ यॊधयन बह्व अशॊभत ॥ 69 ॥

  70. तत्र मर्मसु भीमेन नाराचैस ताडिता गजाः परपतन्तॊ हतारॊहाः कम्पयन्ति सम मेदिनीम ॥ 70 ॥

  71. वाजिनश च हतारॊहाः पत्तयश च गतासवः शेरते युधि निर्भिन्ना वमन्तॊ रुधिरं बहु ॥ 71 ॥

  72. सहस्रशश च रथिनः पतिताः पतितायुधाः अक्षताः समदृश्यन्त भीमाद भीता गतासवः ॥ 72 ॥

  73. रथिभिर वाजिभिः सूतैः पत्तिभिश च तथा गजैः भीमसेनशरच छिन्नैर आस्तीर्णा वसुधाभवत ॥ 73 ॥

  74. तत सतम्भितम इवातिष्ठद भीमसेनबलार्दितम दुर्यॊधन बलं राजन निरुत्साहं कृतव्रणम ॥ 74 ॥

  75. निश्चेष्टं तुमुले दीनं बभौ तस्मिन महारणे परसन्नसलिलः काले यथा सयात सागरॊ नृप ॥ 75 ॥

  76. मन्युवीर्यबलॊपेतं बलात पर्यवरॊपितम अभवत तव पुत्रस्य तत सैन्यम इषुभिस तदा रुधिरौघपरिक्लिन्नं रुधिरार्द्रं बभूव ह ॥ 76 ॥

  77. सूतपुत्रॊ रणे करुद्धः पाण्डवानाम अनीकिनीम भीमसेनः कुरूंश चापि दरावयन बह्व अशॊभत ॥ 77 ॥

  78. वर्तमाने तथा रौद्रे संग्रामे ऽदभुतदर्शने निहत्य पृतना मध्ये संशप्तक गणान बहून ॥ 78 ॥

  79. अर्जुनॊ जयतां शरेष्ठॊ वासुदेवम अथाब्रवीत परभग्नं बलम एतद धि यॊत्स्यमानं जनार्दन ॥ 79 ॥

  80. एते धावन्ति सगणाः संशप्तक महारथाः अपारयन्तॊ मद्बाणान सिंहशब्दान मृगा इव ॥ 80 ॥

  81. दीर्यते च महत सैन्यं सृञ्जयानां महारणे हस्तिकक्ष्यॊ हय असौ कृष्ण केतुः कर्णस्य धीमतः दृश्यते राजसैन्यस्य मध्ये विचरतॊ मुहुः ॥ 81 ॥

  82. न च कर्णं रणे शक्ता जेतुम अन्ये महारथाः जानीते हि भवान कर्णं वीर्यवन्तं पराक्रमे ॥ 82 ॥

  83. तत्र याहि यतः कर्णॊ दरावयत्य एष नॊ बलम ॥ 83 ॥

  84. वर्जयित्वा रणे याहि सूतपुत्रं महारथम शरमॊ मा बाधते कृष्ण यथा वा तव रॊचते ॥ 84 ॥

  85. एतच छरुत्वा महाराज गॊविन्दः परहसन्न इव अब्रवीद अर्जुनं तूर्णं कौरवाञ जहि पाण्डव ॥ 85 ॥

  86. ततस तव महत सैन्यं गॊविन्द परेरिता हयाः हंसवर्णाः परविविशुर वहन्तः कृष्ण पाण्डवौ ॥ 86 ॥

  87. केशव परहितैर अश्वैः शवेतैः काञ्चनभूषणैः परविशद्भिस तव बलं चतुर्दिशम अभिद्यत ॥ 87 ॥

  88. तौ विदार्य महासेना परविष्टौ केशवार्जुनौ करुद्धौ संरम्भरक्ताक्षौ वयभ्राजेतां महाद्युती ॥ 88 ॥

  89. युद्धशौण्डौ समाहूताव अरिभिस तौ रणाध्वरम यज्वभिर विधिनाहूतौ मखे देवाव इवाश्विनौ ॥ 89 ॥

  90. करुद्धौ तौ तु नरव्याघ्रौ वेगवन्तौल बभूवतुः तलशब्देन रुषितौ यथा नागौ महाहवे ॥ 90 ॥

  91. विगाहन स रथानीकम अश्वसंघांश च फल्गुनः वयचरत पृतना मध्ये पाशहस्त इवान्तकः ॥ 91 ॥

  92. तं दृष्ट्वा युधि विक्रान्तं सेनायां तव भारत संशप्तक गणान भूयः पुत्रस ते समचॊदयत ॥ 92 ॥

  93. ततॊ रथसहस्रेण दविरदानां तरिभिः शतैः चतुर्दशसहस्रैश च तुरगाणां महाहवे ॥ 93 ॥

  94. दवाभ्यां शतसहस्राभ्यां पदातीनां च धन्विनाम शूराणां नाम लब्धानां विदितानां समन्ततः अभ्यवर्तन्त तौ वीरौ छादयन्तॊ महारथाः ॥ 94 ॥

  95. स छाद्यमानः समरे शरैः परबलार्दनः दर्शयन रौद्रम आत्मानं पाशहस्त इवान्तकः निघ्नन संशप्तकान पार्थः परेक्षणीयतरॊ ऽभवत ॥ 95 ॥

  96. ततॊ विद्युत्प्रभैर बाणैः कार्तस्वरविभूषितैः निरन्तरम इवाकाशम आसीन नुन्नैः किरीटिना ॥ 96 ॥

  97. किरीटिभुजनिर्मुक्तैः संपतद्भिर महाशरैः समाच्छन्नं बभौ सर्वं काद्रवेयैर इव परभॊ ॥ 97 ॥

  98. रुक्मपुङ्खान परसन्नाग्राञ शरान संनतपर्वणः अदर्शयद अमेयात्मा दिक्षु सर्वासु पाण्डवः ॥ 98 ॥

  99. हत्वा दशसहस्राणि पार्थिवानां महारथ संशप्तकानां कौन्तेयः परपक्षं तवरितॊ ऽभययात ॥ 99 ॥

  100. परपक्षं स समासाद्य पार्थः काम्बॊजरक्षितम परममाथ बलाद बाणैर दानवान इव वासवः ॥ 100 ॥

  101. परचिच्छेदाशु भल्लैश च दविषताम आततायिनाम शस्त्रपाणींस तथा बाहूंस तथापि च शिरांस्य उत ॥ 101 ॥

  102. अङ्गाङ्गावयवैश छिन्नैर वयायुधास ते ऽपतन कषितौ विष्वग वाताभिसंभग्ना बहुशाखा इव दरुमाः ॥ 102 ॥

  103. हस्त्यश्वरथपत्तीनां वरातान निघ्नन्तम अर्जुनम सुदक्षिणाद अवरजः शरवृष्ट्याभ्यवीवृषत ॥ 103 ॥

  104. अस्यास्यतॊ ऽरधचन्द्राभ्यां स बाहू परिघॊपमौ पूर्णचन्द्राभवक्त्रं च कषुरेणाभ्यहनच छिरः ॥ 104 ॥

  105. स पपात ततॊ वाहात सवलॊहित परिस्रवः मनःशिला गिरेः शृङ्गं वज्रेणेवावदारितम ॥ 105 ॥

  106. सुदक्षिणाद अवरजं काम्बॊजं ददृशुर हतम परांशुं कमलपत्राक्षम अत्यर्थं परियदर्शनम काञ्चनस्तम्भसंकाशं भिन्नं हेमगिरिं यथा ॥ 106 ॥

  107. ततॊ ऽभवत पुनर युद्धं घॊरम अद्भुतदर्शनम नानावस्थाश च यॊधानां बभूवुस तत्र युध्यताम ॥ 107 ॥

  108. एतेष्व आवर्जितैर अश्वैः काम्बॊजैर यवनैः शकैः शॊणिताक्तैस तदा रक्तं सर्वम आसीद विशां पते ॥ 108 ॥

  109. रथै रथाश्वसूतैश च हतारॊहैश च वाजिभिः दविरदैश च हतारॊहैर महामात्रैर हतद्विपैः अन्यॊन्येन महाराज कृतॊ घॊरॊ जनक्षयः ॥ 109 ॥

  110. तस्मिन परपक्षे पक्षे च वध्यमाने महात्मना अर्जुनं जयतां शरेष्ठं तवरितॊ दरौणिर आययौ ॥ 110 ॥

  111. विधुन्वानॊ महच चापं कार्तस्वरविभूषितम आददानः शरान घॊरान सवा रश्मीन इव भास्करः ॥ 111 ॥

  112. तैः पतद्भिर महाराज दरौणिमुक्तैः समन्ततः संछादितौ रथस्थौ ताव उभौ कृष्ण धनंजयौ ॥ 112 ॥

  113. ततः शरशतैस तीक्ष्णैर भारद्वाजः परतावपान निश्चेष्टौ ताव उभौ चक्रे युद्धे माधव पाण्डवौ ॥ 113 ॥

  114. हाहाकृतम अभूत सर्वं जङ्गमं सथावरं तथा चराचरस्य गॊप्तारौ दृष्ट्वा संछादितौ शरैः ॥ 114 ॥

  115. सिद्धचारणसंघाश च संपेतुर वै समन्ततः चिन्तयन्तॊ भवेद अद्य लॊकानां सवस्त्य अपीत्य अह ॥ 115 ॥

  116. न मया तादृशॊ राजन दृष्टपूर्वः पराक्रमः संजज्ञे यादृशॊ दरौणेः कृष्णौ संछादयिष्यतः ॥ 116 ॥

  117. दरौणेस तु धनुषः शब्दम अहितत्रासनं रणे अश्रौषं बहुशॊ राजन सिंहस्य नदतॊ यथा ॥ 117 ॥

  118. जया चास्य चरतॊ युद्धे सव्यदक्षिणम अस्यतः विद्युद अम्बुदमध्यस्था भराजमानेव साभवत ॥ 118 ॥

  119. स तथा कषिप्रकारी च दृढहस्तश च पाण्डवः संमॊहं परमं गत्वा परैक्षत दरॊणजं ततः ॥ 119 ॥

  120. स विक्रमं हृतं मेने आत्मानः सुमहात्मना तथास्य समरे राजन वपुर आसीत सुदुर्दृशम ॥ 120 ॥

  121. दरौणिपाण्डवयॊर एवं वतमाने महारणे वर्धमाने च राजेन्द्र दरॊणपुत्रे महाबले हीयमाने च कौन्तेये कृष्णं रॊषः समभ्ययात ॥ 121 ॥

  122. सरॊषान निःश्वसन राजन निर्दहन्न इव चक्षुषा दरौणिं हय अपश्यत संग्रामे फल्गुनं च मुहुर मुहुः ॥ 122 ॥

  123. ततः करुद्धॊ ऽबरवीत कृष्णः पार्थं सप्रणयं तदा अत्यद्भुतम इदं पार्थ तव पश्यामि संयुगे अतिशेते हि यत्र तवा दरॊणपुत्रॊ ऽदय भारत ॥ 123 ॥

  124. कच चित ते गाण्डिवं हस्ते रथे तिष्ठसि चार्जुन कच चित कुशलिनौ बाहू कच चिद वीर्यं तद एव ते ॥ 124 ॥

  125. एवम उक्तस तु कृष्णेन कषिप्त्वा भल्लांश चतुर्दश तवरमाणस तवरा काले दरौणेर धनुर अथाच्छिनत धवजं छत्रं पताकां च रथां शक्तिं गदां तथा ॥ 125 ॥

  126. जत्रु देशे च सुभृशं वत्सदन्तैर अताडयत स पूर्च्छां परमां गत्वा धवजयष्टिं समाश्रितः ॥ 126 ॥

  127. तं विसंज्ञं महाराज किरीटिभयपीडितम अपॊवाह रणात सूतॊ रक्षमाणॊ धनंजयात ॥ 127 ॥

  128. एतस्मिन्न एव काले तु विजयः शत्रुतापनः नयवधीत तावकं सैन्यं शतशॊ ऽथ सहस्रशः पश्यतस तव पुत्रस्य तस्य वीरस्य भारत ॥ 128 ॥

  129. एवम एष कषयॊ वृत्तस तावकानां परैः सह करूरॊ विशसनॊ घॊरॊ राजन दुर्मन्त्रिते तव ॥ 129 ॥

  130. संशप्तकांश च कौन्तेयः कुरूंश चापि वृकॊदरः वसुषेणं च पाञ्चालः कृत्स्नेन वयधमद रणे ॥ 130 ॥

Reach this point to mark the section finished.

Continue to अध्याय 41

Previous: अध्याय 39