[स] कृतवर्मा कृपॊ दरौणिः सूतपुत्रश च मारिष उलूकः सौबलश चैव राजा च सह सॊदरैः ॥ 1 ॥
सीदमानां चमूं दृष्ट्वा पाण्डुपुत्र भयार्दिताम समुज्जिहीर्षुर वेगेन भिन्नां नावम इवार्णवे ॥ 2 ॥
ततॊ युद्धम अतीवासीन मुहूर्तम इव भारत भीरूणां तरासजननं शूराणां हर्षवर्धनम ॥ 3 ॥
कृपेण शरवर्षाणि विप्र मुक्तानि संयुगे सृञ्जयाः शातयाम आसुः शलभानां वरजा इव ॥ 4 ॥
शिखण्डी तु ततः करुद्धॊ गौतमं तवरितॊ ययौ ववर्ष शरवर्षाणि समन्ताद एव बराह्मणे ॥ 5 ॥
कृपस तु शरवर्षं तद विनिहत्य महास्त्रवित शिखण्डिनं रणे करुद्धॊ विव्याध दशभिः शरैः ॥ 6 ॥
ततः शिखण्डी कुपीतः शरैः सप्तभिर आहवे कृपं विव्याध सुभृशं कङ्कपत्रैर अजिह्मगैः ॥ 7 ॥
ततः कृपः शरैस तीक्ष्णैः सॊ ऽतिविद्धॊ महारथः वयश्व सूत रथं चक्रे पार्षतं तु दविजॊत्तमः ॥ 8 ॥
हताश्वात तु ततॊ यानाद अवप्लुत्य महारथः चर्मखड्गे च संगृह्य सत्वरं बराह्मणं ययौ ॥ 9 ॥
तम आपतन्तं सहसा शरैः संनतपर्वभिः छादयाम आस समरे तद अद्भुतम इवाभवत ॥ 10 ॥
तत्राद्भुतम अपश्याम शिलानां पलवनं यथा निश्चेष्टॊ यद रणे राजञ शिखण्डी समतिष्ठत ॥ 11 ॥
कृपेण छादितं दृष्ट्वा नृपॊत्तम शिखण्डिनम परत्युद्ययौ कृपं तूर्णं धृष्टद्युम्नॊ महारथ ॥ 12 ॥
धृष्टद्युम्नं ततॊ यान्तं शारद्वत रथं परति परतिजग्राह वेगेन कृतवर्मा महारथः ॥ 13 ॥
युधिष्ठिरम अथायान्तं शारद्वत रथं परति सपुत्रं सहसेनं च दरॊणपुत्रॊ नयवारयत ॥ 14 ॥
नकुलं सहदेवं च तवरमाणौ महारथौ परतिजग्राह ते पुत्रः शरवर्षेण वारयन ॥ 15 ॥
भीमसेनं करूषांश च केकयान सहसृञ्जयान कर्णॊ वैकर्तनॊ युद्धे वारयाम आस भारत ॥ 16 ॥
शिखण्डिनस ततॊ बाणान कृपः शारद्वतॊ युधि पराहिणॊत तवरया युक्तॊ दिधक्षुर इव मारिष ॥ 17 ॥
ताञ शरान परेषितांस तेन समन्ताद धेमभूषणान चिच्छेद खड्गम आविध्य भरामयंश च पुनः पुनः ॥ 18 ॥
शतचन्द्रं ततश चर्म गौतमः पार्षतस्य ह वयधमत सायकैस तूर्णं तत उच्चुक्रुशुर जनाः ॥ 19 ॥
स विचर्मा महाराज खड्गपाणिर उपाद्रवत कृपस्य वशम आपन्नॊ मृत्यॊर आस्यम इवातुरः ॥ 20 ॥
शारद्वत शरैर गरस्तं कलिश्यमानं महाबलम चित्रकेतुसुतॊ राजन सुकेतुस तवरितॊ ययौ ॥ 21 ॥
विकिरन बराह्मणं युद्धे बहुभिर निशितैः शरैः अभ्यापतद अमेयात्मा गौतमस्य रथं परति ॥ 22 ॥
दृष्ट्वाविषह्यं तं युद्धे बराह्मणं चरितव्रतम अपयातस ततस तूर्णं शिखण्डी राजसत्तम ॥ 23 ॥
सुकेतुस तु ततॊ राजन गौतमं नवभिः शरैः विद्ध्वा विव्याध सप्तत्या पुनश चैनं तरिभिः शरैः ॥ 24 ॥
अथास्य सशरं चापं पुनश चिच्छेद मारिष सारथिं च शरेणास्य भृशं मर्मण्य अताडयत ॥ 25 ॥
गौतमस तु ततः करुद्धॊ धनुर गृह्य नवं दृढम सुकेतुं तरिंशता बाणैः सर्वमर्मस्व अताडयत ॥ 26 ॥
स विह्वलितसर्वाङ्गः परचचाल रथॊत्तमे भूमिचाले यथा वृक्षश चलत्य आकम्पितॊ भृशम ॥ 27 ॥
चलतस तस्य कायात तु शिरॊ जवलितकुण्डलम सॊष्णीषं सशिरस्त्राणं कषुरप्रेणान्वपातयत ॥ 28 ॥
तच्छिरः परापतद भूमौ शयेनाहृतम इवामिषम ततॊ ऽसय कायॊ वसुधां पश्चात पराप तदा चयुतः ॥ 29 ॥
तस्मिन हते महाराज तरस्तास तस्य पदानुगाः गौतमं समरे तयक्त्वा दुद्रुवुस ते दिशॊ दश ॥ 30 ॥
धृष्टद्युम्नं तु समरे संनिवार्य महाबलः कृतवर्माब्रवीद धृष्टस तिष्ठ तिष्ठेति पार्षतम ॥ 31 ॥
तद अभूत तुमुलं युद्धं वृष्णिपार्षतयॊ रणे आमिषार्थे यथा युद्धं शयेनयॊर गृद्धयॊर नृप ॥ 32 ॥
धृष्टद्युम्नस तु समरे हार्दिक्यं नवभिः शरैः आजघानॊरसि करुद्धः पीडयन हृदिकात्मजम ॥ 33 ॥
कृतवर्मा तु समरे पार्षतेन दृढाहतः पार्षतं सरथं साश्वं छादयाम आस सायकैः ॥ 34 ॥
सरथश छादितॊ राजन धृष्टद्युम्नॊ न दृश्यते मेघैर इव परिच्छन्नॊ भास्करॊ जलदागमे ॥ 35 ॥
विधूय तं बाणगणं शरैः कनकभूषणैः वयरॊचत रणे राजन धृष्टद्युम्नः कृतव्रणः ॥ 36 ॥
ततस तु पार्षतः करुद्धः शस्त्रवृष्टिं सुदारुणाम कृतवर्माणम आसाद्य वयसृजत पृतना पतिः ॥ 37 ॥
ताम आपतन्तीं सहसा शस्त्रवृष्टिं निरन्तराम शरैर अनेकसाहस्रैर हार्दिक्यॊ वयधमद युधि ॥ 38 ॥
दृष्ट्वा तु दारितां युद्धे शस्त्रवृष्टिं दुरुत्तराम कृतवर्माणम अभ्येत्य वारयाम आस पार्षतः ॥ 39 ॥
सारथिं चास्य तरसा पराहिणॊद यमसादनम भल्लेन शितधारेण स हतः परापतद रथात ॥ 40 ॥
धृष्टद्युम्नस तु बलवाञ जित्वा शत्रुं महारथम कौरवान समरे तूर्णं वारयाम आस सायकैः ॥ 41 ॥
ततस ते तावका यॊधा धृष्टद्युम्नम उपाद्रवन सिंहनाद रवं कृत्वा ततॊ युद्धम अवर्तत ॥ 42 ॥
कर्णपर्व · Karna Parva
अध्याय 38
Reach this point to mark the section finished.
Continue to अध्याय 39